Enter your Email Address to subscribe to our newsletters

नव दिल्ली, १६ सितम्बरमासः (हि.स.)। दिल्ल्याः मुख्यमन्त्री रेखागुप्ता बुधवासरे ‘वेदान्तादिल्ल्यर्धमैराथनस्य’ एकविंशतितमसंस्करणस्य पदकानाम् अनावरणं कृतवती। देहलीसचिवालये आयोजिते कार्यक्रमे मुख्यमन्त्री उक्तवती यत् देहली नगरी सदैव स्वास्थ्यसम्बद्धां जनसहभागितायाः च भावनां हर्षेण स्वीकृतवती अस्ति। अस्मिन् वर्षे अपि बहुसंख्याकाः जनाः अस्याः अर्धमैराथनस्य भागिनः भवन्तु तथा स्वस्थदेहल्याः सङ्कल्पं गतिं प्रददतु।
अस्मिन् अवसरे देहल्याः पर्यटनमन्त्री कपिलमिश्रः तथा वेदान्तासमूहस्य वरिष्ठाः सदस्याः उपस्थिताः आसन्।
कपिलमिश्रेण एक्स् इत्यत्र प्रकाशिते सन्देशे उक्तं यत् एषा मैराथन केवलं स्वास्थ्यस्य विजयस्य च दौडः नास्ति, अपितु ‘रन् फॉर जीरो हङ्गर’ इत्यस्य माध्यमेन निर्दोषबालकान् कुपोषणात् रक्षितुं तेभ्यः पौष्टिकाहारं प्रदातुं च पवित्रः सङ्कल्पः अस्ति।
सः उक्तवान् यत् देहलीसर्वकारस्य देहलीपर्यटनविभागस्य च सहभागितया आयोज्यमाने अस्मिन् मैराथनकार्यक्रमे देशस्य विदेशस्य च विभिन्नभागेभ्यः जनाः सहभागं कुर्वन्ति।
उल्लेखनीयं यत् ‘वेदान्तादिल्ल्यर्धमैराथन’ अष्टादशे अक्टोबर् दिने आयोजिता भविष्यति। एषा मैराथन जवाहरलालनेहरूस्टेडियम् इत्यस्मात् प्रारभ्य तत्रैव समाप्ता भविष्यति। अष्टादशे अक्टोबर् दिने सर्वेषां पञ्जीकृतधावकानां कृते देहलीमेट्रोयाने यात्राम् अपि निःशुल्कं भविष्यति। तस्मिन् दिने मेट्रोयानसेवा प्रातः ३.१५ वादनादेव प्रारप्स्यते।
--------------
Hindusthan Samachar / Dheeraj Maithani