Enter your Email Address to subscribe to our newsletters

रायपुरम्, 16 सितम्बरमासः (हि.स.)।
मुख्यमन्त्री विष्णुदेवसायः अद्य बुधवासरे रायपुरनगरे आयोजिते सेवासङ्कल्पयुवासम्मानकार्यक्रमे सहभागं करिष्यति। निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री रात्रौ नववादने सुन्दरनगरस्थिते सोनकरबाबादीक्षितस्थले आयोजिते सेवासङ्कल्पयुवासम्मानकार्यक्रमे सहभागं करिष्यति। मुख्यमन्त्रिणः कार्यक्रमः रात्रौ दशवादनपर्यन्तं निर्धारितः अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani