हैदराबाद-मुक्तिदिवस-समारोहे उपराष्ट्रपतिः राधाकृष्णन् मुख्यातिथिः भविष्यति।
हैदराबादम्, 15 सितंबरमासः (हि.स.)। केन्द्रीयसर्वकारस्य पक्षतः सितम्बरमासस्य सप्तदशे दिने अत्र आयोज्यमाने ‘हैदराबाद-मुक्तिदिवस’समारोहे उपराष्ट्रपतिः सी. पी. राधाकृष्णन् मुख्यातिथिः भविष्यति। केन्द्रीयकोयलाखानिमन्त्री जी. किशनरेड्डी मङ्गलवासरे परेड-म
हैदराबाद में बाइक रैली में शामिल होते केंद्रीय मंत्री किशन रेड्डी


हैदराबाद मुक्ति दिवस की तैयारी के लिए महिलाओं की स्कूटी रैली


हैदराबादम्, 15 सितंबरमासः (हि.स.)। केन्द्रीयसर्वकारस्य पक्षतः सितम्बरमासस्य सप्तदशे दिने अत्र आयोज्यमाने ‘हैदराबाद-मुक्तिदिवस’समारोहे उपराष्ट्रपतिः सी. पी. राधाकृष्णन् मुख्यातिथिः भविष्यति। केन्द्रीयकोयलाखानिमन्त्री जी. किशनरेड्डी मङ्गलवासरे परेड-मैदाने कार्यक्रमस्य सज्जतायाः निरीक्षणं कृत्वा एतां सूचनां दत्तवान्। तेन उक्तं यत् केन्द्रीयसंस्कृतिमन्त्री गजेन्द्रसिंहशेखावतः अपि समारोहे सम्मिलितः भविष्यति।

भारतीयसेनायाः ‘आपरेशन् पोलो’ इति अभियानस्य अनन्तरं तत्कालीननिजामस्य नेतृत्वाधीनस्य हैदराबादसंस्थानस्य १९४८ तमस्य वर्षस्य सितम्बरमासस्य सप्तदशे दिने भारतीयसङ्घे विलयः अभवत्। किशनरेड्डी पत्रकारैः सह वार्तालापे अवदत् यत् हैदराबाद-मुक्तिदिवससमारोहः कश्चन राजनैतिककार्यक्रमः नास्ति, अपितु तेलङ्गानायाः चतुर्षु कोटिषु जनानां स्वाभिमानसम्बद्धः विषयः अस्ति। निजामशासनस्य विरुद्धे सङ्घर्षे स्वप्राणान् त्यक्तवद्भ्यः जनाभ्यः श्रद्धाञ्जलिं समर्पयितुम् अपि एषः अवसरः अस्ति।

तेन उक्तं यत् अस्मिन् वर्षे केन्द्रीयसर्वकारः निरन्तरं पञ्चमवारं हैदराबादे अस्य समारोहस्य आयोजनं करोति। समारोहे उपराष्ट्रपतिः राधाकृष्णन् मुख्यातिथिः भविष्यति, यदा तु केन्द्रीयमन्त्री गजेन्द्रसिंहशेखावतः अन्ये च नेतारः अपि सम्मिलिताः भविष्यन्ति।

रेड्डी-महोदयस्य अनुसारं समारोहे अर्धसैनिकबलानां सैनिकानां परेडः भविष्यति। तदतिरिक्तं तेलङ्गानायाः प्रायः सहस्रं कलाकाराः विशेषनृत्यप्रस्तुतिं करिष्यन्ति।

एतस्मात् पूर्वं केन्द्रीयमन्त्रिणा चारमीनारस्थितात् मातुः भाग्यलक्ष्म्याः मन्दिरात् सचिवालयपरिसरे स्थितां सरदारपटेलस्य प्रतिमां यावत् महिलानां स्कूटरयात्रायाः शुभारम्भः कृतः। अस्मिन् अवसरे किशनरेड्डी स्वयं बुलेट-मोटरसाइकिलयाने आरुह्य मार्गेण अपि गतवान्।

हैदराबाद-मुक्तिदिवसस्य आधिकारिकरूपेण आचरणं न कृतमिति विषयं प्रति किशनरेड्डी पूर्ववर्तिनः भारतराष्ट्रसमितेः तथा वर्तमानस्य काङ्ग्रेस-सर्वकारस्य च आलोचनां कृतवान्। तेन आरोपितं यत् उभे दलें एआईएमआईएम इत्यस्य निर्देशानुसारं कार्यं कुरुतः। रेड्डी अवदत् यत् भारतीयजनतापक्षः दीर्घकालात् अस्य दिवसस्य आधिकारिकरूपेण आचरणस्य आग्रहं कुर्वन् अस्ति, किन्तु बीआरएस-काङ्ग्रेस-नेतृत्वाधीनसर्वकारैः अस्मिन् दिशि कापि पहलः न कृता। अत एव केन्द्रीयसर्वकारेण हैदराबादे आधिकारिकसमारोहस्य आयोजनस्य निर्णयः कृतः।

मुख्यमन्त्रिणः ए. रेवन्‍तरेड्डी-महोदयस्य नेतृत्वाधीना काङ्ग्रेस-सर्वकारः सितम्बरमासस्य सप्तदशे दिनाङ्के ‘तेलङ्गानाप्रजापालनदिनोत्सवम्’ इति रूपेण अस्य दिवसस्य आचरणं करोति। अपरतः पूर्ववर्तिना बीआरएस-सर्वकारेण २०२२ तमे २०२३ तमे च वर्षे अस्यां तिथौ ‘राष्ट्रियैकतादिवसः’ इति रूपेण आचरणं कृतम् आसीत्।----------

Hindusthan Samachar / Dheeraj Maithani