Enter your Email Address to subscribe to our newsletters


गोरखपुरम्, १६ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे गोरखपुरे प्रवाससमये भारतीयजनता-पक्षस्य युवा-नेतुः राणा राहुलसिंहस्य मोहद्दीपुरस्थितम् आवासं गत्वा तस्य दिवङ्गतां मातरं सुधासिंहां भावपूर्णां श्रद्धाञ्जलिम् अर्पितवान्। सुधासिंह इत्यस्याः निधनं ३ सेप्टेम्बर-दिने अभवत्।
मुख्यमन्त्रिणा स्मृतिशेषायाः सुधासिंह इत्यस्याः चित्रे पुष्पाणि अर्पयित्वा भावपूर्णा श्रद्धाञ्जलिः प्रदत्ता। गहनां संवेदनां प्रकटयन् मुख्यमन्त्री योगी आदित्यनाथः दिवङ्गतायाः आत्मनः चिरशान्त्यै महायोगिनः गुरुगोरखनाथस्य समीपे प्रार्थनां कृतवान्। मुख्यमन्त्री राणा राहुलसिंहेन अन्यैः परिजनैः च सह आत्मीयतया वार्तालापं कृत्वा तेभ्यः सान्त्वनां प्रदत्तवान्।
Hindusthan Samachar / Divya Ranjan