उत्तरप्रदेशे ५.९९ कोट्यधिकानि आयुष्मानपत्राणि, ९७.७५ लक्षाधिकेभ्यः रोगिभ्यः निःशुल्कं चिकित्सा प्राप्ता
लखनऊ, १५ सेप्टेम्बरमासः (हि.स.)। आयुष्मानभारतयोजनायाः माध्यमेन उत्तरप्रदेशे निर्धनेभ्यः आवश्यकता-ग्रस्तेभ्यश्च परिवारेभ्यः उत्तमस्वास्थ्य-सुविधानां प्रदाने विस्तारं निरन्तरं वर्धते। प्रदेशे अधुना यावत् ५ कोटि ९९ लक्षाधिकानि आयुष्मानपत्राणि निर्मिता
आयुष्मान योजना


रायबरेली निवासी सुशीला


लखनऊ, १५ सेप्टेम्बरमासः (हि.स.)। आयुष्मानभारतयोजनायाः माध्यमेन उत्तरप्रदेशे निर्धनेभ्यः आवश्यकता-ग्रस्तेभ्यश्च परिवारेभ्यः उत्तमस्वास्थ्य-सुविधानां प्रदाने विस्तारं निरन्तरं वर्धते। प्रदेशे अधुना यावत् ५ कोटि ९९ लक्षाधिकानि आयुष्मानपत्राणि निर्मितानि सन्ति। योजनया सम्बद्धैः ६४९७ सर्वकारीयैः निजीचिकित्सालयैश्च पात्र-परिवारेभ्यः पञ्चलक्षरूप्यकपर्यन्तं निःशुल्कचिकित्सासुविधा प्रदीयते। अधुना यावत् ९७.७५ लक्षाधिकानां रोगिणां निःशुल्कचिकित्सा कृता अस्ति, यदा तु सर्वकारेण अस्यां योजनायां १६ सहस्रकोटिरूप्यकेभ्यः अधिकं धनं व्ययितम् अस्ति।

आयुष्मानभारतस्य राज्यनोडलाधिकारी डॉ. मनोजश्रीवास्तवः हिन्दुस्थानसमाचारं प्रति अवदत् यत् अस्याः योजनायाः अन्तर्गतं प्रदेशस्य ९७.७५ लक्षाधिकानां रोगिणां निःशुल्का सफलचिकित्सा अधुना यावत् कृता अस्ति। एतेषु अधिकांशाः हृदयरोगेन, वृक्कसम्बद्धरोगैः, तन्त्रिका-सम्बद्धैश्च गम्भीररोगैः पीडिताः आसन्। सर्वकारेण योजनायाः अन्तर्गतम् अधुना यावत् १६ सहस्रं २१४ कोटिरूप्यकेभ्यः अधिका राशिः व्ययिता अस्ति। एषा धनराशिः रोगिणां निःशुल्कचिकित्सायाः प्रतिफलरूपेण चिकित्सालयेभ्यः प्रत्यक्षतया प्रदत्ता।

सर्वकारेण शिक्षकाणां पीआरडी-सैनिकानां, अधिवक्तॄणां, पाककर्मिणां तथा आङ्गनवाडीकर्मकरिणीनां सहायिकानां च परिवाराणां कृते निःशुल्कनगदविहीन-चिकित्सासुविधायाः घोषणा कृता अस्ति। महाविद्यालयेषु, स्ववित्तपोषितपाठ्यक्रमेषु तथा स्ववित्तपोषितमहाविद्यालयेषु कार्यरतानां १.२८ लक्षाधिकानां शिक्षकाणां तेषाम् आश्रितपरिवाराणां च कृते मुख्यमन्त्री-शिक्षक-नगदविहीनचिकित्सा-सुविधा-योजनया सुविधा प्रदीयते। उत्तरप्रदेश-सर्वकारेण अधुना एव प्रान्तीय-रक्षक-दलस्य ३१ सहस्राधिकानां स्वयंसेवकानां तेषां परिवाराणां च कृते प्रतिवर्षं पञ्चलक्षरूप्यकपर्यन्तं निःशुल्कनगद-विहीनचिकित्सासुविधायाः घोषणा कृता अस्ति। आङ्गनवाडी-कर्मकरिणीभ्यः सहायिकाभ्यश्च तेषां परिवारैः सह प्रतिवर्षं पञ्चलक्ष-रूप्यकपर्यन्तं नगदविहीन-चिकित्सा-सुविधां प्रदातुम् अपि घोषणा कृता। एतदतिरिक्तं परिषदीय-विद्यालयेषु पीएम-पोषणयोजनायाः अन्तर्गतं बालकेभ्यः भोजनं पचन्त्यः पाककर्मिण्यः अपि नगदविहीन-चिकित्सासुविधायाः लाभं प्राप्स्यन्ति।

संयुक्तराष्ट्रीयस्वास्थ्यमिशनकर्मचारीसङ्घस्य प्रदेशमहामन्त्री योगेशोपाध्यायः अवदत् यत् उत्तरप्रदेशसर्वकारेण पीआरडी-सैनिकेभ्यः, आङ्गनवाडीकर्मकरिणीभ्यः, अधिवक्तृभ्यः, शिक्षकेभ्यश्च पञ्चलक्ष-रूप्यकपर्यन्तम् आयुष्मान्-स्वास्थ्य-बीमासुरक्षा प्रदातुं कृतः निर्णयः स्वागतयोग्यः अस्ति। सः अग्रे अवदत् यत् एनएचएमस्य एकलक्षं स्वास्थ्य-कर्मचारिणः २.२५ लक्षं आशाकर्मकरिण्यश्च अपि अस्यां योजनायां समावेशनीयाः। ये स्वास्थ्यकर्मचारिणः अन्येषां चिकित्सां कुर्वन्ति, तेभ्यः अपि स्वास्थ्यसुरक्षायाः अधिकारः भवितुम् अर्हति।

एतदतिरिक्तं पीएम-स्वनिधियोजनायाः लाभार्थिनः आयुष्मानभारत-प्रधानमन्त्री-जन-आरोग्ययोजनया सह संयोजयितुं सज्जता अपि प्रारब्धा अस्ति। अस्य कृते प्रदेशव्यापिरूपेण विशेषाभियानं सञ्चाल्य वीथिविक्रेतॄन् चिन्हितं करिष्यते। प्रदेशे ७८ लक्षाधिकेभ्यः लाभार्थिभ्यः विना प्रतिभूतिं कार्यशीलपूञ्जीऋणं प्रदत्तम् अस्ति। राज्यनगरीयविकासाभिकरणस्य निदेशकः महेन्द्रबहादुरसिंहः जनपदाधिकारिभ्यः जनपद-नगरीयविकासाभिकरणेभ्यश्च पोर्टल्-माध्यमेन विवरणानि अपलोड् कर्तुं निर्देशं दत्तवान्।

प्रदेशसर्वकारेण १४ सेप्टेम्बर-दिने अधिवक्तृभ्यः अपि नगदविहीनचिकित्सा-सुविधायाः घोषणा कृता अस्ति। उच्चन्यायालयस्य लखनऊपीठस्य अधि-वक्ता अमरबहादुरमौर्यः अवदत् यत् अधिवक्तृभ्यः स्वास्थ्यबीमासुविधां प्रदातुं कृतः प्रयासः निश्चयेन प्रशंसनीयः अस्ति। एषा योजना स्वव्यवसाये सङ्घर्षं कुर्वताम् अधिवक्तॄणां कृते महत्त्वपूर्णा सिद्धा भविष्यति।

जौनपुरनिवासी ४१ वर्षीयः धर्मेन्द्रकुमारः अवदत् यत् यदि तस्य समीपे आयुष्मानपत्रं नाभविष्यत् तर्हि सः स्वचिकित्सां कारयितुं न अशक्नोत्। लखनऊनगरे स्थिते संजयगान्धी-आयुर्विज्ञानसंस्थाने अधुना एव तस्य हृदयस्य शस्त्रक्रिया कृता। अधुना सः पूर्णतया स्वस्थः अस्ति।

लखनऊस्य सिविल-चिकित्सालयस्य आयुष्मान्-प्रकोष्ठे प्रवेशिता ७६ वर्षीया सुशीला अवदत् यत् तस्याः हस्ते अस्थिभङ्गः अभवत्। हस्ते धातुपट्टिका स्थापिता अस्ति। आयुष्मानपत्रस्य कारणेन औषधीनां, शस्त्रक्रियायाः, धातुपट्टिकायाः च कृते एकमपि रूप्यकं दातुं न अभवत्।

अस्मिन्नेव प्रकोष्ठे प्रवेशितः लखनऊवासी ७३ वर्षीयः चुन्नीलालसोनकरः अवदत् यत् तस्य नितम्बास्थि भग्नम् अभवत्। शस्त्रक्रियायाः चिकित्सायाश्च सम्पूर्णः व्ययः आयुष्मानपत्रस्य माध्यमेन अभवत्।

Hindusthan Samachar / Divya Ranjan