Enter your Email Address to subscribe to our newsletters


देहरादूनम्, 15 सितंबरमासः (हि.स.)।
सहसपुरविकासखण्डस्य शंकरपुरे स्वयं-सहायतासमूहेभ्यः सम्बद्धानां महिलानां सामूहिक-उत्पादनकार्ये स्वरोजगारे च संयोजनाय सामान्यसुविधाकेन्द्रस्य मङ्गलवासरे शुभारम्भः कृतः। केन्द्रस्य माध्यमेन २२३ स्वयं-सहायतासमूहानां प्रायः २५०० महिलाः लाभान्विताः भविष्यन्ति।
मन्त्रिमण्डलस्य मन्त्री भरतसिंहचौधरी केन्द्रस्य शुभारम्भम् अकरोत्। अस्मिन् अवसरे सहसपुरस्य विधायकः सहदेवसिंहपुण्डीरः अपि उपस्थितः आसीत्। जनपदप्रशासनस्य प्रयासेन पुनर्जीवितस्य केन्द्रस्य सञ्चालनं आस्था-क्लस्टर-स्तरीय-महासङ्घेन क्रियते।
केन्द्रे महिलाभिः सिलाईकार्यं, जूटस्य पुटकानां वस्त्रनिर्मितानां पुटकानां च निर्माणं क्रियते। मन्त्री उक्तवान् यत् पर्यावरणानुकूलानां उत्पादानां निर्माणेन सह एषा पहलः महिलानां आयं वर्धयितुं ताः आर्थिकरूपेण आत्मनिर्भराः कर्तुं च सहायिका भविष्यति।
मन्त्री चौधरी उक्तवान् यत् खादी-ग्रामोद्योगस्य प्राचीनं भवनं जनपदप्रशासनेन विभिन्नविभागानां समन्वयेन पुनर्जीवितं कृत्वा उत्पादन-इकायीरूपेण विकसितम् अस्ति। सः उक्तवान् यत् एतत् प्रतिरूपं देहरादूननगरपर्यन्तं सीमितं न भविष्यति, अपि तु अन्येषु जनपदेष्वपि एतादृश्याः उत्पादन-इकायाः स्थापयितुं दिशि कार्यं क्रियते।
सः सूचितवान् यत् प्रदेशे प्रायः सार्धपञ्चलक्षं महिलाः स्वयं-सहायतासमूहेषु सम्बद्धाः सन्ति, येषु त्रिलक्षाधिकाः महिलाः ‘लखपति दीदी’ इति योजनायाः अन्तर्गतं लक्षाधिका-आययुक्ताः महिलाः अभवन्। अवशिष्टानां महिलानाम् आयं वर्धयितुं योजनाबद्धरूपेण कार्यमपि क्रियते।
मन्त्री सूचितवान् यत् महिला-समूहानां तकनीकी-प्रशिक्षणाय, उद्यमिता-विकासाय तथा विपणिना सह संयोजनाय भारतीयप्रबन्धनसंस्थानं काशीपुरेण सह समझौताज्ञापनं कृतम् अस्ति। भविष्ये केन्द्रे विद्यालयीयबालकानां गणवेशानां तथा पुलिसबलस्य, होमगार्डदलस्य, पीआरडी-जवानानां च गणानां निर्माणस्य सम्भावनासु अपि कार्यं क्रियते।
मुख्यविकासाधिकारी अभिनवशाहः उक्तवान् यत् केन्द्रं बहुवर्षेभ्यः बन्दम् आसीत्। यन्त्राणि उपलब्धीकृत्य तथा सम्बद्धविभागानां समन्वयेन एतत् समेकित-उत्पादन-इकायीरूपेण विकसितम् अस्ति। जनपदप्रशासनं महिलाभ्यः प्रशिक्षणं, उत्पादनम् ,आवरणं तथा विपणिं च उपलब्धीकर्तुं सहयोगं करिष्यति।
------------
Hindusthan Samachar / Dheeraj Maithani