मुख्यमन्त्रिणा डॉ मोहनयादवेन अद्य इन्दौरे इन्फोसिसस्य नूतनस्य सॉफ्टवेयर विकासखण्डस्य शुभारम्भः
भोपालम्, 16 सितंबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ मोहनयादवः अद्य बुधवासरे इन्दौरस्य सुपर कॉरिडोरस्थिते इन्फोसिसपरिसरे नूतनस्य सॉफ्टवेयर विकासखण्डस्य द्वितीयखण्डस्य अर्थात् एसडीबी द्वितीयस्य शुभारम्भं करिष्यति। त्रिलक्षत्रिंशत्सहस्रवर्
सीएम डॉ. यादव


भोपालम्, 16 सितंबरमासः (हि.स.)।

मध्यप्रदेशस्य मुख्यमन्त्री डॉ मोहनयादवः अद्य बुधवासरे इन्दौरस्य सुपर कॉरिडोरस्थिते इन्फोसिसपरिसरे नूतनस्य सॉफ्टवेयर विकासखण्डस्य द्वितीयखण्डस्य अर्थात् एसडीबी द्वितीयस्य शुभारम्भं करिष्यति। त्रिलक्षत्रिंशत्सहस्रवर्गफलकपरिमाणे विकसितः अयं खण्डः प्रदेशे उन्नतप्राविधिकक्षमतानां तथा रोजगारोपयोगिनः प्रतिभापारिस्थितिकीतन्त्रस्य च सुदृढीकरणं करिष्यति।

जनसम्पर्काधिकारिणी जूहीश्रीवास्तवेन उक्तं यत् इन्फोसिस् मध्यप्रदेशस्य वर्धमानस्य प्रतिभासमूहस्य लाभं प्राप्स्यते तथा प्रदेशस्य शैक्षणिकप्राविधिकपारिस्थितिकीतन्त्रेण सह स्वकीयसम्बन्धमपि सुदृढं करिष्यति। अस्य अन्तर्गतं कौशलविकासकार्यक्रमैः संस्थागतसाझेदारीभिश्च भारतीयप्रौद्योगिकीसंस्थानम् इन्दौर, भारतीयप्रबन्धनसंस्थानम् इन्दौर तथा देवी अहिल्या विश्वविद्यालयेन सह सहभागिता विस्तारितां करिष्यते।

तया उक्तं यत् इन्दौरे इन्फोसिस् संस्थायां सम्प्रति त्रयः सहस्राणि त्रिशताधिकाः कर्मचारी कार्यरताः सन्ति। ते बैंकिङ्ग्, वित्तीयसेवा, बीमा, स्वास्थ्यसेवा, विक्रय, औषधि एवं जीवनविज्ञान तथा विनिर्माणादिषु क्षेत्रेषु वैश्विकग्राहकेभ्यः सेवाः प्रददति। विस्तारितकेन्द्रे मेघसङ्गणनायाः, अनुप्रयोगविकासस्य, कृत्रिमबुद्धिमत्तायाः, यन्त्राधिगमस्य तथा साइबरसुरक्षायाः क्षेत्रेषु संस्थायाः क्षमतानां विस्तारः भविष्यति। अनेन प्रदेशे उन्नतप्राविधिकसेवानां तथा कौशलविकासस्य अवसरानां गतिः वर्धिष्यते।

जनसम्पर्काधिकारिणी उक्तवती यत् इन्दौरे इन्फोसिस् संस्थायाः नूतनं भवनं पर्यावरणानुकूलं ऊर्जादक्षं च निर्मितम् अस्ति तथा हरितभवनमानकानुरूपं विकसितम् अस्ति। अस्मिन् न्यूनऊर्जोपयोगी शीतलीकरणव्यवस्था, स्मार्टभवनस्वचालीकरणम्, वर्षाजलसञ्चयनम् तथा अपशिष्टजलपुनर्चक्रणम् इत्यादीनि सुविधानि सन्ति। तदतिरिक्तं प्रशिक्षणस्य स्वास्थ्यकल्याणस्य च सुविधाः अपि अस्मिन् भवने उपलब्धाः भविष्यन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani