जीटीबी चिकित्सालये २५० शय्यायुक्तः सुपर-स्पेशियलिटी-सह-ट्रॉमा-ब्लॉक निर्मास्यते - रेखा गुप्ता
नवदिल्ली, १६ सेप्टेम्बरमासः (हि.स.)। दिलशादगार्डनस्थे गुरुतेगबहादुर-चिकित्सालये २५० शय्यायुक्तस्य सुपर-स्पेशियलिटी-सह-ट्रॉमा-ब्लॉक इत्यस्य निर्माणाय स्वीकृतिः प्रदत्ता अस्ति। अस्याः परियोजनायाः व्ययः २४४.८७ कोटिरूप्यकाणि भविष्यति। मुख्यमन्त्री-रेखा
दिल्ली की मुख्यमंत्री रेखा गुप्ता मंगलवार को मंत्रिपरिषद की बैठक करते हुए


नवदिल्ली, १६ सेप्टेम्बरमासः (हि.स.)। दिलशादगार्डनस्थे गुरुतेगबहादुर-चिकित्सालये २५० शय्यायुक्तस्य सुपर-स्पेशियलिटी-सह-ट्रॉमा-ब्लॉक इत्यस्य निर्माणाय स्वीकृतिः प्रदत्ता अस्ति। अस्याः परियोजनायाः व्ययः २४४.८७ कोटिरूप्यकाणि भविष्यति। मुख्यमन्त्री-रेखागुप्तायाः अध्यक्षतायां मङ्गलवासरे सम्पन्नायां मन्त्रिमण्डलस्य सभायाम् एषा स्वीकृतिः प्रदत्ता। नूतनः ब्लॉक इति जीटीबी चिकित्सालयस्य विद्यमानपरिसरे एव निर्मास्यते, अतः तदर्थं नवीनभूमेः क्रयणस्य आवश्यकता न भविष्यति। अयं ट्रॉमा-ब्लॉक प्रधानमन्त्री-स्वास्थ्यसुरक्षा-योजनायाः चतुर्थचरणस्य अन्तर्गतं निर्मास्यते।

मुख्यमन्त्री बुधवासरे विज्ञप्तिं निर्गम्य अवदत् यत् नूतनस्य ब्लॉकस्य प्रारम्भेन गम्भीररोगिभ्यः चतुर्विंशतिः होराः आपत्कालीन-ट्रॉमा-चिकित्सया सह विशेषज्ञचिकित्सा, परीक्षणं, शल्यक्रिया तथा गहनचिकित्सायाः सुविधाः एकस्मिन्नेव स्थाने प्राप्स्यन्ते। सा अवदत् यत् प्रायः २२,५५० वर्गमीटर् क्षेत्रफले निर्मीयमाणः अयं ब्लॉक सप्ततलीयः भविष्यति, यस्मिन् भूमिगततलं, भूतलं तदुपरि षट् तलानि च भविष्यन्ति। अस्मिन् २५० शय्याः, ४८ विशेषज्ञ-बहिरोगी-कक्षाः तथा नव आधुनिकाः शल्यक्रियाकक्षाः भविष्यन्ति। भूमिगततले रक्तपेढी प्रयोगशाला च व्यवस्थापिते भविष्यतः। भूतले चतुर्विंशतिः होराः आपत्कालीन-सेवया सह सीटी, एमआरआई, एक्स-रे इत्यादीनां परीक्षणसुविधाः उपलब्धाः भविष्यन्ति। सा अवदत् यत् द्वितीये तले ७२ शय्यायुक्तः गहनचिकित्साकक्षः भविष्यति, चतुर्थे पञ्चमे च तले १७५ सामान्य-निजी-वार्ड्-शय्याः भविष्यन्ति। षष्ठे तले कार्यालयाः, कक्ष्याः चिकित्सकानां प्रशिक्षणाय प्रयोगशाला च निर्मास्यते। आहत्य २५० शय्यासु २० आपत्कालीनशय्याः, ५ दाहचिकित्सा-गहनचिकित्साशय्याः, ७० गहनचिकित्साशय्याः, ४ एकान्तवास-शय्याः, २२ शल्यक्रियापूर्व-शल्यक्रिया-पश्चात् शय्याः, १०२ सामान्यवार्ड्-शय्याः तथा २५ निजी-कक्षशय्याः सम्मिलिताः भविष्यन्ति। ब्लॉके स्नायुरोग, अस्थिरोग, चर्मरोग तथा दन्तचिकित्सासहिताः विभिन्नाः विशेषज्ञ-सेवाः उपलब्धाः भविष्यन्ति। गम्भीररोगिणां कृते कुलं ७७ गहन-चिकित्साशय्यानां सुविधा भविष्यति।

मुख्यमन्त्री अवदत् यत् नूतने ब्लॉके दुर्घटनानां गम्भीर-आपत्कालीन-प्रकरणानां च कृते चतुर्विंशतिः होराः ट्रॉमा-चिकित्सासुविधा भविष्यति। रोगिणां परीक्षणाय सीटी-स्कैन, एमआरआई, एक्स-रे, अल्ट्रासाउंड तथा प्रयोगशालायाः सुविधाः उपलब्धाः भविष्यन्ति। शल्य-क्रियायै नव आधुनिकाः शल्यक्रियाकक्षाः निर्मास्यन्ते। तदतिरिक्तं रक्तसञ्चयस्य पूर्णव्यवस्थायुक्ता रक्तपेटिका अपि स्थापयिष्यते।

सा अवदत् यत् गम्भीरदुर्घटनाप्रकरणेषु समये उपचारः अत्यन्तं महत्त्वपूर्णः भवति। नूतने ब्लॉके आपत्कालीनसेवातः परीक्षणं, गहनचिकित्सा, शल्यक्रिया च यावत् आवश्यकाः सुविधाः एकीकृतरूपेण उपलब्धाः करिष्यन्ते। अनेन पूर्वदिल्ली-प्रदेशे गम्भीरदुर्घटनानां आपत्कालीन-प्रकरणानां च चिकित्सा-क्षमतायाः विस्तारः भविष्यति। परियोजनायाः निरीक्षणाय केन्द्र-सर्वकारस्य दिल्ली-सर्वकारस्य च वरिष्ठाधिकारिणां समितिः गठिता भविष्यति। एषा समितिः प्रत्येकं त्रिमासे सभां कृत्वा निर्माणकार्यस्य प्रगतिं समीक्षिष्यति। चिकित्सालयस्य सेवां २०२८ तमे वर्षे प्रारब्धुं लक्ष्यं निर्धारितम् अस्ति।

मुख्यमन्त्री अवदत् यत् जीटीबी चिकित्सालये निर्मीयमाणः अयं नूतनः ब्लॉक पूर्वदिल्लीप्रदेशस्य जनानां कृते गम्भीरदुर्घटनानाम् आपत्कालीन-प्रकरणानां च चिकित्सासुविधां विस्तार-यिष्यति। २५० नूतनशय्याः, चतुर्विंशतिः होराः ट्रॉमा-चिकित्सा, गहनचिकित्सा, शल्यक्रियाकक्षाः, आधुनिकपरीक्षण-सुविधाः, विशेषज्ञसेवाः रक्तपेटिका च इत्यादीनां व्यवस्थाभिः चिकित्सालयस्य उपचारक्षमता सुदृढा भविष्यति।

Hindusthan Samachar / Divya Ranjan