‘सेवया’ समाजस्य अन्तिमव्यक्तिपर्यन्तं प्रापणं सर्वकारस्य लक्ष्यं — योगेन्द्र उपाध्यायः
कानपुरम्, 16 सितंबरमासः (हि.स.)। सप्तदशदिनाङ्कात् प्रारभ्यमाणे एकमासात्मकसेवासङ्कल्पाभियाने अधिकाधिकाः सामान्यनागरिका: संयोजनीयाः तथा सामाजिकानां व्यापारिकानां धार्मिकानां च सङ्गठनानां सहभागिता सुनिश्चितकर्तव्या। इत्येतानि वचनानि जनपदस्य प्रभारीमन
बैठक के दौरान लिया गया छायाचित्र


कानपुरम्, 16 सितंबरमासः (हि.स.)।

सप्तदशदिनाङ्कात् प्रारभ्यमाणे एकमासात्मकसेवासङ्कल्पाभियाने अधिकाधिकाः सामान्यनागरिका: संयोजनीयाः तथा सामाजिकानां व्यापारिकानां धार्मिकानां च सङ्गठनानां सहभागिता सुनिश्चितकर्तव्या। इत्येतानि वचनानि जनपदस्य प्रभारीमन्त्रिणा उच्चशिक्षामन्त्रिणा च योगेन्द्र उपाध्यायेन बुधवासरे सरसैयाघाटस्थिते नवीनसभागारे अभियानस्य सज्जतायाः समीक्षायाः समये उक्तानि।

तेन कथितं यत् सप्तदशदिनाङ्के प्रधानमन्त्री नरेन्द्रमोदिनः जन्मदिने सेवादिवसस्य अन्तर्गतं विविधाः कार्यक्रमाः भविष्यन्ति। सायं सप्तवादने सम्पूर्णे जनपदे प्रायः त्रिलक्षम् ‘आशीर्वाददीपाः’ प्रज्वालयिष्यन्ते। मोतीझीले आयोज्यमाने मुख्यकार्यक्रमे षट्सप्ततिसहस्रं दीपाः प्रज्वालयिष्यन्ते। नगरीयेषु ग्रामीणक्षेत्रेषु च योजनानां लाभार्थिनः प्रमुखपरियोजनासु, नदीघट्टेषु, अमृतसरोवरेषु, मन्दिरेषु, उद्यानेषु, महाविद्यालयेषु चिकित्सालयेषु च दीपोत्सवे सम्मिलिताः भविष्यन्ति।

प्रभारीमन्त्रिणा कथितं यत् नेहरूनगरस्थिते कानपुरदृष्टिबाधितविद्यालये दिव्याङ्गजनेभ्यः उपकरणानि वितरिष्यन्ते। उर्सलाचिकित्सालये रक्तदानशिबिरम् आयोजयिष्यते, यदा प्रधानमन्त्रीविश्वकर्मायोजनायाः लाभार्थिभ्यः उपकरणसञ्चिकाः प्रदास्यन्ते।

सप्तदशदिनाङ्कात् सप्तदशअक्टोबरदिनाङ्कपर्यन्तं ‘मम स्वप्नानां भारतम्’ इति चित्रसेवा, ‘नमोसेवा’, ‘अनुक्तकथाः’, पथनाट्यम्, ‘आङ्गणमिलनसेवा’, ‘सेवायाः कथा’, ‘सेवा मम योगदानम्’ तथा ‘सेवायाः वर्णाः राष्ट्रेण सह’ इत्यादयः अनेकाः कार्यक्रमाः भविष्यन्ति।

छत्रपतिशाहूजीमहाराजविश्वविद्यालये सामूहिकरङ्गवल्ली निर्मीयते। पञ्चविंशतितमे सितम्बरमासदिने जनपदस्य एकादशाधिकशतं ग्रामपञ्चायतेषु अङ्कीयग्रन्थालयानां लोकार्पणं भविष्यति। सप्तमे अक्टोबरमासदिने फूलबागचतुष्पथे ‘सेवाकलशयात्रा’ आयोजयिष्यते।

‘सेवासेतु’ इत्यस्य अन्तर्गतं प्रत्येकस्मिन् विकासखण्डे ‘सर्वकारः भवतां द्वारे’ इति शिविराणि आयोजयिष्यन्ते। एतेषु केन्द्रसर्वकारस्य राज्यसर्वकारस्य च योजनानां विषये संसूचना प्रदास्यते। तदतिरिक्तं तेषां पात्रजनानां चिह्नीकरणं क्रियते ये अद्यापि योजनानां लाभात् वञ्चिताः सन्ति। पात्रतानुसारं तेभ्यः योजनानां लाभं प्रदातुं कार्यवाही क्रियते।

‘सेवा मम योगदानम्’ इत्यस्य अन्तर्गतं प्रत्येकस्मिन् विधानसभाक्षेत्रे न्यूनातिन्यूनं द्वयोः स्थानेषु स्वच्छताभियानम्, नदीघट्टानां स्वच्छता, वृक्षारोपणम्, अङ्गदानसङ्कल्पः, व्यसनमुक्तिः, अङ्कीयसाक्षरता तथा मतदातृजागरूकताकार्यक्रमाः आयोजयिष्यन्ते।

प्रभारीमन्त्रिणा उक्तं यत् जनप्रतिनिधयः कार्यकर्तारश्च लाभार्थिभिः सामान्यनागरकैश्च संवादं कृत्वा योजनाभिः प्राप्तस्य लाभस्य विषये अपि संसूचनां प्राप्स्यन्ति। अभियाने सामाजिकमाध्यमानां माध्यमेन लाभार्थिनां अनुभवानां साझाकरणे अपि विशेषं बलं प्रदास्यते।

एकमासात्मकस्य अभियानस्य समापनं सप्तदशे अक्टोबरमासदिने ‘जनसेवकमहाकुम्भः — पञ्चायततः संसदः पर्यन्तम्’ इत्यादिभिः कार्यक्रमैः कर्तुं प्रस्तावितम् अस्ति। सभायां सांसदः रमेश अवस्थी, विधायकाः नीलिमा कटियार, महेश त्रिवेदी, राहुल बच्चा सोनकर, सुरेन्द्र मैथानी, सरोज कुरील, विधानपरिषदः सदस्यः सलिल विश्नोई इत्यादयः जनप्रतिनिधयः विभिन्नविभागानां च अधिकारिणः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani