सेनाध्यक्षः जनरलधीरजसेठः रूसदेशस्य प्रवासे, व्यावसायिकसैन्यसहयोगविषये करिष्यति वार्ताम्
– उभयोः देशयोः दीर्घकालिकरक्षा-सम्बन्धाः अधिकं सुदृढाः भविष्यन्ति इति अपेक्षा नवदिल्ली, १६ सेप्टेम्बरमासः (हि.स.)। सेनाध्यक्षः जनरल धीरजसेठः बुधवासरे रूसदेशस्य आधिकारिकप्रवासाय प्रस्थित-वान्। अस्य प्रवासस्य उद्देश्यम् उभयोः देशयोः मध्ये दीर्घकालात
सेनाध्यक्ष जनरल धीरज सेठ (फाइल फोटो)


– उभयोः देशयोः दीर्घकालिकरक्षा-सम्बन्धाः अधिकं सुदृढाः भविष्यन्ति इति अपेक्षा

नवदिल्ली, १६ सेप्टेम्बरमासः (हि.स.)। सेनाध्यक्षः जनरल धीरजसेठः बुधवासरे रूसदेशस्य आधिकारिकप्रवासाय प्रस्थित-वान्। अस्य प्रवासस्य उद्देश्यम् उभयोः देशयोः मध्ये दीर्घकालात् प्रचलितां रक्षासहभागितां सैन्यसहयोगं च अधिकं सुदृढं कर्तुम् अस्ति। अस्मिन् प्रवासावधौ सः रूसदेशस्य स्थलसेनायाः सेनाप्रमुखेन कर्नल जनरल आन्द्रेई निकोलायेविच् मोर्डविचेवेन सह व्यावसायिकसैन्य-सहयोगेन प्रशिक्षणेन च सह परस्परहितसम्बद्धेषु विषयेषु चर्चां करिष्यति।

सेनाध्यक्षः १८ सेप्टेम्बरपर्यन्तं स्वप्रवासे मास्कोनगरे ‘अज्ञातसैनिकस्य समाधौ’ बलिदानीसैनिकेभ्यः श्रद्धाञ्जलिं समर्पयिष्यति। तत्र तस्मै समारोहात्मक-सम्मानरक्षकदलद्वारा सम्मानं प्रदास्यते। सेनाध्यक्षः मास्कोनगरे राष्ट्रिय-रक्षानियन्त्रणकेन्द्रस्य भ्रमणं करिष्यति तथा च रूसस्य रक्षामन्त्रालयस्य वरिष्ठा-धिकारिभिः सह वार्तां करिष्यति। तेषु रक्षोद्योगस्य क्रयणसम्बद्धस्य उपरक्षा-मन्त्रिणः वासिली सर्गेयेविच् ओस्मा-कोवस्य अपि समावेशः अस्ति। एतै: साक्षात्कारै: समकालीनसैन्यविकासविषये तथा रक्षासहयोगस्य विस्तारोपायेषु परस्परं विचारविनिमयस्य अवसरः प्राप्स्यते।

अस्मिन् प्रवासावधौ जनरलधीरजसेठः सेंटपीटर्सबर्गनगरम् अपि गमिष्यति, यत्र सः मिखाइलोव्स्काया-सैन्य-तोपखाना-अकादम्याः नेतृत्वेन अध्यापकवर्गेन च सह वार्तां करिष्यति। तस्य अयं दौरा दर्शयति यत् उभौ देशौ निरन्तरं सैन्यकूटनीतेः सेनयोः परस्परसंपर्कस्य च महत्त्वं स्वीकुरुतः। अस्य संवादस्य माध्यमेन सैन्यसहयोगः सुदृढः भविष्यति तथा भारत-रूसदेशयोः दीर्घकालिकाः रक्षासम्बन्धाः अपि अधिकं सुदृढाः भविष्यन्ति इति अपेक्षा अस्ति।

Hindusthan Samachar / Divya Ranjan