Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १६ सेप्टेम्बरमासः (हि.स.)। काङ्ग्रेसस्य राष्ट्रियाध्यक्षः मल्लिकार्जुन-खरगे अमेरिकीशुल्कस्य व्यापारनीतेश्च विषये केन्द्रसर्वकारस्य निन्दां कृतवान्। तेन आरोपितं यत् सर्वकारः अमेरिकी-प्रभावस्य पुरतः नतिं स्वीकुर्वन् अस्ति, यस्य परिणामं देशस्य १४० कोटिनागरिकाः, कृषकाः उद्योगाश्च सोढुं बाध्याः भवन्ति।
खरगे बुधवासरे ‘एक्स’-सन्देशे उक्तवान् यत् भारतीयवस्तुषु अमेरिकया १०० प्रतिशतपर्यन्तं शुल्कम् आरोपयितुं कृतः नवीनः चेतावनी-सङ्केतः सर्वकारस्य विदेशव्यापारनीतीनां विफलतां दर्शयति। पूर्वं २५ प्रतिशतं, ततः ५० प्रतिशतं, अधुना च १०० प्रतिशतशुल्कस्य भयम् उत्पन्नम् अस्ति। अनेन देशस्य औषधोद्योगाय, वस्त्रोद्योगाय, अभियान्त्रिकवस्तूनाम् उद्योगाय, रसायनक्षेत्राय, वाहनघटकानाम् उद्योगाय, रत्नाभूषणक्षेत्राय, इलेक्ट्रॉनिक्स्-क्षेत्राय तथा प्रौद्योगिकीक्षेत्राय च महत् आघातं भवितुं शक्नोति।
काङ्ग्रेसाध्यक्षः आरोपितवान् यत् एकस्मिन् पक्षे भारतीयवस्तुषु महत् आयातशुल्कस्य भयम् अस्ति, अपरस्मिन् पक्षे मोदी-सर्वकारेण तादृशे व्यापारिकढाञ्चे सहमतिः प्रदत्ता अस्ति, येन भारतीयकृषिक्षेत्रे अमेरिकीउत्पादानां प्रवेशः सुकरः भविष्यति। खर्गेः एतत् देशस्य कृषकाणां हितानि पणीकृत्य कृतं पदक्षेपम् इति उक्तवान्। तेन उक्तं यत् अस्य व्यापारिकसन्धे: अन्तर्गतं भारतं अग्रिमेषु पञ्चसु वर्षेषु ५०० अरब-अमेरिकी-डॉलर-मूल्यानाम् अमेरिकीवस्तूनाम् क्रयणाय बाध्यते।
खर्गेः यूपीआई-विषये मर्चेण्ट्-डिस्काउण्ट्-रेट इत्यस्य विषयमपि उल्लिख्य तम् सर्वकारस्य दुर्बलतायाः नवीनम् उदाहरणम् इति उक्तवान्। तेन उक्तं यत् शुल्कात् व्यापारपर्यन्तं, एच-१बी-वीजायाः डिजिटल्-भुगतानपर्यन्तं च विविधेषु विषयेषु वाशिङ्गटनस्य प्रभावः निरन्तरं वर्धते।
Hindusthan Samachar / Divya Ranjan