प्रधानमन्त्री नरेन्द्रमोदी १७ सेप्टेम्बर-दिनाङ्के नवदिल्ली इत्यत्र ‘सेमीकॉन इण्डिया २०२६’ इत्यस्य उद्घाटनं करिष्यति
५२ देशानां प्रतिनिधिभिः सह ६०० अधिकाः निर्माण्य: सहभागं करिष्यन्ति नवदिल्ली, १६ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे नवदिल्ली इत्यत्य स्थिते यशोभूमि-स्थले प्रातः प्रायः १० वादने त्रिदिवसीयस्य अन्ताराष्ट्रियसम्मेलनस्य प्रदर्
पंतप्रधान नरेंद्र मोदी


५२ देशानां प्रतिनिधिभिः सह ६०० अधिकाः निर्माण्य: सहभागं करिष्यन्ति

नवदिल्ली, १६ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे नवदिल्ली इत्यत्य स्थिते यशोभूमि-स्थले प्रातः प्रायः १० वादने त्रिदिवसीयस्य अन्ताराष्ट्रियसम्मेलनस्य प्रदर्शिन्याश्च ‘सेमीकॉन इण्डिया २०२६’ इत्यस्य उद्घाटनं करिष्यति। अस्मिन् अवसरे प्रधानमन्त्री उपस्थितजनसमूहम् अपि सम्बोधयिष्यति। १७ तः १९ सेप्टेम्बरपर्यन्तम् आयोज्यमानस्य सम्मेलनस्य विषयः ‘सिलिकॉन तः सिस्टम्स-पर्यन्तम् : पारिस्थितिकीतन्त्रस्य निर्माणम्’ इति अस्ति।

प्रधानमन्त्रिकार्यालयानुसारं सम्मेलने सेमीकण्डक्टर-इलेक्ट्रॉनिक्स-मूल्यशृङ्खलया सम्बद्धाः वैश्विकाः भारतीयाश्च उद्योगाः, नीतिनिर्मातारः, निवेशकाः, अनुसन्धानकर्तारः, नवोद्यमाः, शैक्षणिकसंस्थानानि विद्यार्थिनश्च एकस्मिन् सहभाग-मञ्चे समागमिष्यन्ति। अस्य आयोजनस्य उद्देश्यं भारतस्य सहयोगं, निवेशं, नवाचारं च प्रोत्साहयितुं तथा सेमीकण्डक्टर-क्षेत्राय कुशलकार्य-बलस्य विकासं त्वरितं कर्तुम् अस्ति।

सम्मेलने सेमीकण्डक्टरक्षेत्रस्य साथमेव प्रदर्शन-उद्योगे तकनीकीप्रगतिविषये समानान्तरसत्राणि आयोजयिष्यन्ते। रणनीतिकसहभागसंयुक्तोपक्रमाणां च प्रोत्साहनाय षड्देशानां गोलमेजसभाः भविष्यन्ति। तदतिरिक्तं महिलानेतृत्व-केन्द्रितं विशेषसत्रमपि आयोजयिष्यते।

‘सेमीकॉन इण्डिया २०२६’ इत्यस्मिन् सेमीकण्डक्टर्-मूल्यशृङ्खलायाः सर्वे प्रमुखाः चरणाः एकीकृतरूपेण प्रदर्शयिष्यन्ते। अस्मिन् सेमीकण्डक्टर-सामग्रीभ्यः उपकरणेभ्यश्च आरभ्य चिप-रचना, फैब्रिकेशन, उन्नत-पैकेजिङ्ग, इलेक्ट्रॉनिक्स तथा एकीकृतप्रणालीपर्यन्तं सम्पूर्णप्रक्रिया समाविष्टा भविष्यति। अस्य सम्पूर्णस्य क्रमस्य प्रदर्शनाय विशेषं ‘सैण्ड् टू सिलिकॉन टू सिस्टम्स’ मूल्यशृङ्खला-अनुभवकेन्द्रं सज्जीकृतम् अस्ति।

आयोजकानाम् अनुसारं सम्मेलने ५२ देशानां प्रतिनिधिभिः सह ६०० अधिकाः निर्मान्यः भागं ग्रहीष्यन्ति। आयोजनावधौ प्रायः ५० सहस्रम् आगन्तुकानां समा-गमनस्य सम्भावना अस्ति। तदतिरिक्तं ४०० अधिकाः शीर्षकार्यकारिणः तथा १५० अधिकाः वक्तारः विभिन्नेषु तकनीकी-रणनीतिकसत्रेषु स्वविचारान् प्रस्तोष्यन्ति।

प्रदर्शिन्यां जापानस्य, दक्षिणकोरिया-देशस्य, मलेशियादेशस्य, नीदरलैण्ड्देशस्य, सिङ्गापुरस्य तथा स्वीडेन-देशस्य विशेष-देशमण्डपाः निर्मिताः सन्ति। तदतिरिक्तं १२ राज्येषु स्थापितानि प्रदर्शनीकक्षाणि, नवोद्यम-मण्डपः, नवाचार-प्रदर्शनम्, छात्र-हैकाथॉन तथा कार्यबल-विकास-मण्डपश्च सम्मेलनस्य भागाः भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan