मुख्यमन्त्री हिमन्तः ‘सत्रसारथीपुरस्कारेण’ सम्मानितः
जोरहाटम् (असमः), 16 सितंबरमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा ‘सत्रसारथीपुरस्कारेण’ सम्मानितः। अखिल-असम-सत्र-महासभया तथा अखिल-असम-नामघर-महासभया मुख्यमन्त्रिणे अयं सम्मानः प्रदत्तः। मुख्यमन्त्री जोरहाट्-सम्मेलनकेन्द्रे विभिन्नेष
Image of the Assam CM Himanta Biswa Sarma Receiving the‘Satra Sarathi Award’ in Jorhat.


जोरहाटम् (असमः), 16 सितंबरमासः (हि.स.)।

असमस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा ‘सत्रसारथीपुरस्कारेण’ सम्मानितः। अखिल-असम-सत्र-महासभया तथा अखिल-असम-नामघर-महासभया मुख्यमन्त्रिणे अयं सम्मानः प्रदत्तः।

मुख्यमन्त्री जोरहाट्-सम्मेलनकेन्द्रे विभिन्नेषु कार्यक्रमेषु सहभागं कृत्वा समाजजीवनस्य विभिन्नेषु क्षेत्रेषु सम्बद्धैः जनैः सह संवादं कृतवान्। अस्मिन् अवसरे सः जनानां समस्याः, अपेक्षाः सुझावांश्च अशृणोत्।

मुख्यमन्त्री अद्य सामाजिकमाध्यमे प्रकाशिते सन्देशे अस्य संवादस्य विशेषावसरत्वं वर्णयन् उक्तवान् यत् एतादृशेभ्यः अवसराभ्यः समाजस्य विभिन्नवर्गीयैः जनैः सह संवादं कृत्वा तेषां समस्याः, अपेक्षाः परामर्शाश्च ज्ञातुम् अवसरः प्राप्यते।

सः उक्तवान् यत् समस्यासमाधानं तथा जनैः प्रदत्तानां सुझावानां स्वीकरणपूर्वकं तेषां हिताय निरन्तरं कार्यं करणं सर्वकारस्य दायित्वम् अस्ति। जनसामान्यस्य हिताय एतादृश्यैव भावनया अग्रेऽपि निरन्तरं कार्यं करिष्यतीति सः उक्तवान्।

-----------

Hindusthan Samachar / Dheeraj Maithani