Enter your Email Address to subscribe to our newsletters

रायपुरम्, 16 सितंबरमासः (हि. स.)।
सेवासङ्कल्पाभियानस्य अन्तर्गतं सप्तदशे सितम्बर् दिने मरीनड्राइवस्थले आयोजितस्य ‘आशीर्वाददीपः’ इति कार्यक्रमस्य दृष्ट्या रायपुरस्य यातायातपुलिसायुक्तालयेन यातायातमार्गपरिवर्तनस्य वाहनस्थानव्यवस्थायाश्च योजना प्रकाशिता। कार्यक्रमे मुख्यमन्त्री मुख्यातिथिरूपेण सहभागं करिष्यति। मन्त्रिणः, जनप्रतिनिधयः, वरिष्ठाधिकारिणः तथा बहुसंख्याकाः नागरिकाः आगन्तुं सम्भावनां दृष्ट्वा अद्य सायं प्रायः सप्तवादनात् यातायातव्यवस्थायां परिवर्तनं भविष्यति।
यातायातपुलिसानुसारं तेलीबान्धाथानातिराहातः, कटोरातालाबचौकात्, अनुपमनगरचौकात्, शास्त्रीचौकात् तथा आयकरविभागस्य आवासीयपरिसरस्य मार्गपरिवर्तनस्थलात् मरीनड्राइवस्य दिशि आगच्छन्तः वाहनाः वैकल्पिकमार्गेषु प्रेषयिष्यन्ते।
कार्यक्रमकाले भगतसिंहचौकतः खजानाचौकपर्यन्तं, भगतसिंहचौकतः शङ्करनगरस्य अधःसेतुपर्यन्तं, भगतसिंहचौकतः तेलीबान्धाचौकपर्यन्तं तथा आनन्दनगरचौकतः भारतमाताचौकं कटोरातालाबचौकं च प्रति उभयतः वाहनानां गमनागमनं वाहनस्थापनं च निषिद्धं भविष्यति।
कार्यक्रमे आगच्छतां नागरिकानां कृते गॉसमेमोरियलमैदानम्, अम्बेडकरचौकस्थितं बहुस्तरीयवाहनस्थानम्, ऑक्सीजोनस्य पार्श्वमार्गः, शान्तिनगरस्य विमतारामार्गः, सूर्यनमस्कारनहरमार्गः तथा शङ्करनगरस्थितं बीटीआईमैदानं च वाहनस्थानरूपेण निर्धारितानि सन्ति।
यातायातपुलिसेन नागरिकेभ्यः मार्गपार्श्वे अथवा निषिद्धक्षेत्रेषु वाहनानि न स्थापयितुं आग्रहः कृतः। कार्यक्रमकाले अनावश्यकरूपेण प्रभावितमार्गाणां प्रयोगं न कृत्वा आवश्यकतायां वैकल्पिकमार्गान् स्वीकर्तुं च परामर्शः प्रदत्तः।
पुलिसेन स्पष्टं कृतं यत् कार्यक्रमस्य अवधौ परिस्थित्यानुसारं यातायातव्यवस्थायां आवश्यकं परिवर्तनं कर्तुं शक्यते। नागरिकेभ्यः अवरोधकव्यवस्थायाः मार्गपरिवर्तनस्य च निर्देशानां पालनं कृत्वा सुव्यवस्थितयातायातव्यवस्थायाः निर्वहणे सहकारितां कर्तुम् आह्वानं कृतम्।
---------------
Hindusthan Samachar / Dheeraj Maithani