Enter your Email Address to subscribe to our newsletters

देहरादूनम्, १५ सेप्टेम्बरमासः (हि.स.)। उत्तराखण्डस्य भौगोलिकानां सामाजि-कानां च समस्यासां तकनीकी-समाधानानि अन्वेष्टुं मङ्गलवासरे ‘उत्तराखण्ड इनोवेशन एण्ड सॉल्यूशन्स हैकाथॉन-२०२६’ इत्यस्य शुभारम्भः अभवत्। ९० दिनानि यावत् प्रचलिते अस्मिन् हैकाथॉने यूनां तकनीकीकौशलं नवाचारं च राज्यस्य वास्तविकसमस्यानां समाधानैः सह सम्बद्धुं विशेषं बलं प्रदास्यते।
ग्राफिक-एराविश्वविद्यालये आयोजितस्य कार्यक्रमस्य शुभारम्भं सूचनाप्रौद्योगिकी-विज्ञानप्रौद्योगिकी-जैवप्रौद्योगिकीमन्त्री प्रदीप: बत्रा अकरोत्। कार्यक्रमे प्रायः ५०० छात्राः, शिक्षाविदः, शिक्षकाः, तकनीकी-विशेषज्ञाः, युवा-नवाचारकाः च भागं गृहीतवन्तः।
हैकाथॉने आपदाप्रबन्धनस्य, यातायातस्य जनसमूहप्रबन्धनस्य च, स्वास्थ्यसेवानां सुलभतायाः, पर्यावरणस्य पारिस्थितिकी-तन्त्रस्य च, वन्यजीवसंरक्षणस्य, पर्यटनस्य, सुशासनस्य च सम्बद्धानां समस्यासां समाधानानि अन्वेष्यन्ते। प्रतिभागिनः राज्यस्य स्थानीयपरिस्थितीनाम् आवश्य-कतानां च अनुरूपाणि व्यावहारिकानि तकनीकीसमाधानानि विकसितुं प्रोत्साहयिष्यन्ते।
मन्त्री प्रदीप बत्रा अवदत् यत् उत्तराखण्डस्य युवासु शैक्षणिकसंस्थासु च राज्यस्य विशिष्टसमस्यानां समाधानानि विकसितुं क्षमता अस्ति। तकनीकिं केवलं नवाचारपर्यन्तं सीमितं न कृत्वा नागरिकाणां वास्तविकसमस्यानां समा-धानस्य माध्यमं करणीयम्। सः कृत्रिमबुद्धेः, दत्तांशविश्लेषणस्य, भौगोलिकसूचनाप्रणाल्याः, ड्रोन-तकनीकि इत्यस्य च उपयोगेन शासनं जनसेवाश्च अधिकं प्रभावी कर्तुं बलं दत्तवान्।
हैकाथॉने प्रतिभागिनः समस्यायाः परिचयेन विचारेण च आरम्भं करिष्यन्ति। ततः प्रारूपनिर्माणं, विशेषज्ञैः मार्गदर्शकैश्च मार्गदर्शनं तथा मूल्याङ्कनस्य विभिन्नाः चरणाः भविष्यन्ति। चयनितानां नवाचा-राणां प्रायोगिकपरियोजनारूपेण, नवाचार-संवर्धनरूपेण उद्योगैः सह सम्पर्कस्य दिशि च अग्रे वर्धयितुं अवसरः प्रदास्यते।
एआई-आधारितस्य शासकीयज्ञान-भाण्डारस्य, शासकीयसूचनानां सुलभान्वेषणाय प्रणालीनां, विस्तृत-परियोजनाप्रतिवेदनानां निविदानिवेदनानां च निर्माणे एआई-प्रयोगस्य, दत्तांश-प्रबन्धनस्य, एआई-आधारित-जीआई-एसस्य, पर्यावरणीय-विश्लेषणस्य च विषयेषु अपि समाधानानि विकसितुं प्रयासः भविष्यति। आपदा-प्रबन्धनस्य, आधारभूतसंरचनानां मूल्याङ्कनस्य, सार्वजनिकसुरक्षायाः च कृते ड्रोन-आधारित-वायुमानीक्षणस्य विषये अपि कार्यं भविष्यति।
पर्यटकाणां तीर्थयात्रिणां च ऋतुगतिं दृष्ट्वा यातायातप्रभावस्य पूर्वानुमानं, पर्यावरणीयप्रभावस्य निरीक्षणं, आपदा-सम्भावितक्षेत्राणां परिचयः, आपत्कालीन-सेवानां सुदृढीकरणाय तकनीकी-समाधानानि च विशेषरूपेण अन्विष्यन्ते। दूरस्थेषु पर्वतीयक्षेत्रेषु जनानां कृते शासकीयसेवानां सुलभतां वर्धयितुं उपायाः अपि अन्विष्यन्ते।
आयोजकानाम् अनुसारं ९०-दिवसीय-कार्यक्रमस्य आरम्भः अन्तर्जालीय-विचारप्रस्तावनया भविष्यति। ततः प्रारूपनिर्माणस्य, मार्गदर्शनस्य मूल्याङ्कनस्य च चरणानि भविष्यन्ति। देहरादूनम् सहिते राज्यस्य प्रमुखेषु शैक्षणिकेषु तकनीकीकेन्द्रेषु च नवाचार-सम्बद्धाः गतिविधयः अग्रे वर्धयिष्यन्ते।
हैकाथॉनस्य आयोजनं सूचनाप्रौद्योगिकी-विकाससंस्थायाः पक्षतः एक्सोलॉटल एम्प्राइज एलएलपी इत्यनेन संस्थागतैः पारिस्थितिकीतन्त्रसहयोगिभिश्च सह क्रियते। अस्य उद्देश्यं शैक्षणिकसंस्थानां, शासकीयविभागानां, तकनीकी-समुदायस्य, युवानवाचारकानां च मध्ये समन्वयं वर्धयित्वा स्थानीयसमस्यानां स्थानीय-तकनीकीसमाधानानि विकसितुम् अस्ति।
Hindusthan Samachar / Divya Ranjan