Enter your Email Address to subscribe to our newsletters

हल्द्वानी, १५ सेप्टेम्बरमासः (हि.स.)। हल्द्वानीनगरनिगमस्य महापौरः गजराज-सिंहबिष्टः नगरस्य महिलानां कृते वॉकवे-मॉलस्थिते चलचित्रगृहे आध्यात्मिक-चलचित्रस्य ‘हनुमान अंशः’ इत्यस्य विशेषप्रदर्शनम् अकारयत्।
बाबा नीमकरौलीमहाराजस्य जीवनस्य आध्यात्मिकसन्देशानां च आधारेण निर्मितस्य अस्य चलचित्रस्य माध्यमेन महिलाभ्यः प्रेम्णः, भक्तेः, सेवायाः, मानवतायाः आध्यात्मिकजीवनस्य च विषये तस्य विचारान् ज्ञातुं अवसरः प्राप्तः।
महापौरः गजराजसिंहबिष्टः अवदत् यत् बाबा नीमकरौलीमहाराजस्य जीवनं प्रेम्णः, सेवायाः भक्तेश्च सन्देशं ददाति। ‘हनुमान अंशः’ इव चलचित्राणि जनान् स्वकीयया आध्यात्मिकपरम्परया सह सम्बद्धुं प्रेरयन्ति। सः अवदत् यत् नगरे सकारात्मकानां संस्कारपूर्णानां च कार्य-क्रमाणां निरन्तरं प्रोत्साहनं भवितव्यम्।
सः अवदत् यत् बाबा नीमकरौली-महाराजस्य शिक्षाः अद्यापि समाजं प्रेम्णः, सेवायाः सद्भावस्य च मार्गे गन्तुं प्रेरयन्ति। एतादृशाः कार्यक्रमाः सांस्कृतिक्याः आध्यात्मिक्याश्च परम्परायाः नूतन-वंशपर्यन्तं प्रसारणे महत्त्वपूर्णां भूमिकां निर्वहन्ति।
विशेषप्रदर्शने हल्द्वानीनगरस्य बहु-संख्यकाः महिलाः सम्मिलिताः। चलचित्र-दर्शनानन्तरं महिलाभिः महापौरस्य अस्य प्रयत्नस्य प्रशंसा कृता तथा च इदं आध्यात्मिकां सकारात्मकचिन्तनधारां च प्रोत्साहयितुं महत्त्वपूर्णं प्रयासम् इति कथितम्।
Hindusthan Samachar / Divya Ranjan