Enter your Email Address to subscribe to our newsletters

शिमला, १५ सेप्टेम्बरमासः (हि.स.)। हिन्दीदिवसस्य अवसरे रोटरी टाउन हॉल-शिमलायां ‘समरस समाज–विकसित भारत का आधार’ इति पुस्तकस्य प्रस्तुती-करणसमारोहस्य आयोजनम् अभवत्। कार्यक्रमस्य आयोजनं प्रज्ञा-प्रवाहस्य, प्रज्ञा-स्टडी-सर्कल-शिमलायाः सामाजिकसमरसतागतिविधेश्च संयुक्त-तत्त्वावधाने अभवत्। पुस्तकस्य लेखकौ अशोककुमारबेरी डॉ. हिमांशु-अग्रवालश्च स्तः।
पुस्तकस्य उद्देश्यं भारतीयसमाजस्य विविधतायाः मध्ये सामाजिकसमरसतायाः, एकतायाः, परस्परसम्मानस्य सह-भागितायाश्च भावनां सुदृढां कर्तुम् अस्ति। अस्मिन् विविधतां भारतस्य शक्तिरूपेण प्रतिपाद्य विकसितस्य आत्मनिर्भरस्य च राष्ट्रस्य निर्माणे समाजस्य प्रत्येकं वर्गस्य समानसह-भागितायाः आवश्यकतायां बलं दत्तम् अस्ति।
कार्यक्रमस्य अध्यक्षतां रामकृष्णमिशन-शिमलायाः सचिवः स्वामी तन्महिमानन्द-महाराजः अकरोत्। सः अवदत् यत् समाजस्य वास्तविकप्रगतिः तदैव सम्भवति, यदा विकासस्य लाभः अन्तिमव्यक्तिपर्यन्तं प्राप्नुयात् तथा प्रत्येकं नागरिकः राष्ट्रस्य विकासयात्रायां स्वयम् अपि सहभागी अस्ति इति अनुभवेत्।
मुख्यातिथिः हिमाचलप्रदेशलोक-सेवायोगस्य पूर्वाध्यक्षः रामेश्वरठाकुरः पुस्तकस्य विषयवस्तुनः प्रशंसां कुर्वन् अवदत् यत् वर्तमानसमये सामाजिकै-कतायाः राष्ट्रियचेतनायाश्च सुदृढीकरणस्य आवश्यकता अधिका वर्धिता अस्ति। सः युवासु सकारात्मक-सामाजिकदृष्टि-कोणस्य, संवेदनशीलतायाः राष्ट्रं प्रति उत्तरदायित्वभावनायाश्च विकासे बलं दत्तवान्।
विशिष्टातिथिः शिमलाविभागस्य सङ्घ-चालकः साई एटर्नल फाउण्डेशन इत्यस्य संस्थापकसदस्यश्च राजकुमारवर्मा सामाजिकसङ्गठनानां, शिक्षणसंस्थानां नागरिकसमाजस्य च भूमिकायाः विषये प्रकाशं पातितवान्।
मुख्यवक्ता लेखकश्च अशोकबेरी पुस्तकस्य पृष्ठभूमिं विषयवस्तु च विषयीकरोति स्म। सः अवदत् यत् भारतीयसमाजस्य मूलप्रकृतिः समन्वयस्य सह-अस्तित्वस्य च एव आसीत्। अस्मिन् अवसरे हिन्दीभाषायाः महत्त्वस्य विषये अपि चर्चा अभवत्। कार्यक्रमे शिक्षाविदः, सामाजिक-कार्यकर्तारः, छात्राः बुद्धिजीविनश्च भागं गृहीतवन्तः।
Hindusthan Samachar / Divya Ranjan