Enter your Email Address to subscribe to our newsletters

स्वतन्त्रभारतस्य प्रारम्भिकेषु वर्षेषु देशीयानां वंशानां भारतीयसङ्घे विलयनम् एकतमं महत्त्वपूर्णं समस्यापूर्णं च कार्यम् आसीत्। अधिकांशवंशानां भारतस्य सम्मिलितानन्तरमपि हैदराबादेन सह कतिपयवंशानां भविष्यं निश्चितं न अभवत्। हैदराबादस्य तत्कालीनः निजामः मीर उस्मान अली खानः स्वतन्त्रः स्थातुं प्रयत्नं कुर्वन् आसीत्। पाकिस्तानेन सह सम्बन्धानाम् अपि सम्भावनानां विषये चर्चा प्रचलिता आसीत्।
हैदराबादः भौगोलिकदृष्ट्या भारतस्य मध्यभागे स्थितः आसीत्। अतः तस्य स्वतन्त्रस्थितिः भारतीयैकतायै प्रशासनाय च गम्भीरा समस्या मन्यते स्म। तत्कालीनः उपप्रधानमन्त्री गृहमन्त्री च सरदार-वल्लभभाईपटेलः वंशस्य भारतसङ्घे विलयनम् आवश्यकं मन्यते स्म। वार्तायाः अनेकचक्राणाम् अनन्तरमपि समाधानं न प्राप्ते सति भारतसर्वकारेण १९४८ तमस्य वर्षस्य सेप्टेम्बरमासे सैन्यकार्यवाही प्रारब्धा। आधिकारिकरूपेण एषा ‘पुलिस-कार्रवाई’ इति कथिता, अस्याः सैन्यनाम ‘ऑपरेशन पोलो’ इति आसीत्। अभियानं १३ सेप्टेम्बरदिने प्रारब्धम्। भारतीयसेना शीघ्रं हैदराबादस्य दिशि अग्रे गच्छन्ती निजामस्य सैन्यबलानाम् उपरि प्रभावम् अकरोत्।
निरन्तरस्य सैन्यदप्रभावस्य मध्ये १७ सेप्टेम्बरमासे १९४८ तमे वर्षे निजामः भारतीयसेनायाः समक्षं आत्मसमर्पणम् अङ्गीकृतवान्। तेन हैदराबादस्य भारतसङ्घे विलयस्य मार्गः प्रशस्तः अभवत्। एतेन सह हैदराबादस्य भारतीयसङ्घे औपचारिकम् एकीकरणम् अभवत्।
महत्त्वपूर्णाः घटनाक्रमाः
१५९८ — नीदरलैण्डदेशस्य नाविकेन मॉरिशसद्वीपस्य अन्वेषणं कृतम्।१६३० — अमेरिकादेशस्य बॉस्टननगरस्य स्थापना अभवत्।१७६१ — कोसाब्रोमायाः युद्धम् अभवत्।१९४८ — हैदराबादरियासतस्य भारतसङ्घे विलयम् अभवत्।१९४९ — दक्षिणभारतीयस्य राजनैतिकदलस्य द्रविड़मुन्नेत्रकड़गम इत्यस्य स्थापना अभवत्।१९७४ — बाङ्ग्लादेशः, ग्रेनाडादेशः, गिनी-बिसाऊदेशश्च संयुक्तराष्ट्रसङ्घे सम्मिलिताः।१९८२ — भारत-सिलोनदेशयोः (श्रीलङ्कायाः) मध्ये प्रथमः क्रिकेट-परीक्षासामना अयोजितः।१९९५ — चीनदेशस्य राजधानी बीजिङ्गनगरे ब्रिटिशशासनस्य अन्तर्गतं अन्तिमनिर्वाचनं सम्पन्नम्।१९५६ — भारतीयतेल-प्राकृतिकवायुआयोगस्य गठनम् अभवत्।१९५७ — मलेशियादेशः संयुक्तराष्ट्रसङ्घे सम्मिलितः।१९९९ — ओसामा बिन लादेने भारतस्य विरुद्धं जिहादस्य घोषणां कृतवान्।२००० — जाफना-द्वीपकल्पस्य चवाकछेड़ी-नगरं लिट्टे-सङ्घटनात् मुक्तम् अभवत्।२००१ — कश्मीरविषये पाकिस्तानदेशेन सह काचिदपि सौदेबाजी नास्ति इति अमेरिकादेशेन स्पष्टं कृतम्।२००२ — इराकदेशेन संयुक्तराष्ट्रसङ्घस्य शस्त्रनिरीक्षकाणां देशे विना शर्तं प्रवेशस्य अनुमतिः प्रदत्ता।२००४ — यूरोपीय-संसदया मालदीवदेशस्य विरुद्धं प्रतिबन्धं स्थापयितुं प्रस्तावः पारितः।२००६ — हवाना-नगरे गुटनिरपेक्षान्दोलनस्य शिखरसम्मेलनम् आरब्धम्।२००६ — भारतीयवायुसेनायाः विशेषबलस्य ‘गरुड-कमाण्डो’ इति दलं काङ्गोदेशस्य शान्तिमिशनाय प्रस्थितम्।२००६ — गुटनिरपेक्षदेशानां द्विदिवसीयं शिखरसम्मेलनं हवाना-नगरे सम्पन्नम्।२००६ — भारतस्य प्रधानमन्त्री डॉ. मनमोहनसिंहः क्यूबादेशस्य अस्वस्थेन राष्ट्रपतिना फिदेलकास्त्रो-महोदयेन सह मिलितवान्।२००६ — कन्धार-विमानापहरणे अलकायदासङ्घटनस्य संलिप्तता पुष्टीकृता।२००६ — विश्वकप-हॉकी-क्रीडायां भारतं एकादशं स्थानं प्राप्तवान्।२००८ — नौवहनराज्यमन्त्री के. एच. मुनियप्पा विश्वकर्माराष्ट्रियपुरस्कारं राष्ट्रियसुरक्षापुरस्कारं च २००६ तमस्य वर्षस्य प्रदत्तवान्।२००९ — केन्द्रीयसतर्कतायोगेन १२३ भ्रष्टाचाराभियुक्तानां सर्वकारीयाधिकारिणां नामानि स्वकीयजालपुटे प्रकाशितानि।२०११ — न्यूयॉर्कनगरस्य जुकोट्टी-उद्याने वॉल-स्ट्रीट-घेरावान्दोलनस्य प्रारम्भः अभवत्।२०१७ — पी. वी. सिन्धुः कोरिया-ओपन-सुपर-सीरीज-क्रीडां विजित्य एतद् प्राप्तवती प्रथमभारतीयक्रीडिका अभवत्।२०२० — लोकसभया कृष्युत्पादव्यापार-वाणिज्य (संवर्धन-सुविधा) विधेयक-२०२० तथा कृषक (सशक्तीकरण-संरक्षण) मूल्याश्वासन्धि-कृषिसेवा-विधेयक-२०२० इत्येतयोः अनुमोदनं कृतम्।
जन्म
१८६४ — अनागारिकधर्मपालः — बौद्धभिक्षुः।१८६७ — गगनेन्द्रनाथटैगोरः — प्रसिद्धः भारतीयः व्यङ्ग्यचित्रकारः।१८७२ — वामनराव बलिराम लाखे — भारतस्य स्वातन्त्र्यसङ्घर्षे योगदानं कृतवतः छत्तीसगढस्य प्रमुखः स्वातन्त्र्यसेनानी।१८७९ — ई. वी. रामास्वामी नायकरः — तमिलभारतीयः स्वातन्त्र्यसेनानी, राजनेता समाजसेवी च।१८७९ — पेरियार ई. वी. रामासामी — भारतीयः समाजसुधारकः।१९०३ — आई. के. कुमारन् — माहीक्षेत्रात् फ्रांसीयशासनस्य निष्कासने प्रमुखभूमिकां निर्वहन् व्यक्तिः।१९१५ — मकबूल फिदा हुसैनः — प्रसिद्धः भारतीयः चित्रकारः।१९२९ — अनन्तपैः — भारतीयः शिक्षाशास्त्री, ‘अमरचित्रकथा’-संस्थापकश्च।१९३० — लालगुडी जयरामन् — भारतस्य प्रसिद्धः वायलिनवादकः।१९३७ — सीताकान्तमहापात्रः — ओडियाभाषायाः प्रसिद्धः साहित्यकारः।१९४१ — सी. जी. कृष्णदासनायरः — शिक्षकः धातुकर्मवैज्ञानिकश्च।१९४५ — भक्तिचारुस्वामी — भारतीयः आध्यात्मिकनेता।१९४५ — जोगिन्दर जसवन्तसिंहः — भारतीयस्थलसेनायाः २२ तमः सेनाध्यक्षः।१९५० — नरेन्द्रमोदी — भारतीयः राजनीतिज्ञः।
महत्त्वपूर्णः अवसरः
राष्ट्रीयहिन्दीदिवसः (सप्ताहः)।
Hindusthan Samachar / Divya Ranjan