प्रधानमन्त्रिणः मोदिनः जन्मदिने देहलीसर्वकारः चतुरः प्रमुखकार्यक्रमान् आयोजयिष्यति, कर्तव्यपथे सव्वालक्षम् आशीर्वाददीपानां प्रज्वलनम्
नव दिल्ली, 16 सितंबरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिवसस्य अवसरे देहलीसर्वकारः सेवायाः, समर्पणस्य, जनसहभागितायाश्च भावनया गुरुवासरे चत्वारः प्रमुखकार्यक्रमान् आयोजयिष्यति। एतेषु कर्तव्यपथे सव्वालक्षदीपानां प्रज्वलनम्, त्यागराजक्
मुख्यमंत्री रेखा गुप्ता  प्रदेश भाजपा कार्यालय में आयोजित पत्रकार वार्ता को संबोधित करते हुए


नव दिल्ली, 16 सितंबरमासः (हि.स.)।

प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिवसस्य अवसरे देहलीसर्वकारः सेवायाः, समर्पणस्य, जनसहभागितायाश्च भावनया गुरुवासरे चत्वारः प्रमुखकार्यक्रमान् आयोजयिष्यति। एतेषु कर्तव्यपथे सव्वालक्षदीपानां प्रज्वलनम्, त्यागराजक्रीडाङ्गणे बृहद्रक्तदानशिबिरम्, खाटूश्यामदेहलीधामे अष्टाधिकशतकुण्डीययज्ञः तथा श्रमिकेभ्यः ‘नमो श्रमिकसेवाकेन्द्रस्य’ शुभारम्भः अन्तर्भवन्ति।

मुख्यमन्त्रिणी रेखागुप्ता बुधवासरे विज्ञप्तिं प्रसार्य अवदत् यत् प्रधानमन्त्रिणः मोदीवर्यस्य सार्वजनिकजीवनस्य पञ्चविंशतिवर्षाणि पूर्णतायाः अवसरे देहलीसर्वकारः एकमासपर्यन्तं सेवासङ्कल्पाभियानं चालयिष्यति। अस्मिन् अवधौ परिवहनस्य, मार्गाणां, मलजलव्यवस्थायाः, जलशोधनस्य, शिक्षायाः, विद्युतः, सार्वजनिकसुविधानां तथा नगरीयसौन्दर्यीकरणस्य च सम्बद्धानां विविधपरियोजनानाम् उद्घाटनं शिलान्यासं च करिष्यते।

सा अवदत् यत् प्रधानमन्त्रिणः मोदिनः जन्मदिवसस्य अवसरे ‘आशीर्वादस्य दीपः’ इत्यभियानस्य अन्तर्गतं विशेषदीपप्रज्वलनकार्यक्रमः आयोजयिष्यते। गुरुवासरे सायं सप्तवादने कर्तव्यपथे सर्वकारीययोजनानां लाभार्थिभिः अन्यैश्च एकलक्षदीपाः प्रज्वालयिष्यन्ते। सा देहलीवासिभ्यः गुरुवासरस्य सायं षड्वादनतः सप्तवादनपर्यन्तं स्वेषु गृहेषु प्राङ्गणे च प्रधानमन्त्रिणः कृते ‘आशीर्वादस्य दीपं’ प्रज्वालयितुं आह्वानं कृतवती।

मुख्यमन्त्रिणी अवदत् यत् सेवासङ्कल्पाभियानस्य अन्तर्गतं गुरुवासरे प्रातः एकादशवादनतः सायं पञ्चवादनपर्यन्तं त्यागराजक्रीडाङ्गणे बृहद्रक्तदानशिबिरम् आयोजयिष्यते, यस्मिन् द्विसहस्रपञ्चशतं रक्तैककानां सङ्ग्रहस्य लक्ष्यं निर्धारितम् अस्ति। शिबिरे देहलीसर्वकारस्य एकादश चिकित्सालयानां रक्तपेढ्यः, सैन्यचिकित्सालयः, लेडी हार्डिङ्गमहाविद्यालयः, सफदरजङ्गचिकित्सालयः तथा भारतीयरेडक्रॉससोसायटी इत्येतेषां सहभागिता भविष्यति। स्वास्थ्यविभागः, देहलीपुलिसः, गृहसुरक्षाबलः नागरिकरक्षाबलं च, देहलीपरिवहननिगमः, राजस्वविभागः, देहलीनगरनिगमः, नवदेहलीनगरपरिषद्, देहली अग्निशमनसेवा, शिक्षाविभागः, रेडक्रॉस, अशासकीयसङ्गठनानि, निवासीकल्याणसङ्घाः तथा निगमक्षेत्रसम्बद्धाः जनाः अपि रक्तदानं करिष्यन्ति।

मुख्यमन्त्रिणी अवदत् यत् अलीपुरस्य जीटी कर्णालमार्गस्थिते खाटूश्यामदेहलीधामे प्रधानमन्त्रिणः मोदिनः जन्मदिवसस्य अवसरे अष्टाधिकशतकुण्डीययज्ञः आयोजयिष्यते। अस्मिन् अवसरे दृष्टिबाधितबालकैः सस्वरं हनुमानचालीसापाठः अपि क्रियते।

सा अवदत् यत् देहलीसर्वकारः श्रमिकेभ्यः ‘नमो श्रमिकसेवाकेन्द्रस्य’ शुभारम्भं करिष्यति। एतेषु केन्द्रेषु श्रमिकेभ्यः पञ्जीकरणे नवीनीकरणे च सहायता, दस्तावेजानां सत्यापनम्, आवेदनस्य स्थितेः सूचना, विभिन्नकल्याणकारीयोजनानां सूचना तथा दावानां अन्यसेवानां च कृते मार्गदर्शनम् एकस्मिन् स्थाने एव प्राप्स्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani