Enter your Email Address to subscribe to our newsletters

लखनऊ, १५ सितम्बर (हि.स.)। मुख्यमन्त्रिणः योगी आदित्यनाथस्य अध्यक्षतायां मङ्गलवासरे उत्तरप्रदेश-मन्त्रिमण्डलस्य महत्त्वपूर्णा बैठक सम्पन्ना। अस्यां बैठके कुलम् २३ महत्त्वपूर्णाः प्रस्तावाः अनुमोदिताः।
अनुमोदितेषु प्रमुखेषु प्रस्तावेषु मथुरा-जनपदस्य छाता-क्षेत्रे २०० कोटि-रूप्यकाणां व्ययेन एथेनॉल-संयन्त्रस्य स्थापना, प्रायः २७ सहस्राणां पीआरडी-जवानानां दैनिक-मानदेयस्य वृद्धिः तथा तेषां कृते नगदरहित-चिकित्सा-सुविधा च अन्तर्भवति।
परिवहन-विभागस्य प्रवर्तन-सिपाही-पदस्य नियुक्तौ अग्निवीर-अभ्यर्थिभ्यः अधिकतमायुषि सप्तवर्षाणां शिथिलता तथा २० प्रतिशतं आरक्षणं प्रदास्यते। मन्त्रिमण्डलेन क्रीडनक-नीतिः अपि अनुमोदिता। प्रायः १४ सहस्राणि परिषदीय-विद्यालयाः आईसीटी-प्रयोगशालाभिः युक्ताः कृत्वा आधुनिकाः करिष्यन्ते। किराया-सम्झौतासु मुद्राङ्क-शुल्कं न्यूनीकर्तुं तथा प्रदेशस्य द्वयोः जनपदयोः त्रयाणां नूतन-बस-स्थानकानां निर्माणाय अपि स्वीकृतिः प्रदत्ता।
मन्त्रिमण्डल-सभायाः अनन्तरं वित्तमन्त्री सुरेश खन्ना अन्यैः मन्त्रिभिः सह पत्रकार-सम्मेलनं कृत्वा निर्णयानां विषये सूचनां दत्तवान्। सः अवदत् यत् प्रदेशस्य प्रायः २७ सहस्राणां पीआरडी-जवानानां दैनिक-कर्तव्य-भत्तं वर्धितम्। स्वयंसेवकेभ्यः तेषाम् आश्रित-परिवार-सदस्येभ्यश्च नगदरहित-चिकित्सा-सुविधा प्रदास्यते। सः उक्तवान् यत् राज्य-सर्वकारः पीआरडी-जवानानां मानदेयं निरन्तरं वर्धयति। नगरीय-विकाससम्बद्धाः अनेकाः प्रस्तावाः अपि मन्त्रिमण्डलेन अनुमोदिताः।
अलीगढे साईं ग्लोबल विश्वविद्यालयस्य स्थापना भविष्यति
उच्चशिक्षामन्त्री योगेन्द्र उपाध्यायः पत्रकार-सम्मेलने अवदत् यत् अलीगढ-जनपदे साईं ग्लोबल विश्वविद्यालयस्य स्थापनार्थं ‘ओम साईं’ संस्थायै आशयपत्रं प्रदत्तम्। संस्थया निर्धारितानि आवश्यक-मानकानि पूर्णानि कृतानि सन्ति। ततः सर्वकारेण विश्वविद्यालय-स्थापनाय अनुमतिः प्रदत्ता। संस्थायै द्वयोः वर्षयोः अन्तः आवश्यकाः सर्वाः औपचारिकताः पूर्णाः कर्तुं निर्देशः दत्तः।
मथुरायाः छाता-क्षेत्रे २०० कोटि-रूप्यकैः एथेनॉल-संयन्त्रं स्थापयिष्यते
मन्त्रिमण्डलेन मथुरा-जनपदस्य छाता-क्षेत्रे एथेनॉल-संयन्त्रस्य स्थापनाय स्वीकृतिः प्रदत्ता। अस्य संयन्त्रस्य निर्माणे प्रायः २०० कोटि-रूप्यकाणां व्ययः भविष्यति। विगतैः १९ वर्षैः बन्दस्य शर्करा-कारखानस्य परिसरे एतत् संयन्त्रं स्थापयिष्यते।
अस्मिन् संयन्त्रे इक्षोः, मक्कायाः तथा धानस्य उपयोगेन एथेनॉल उत्पादयिष्यते। प्रदेशस्य इक्षु-विकास-मन्त्री लक्ष्मी नारायण चौधरी अवदत् यत् अस्य संयन्त्रस्य वार्षिकी उत्पादन-क्षमता ३.९६ कोटि-लीटर् भविष्यति। एतत् विस्तारित-संयन्त्ररूपेण विकसितं भविष्यति तथा वर्षे प्रायः एकादश मासान् यावत् सञ्चालितं भविष्यति।
––––––––––––––––––––––––––––––––––
Hindusthan Samachar / Dheeraj Maithani