Enter your Email Address to subscribe to our newsletters

केचन कलाकाराः तादृशाः भवन्ति, येषां यात्रा केवलं चलचित्रपर्दापर्यन्तं सीमिता न भवति। स्वकार्येण सह निरन्तरं किमपि नूतनं अन्विष्यन्ति तथा अस्यामेव यात्रायां स्वकीयां विशिष्टां परिचितिं निर्मान्ति। कुणालखेमूः अपि तादृशेषु कलाकारषु अन्यतमः अस्ति। बालकलाकाररूपेण चित्रग्राहकस्य पुरतः आगतः कुणालः अभिनेतृरूपेण स्वकीयां परिचितिं निर्मितवान् तथा अग्रे गत्वा लेखनस्य निर्देशनस्य च क्षेत्रे अपि पदक्षेपं कृतवान्। बाल्यकालादारब्धा तस्य एषा यात्रा अद्य कथाकथनस्य नूतनं सोपानं प्राप्तवती अस्ति।
‘सर्’, ‘हम हैं राही प्यार के’, ‘राजा हिन्दुस्तानी’, ‘जख्म’ तथा ‘कलयुग’ इत्यादिषु चलचित्रेषु दृष्टः कुणालः ‘मडगाँव एक्सप्रेस’ इति चलचित्रेण निर्देशनस्य प्रारम्भं कृतवान्। अधुना सः निर्माता, निर्देशकः अभिनेता च भूत्वा स्वस्य नूतनचलचित्रे ‘वाइब’ इत्यस्मिन् दर्शकानां मध्ये आगन्तुं सज्जः अस्ति। स्वकीयां चलचित्रयात्रां, लेखननिर्देशनस्य अनुभवं, पत्नी सोहाअलीखान् इत्यया सह सम्बन्धं च प्रति कुणालेन हिन्दुस्थानसमाचारस्य सह मुक्ततया वार्ता कृता।
प्रश्नः : अभिनेतुः निर्देशकः भवितुम् इति विचारः भवतः मनसि कदा आगतः तथा अस्य पृष्ठे महत्तमा प्रेरणा का आसीत्?
कुणालखेमूः : सत्यं वदामि चेत् अभिनयेन सह किमपि पृथक् कर्तुम् इच्छामि स्म। अहं कथालेखनं तस्मात् प्रारब्धवान्, यतः अभिनेतृरूपेण किञ्चित् पृथक्प्रकारकाः भूमिकाः कर्तुम् इच्छामि स्म। यदा ‘मडगाँव एक्सप्रेस’ इति चलचित्रस्य विचारः आगतः तदा अहं चिन्तितवान् यत् यादृश्यः भूमिकाः मह्यं न प्राप्यन्ते, तासां कृते स्वयमेव किमपि कुतः न क्रियते। तस्मिन् समये पटकथालेखनस्य औपचारिकपद्धतिः मह्यं न ज्ञाता आसीत्। मम मनसि चलचित्रं यादृशं प्रचलति स्म, तादृशमेव अहं तत् कागदे लिखितवान्। यदा कतिपयैः जनैः पटकथा पठिता तदा ते उक्तवन्तः यत् भवतः पुरतः सम्पूर्णं चलचित्रं दृश्यते, तर्हि भवान् एव अस्य निर्देशनं कुतः न करोति? प्रारम्भे मह्यं सङ्कोचः अभवत्, किन्तु अनन्तरं चिन्तितवान् यत् निर्देशनस्य शिक्षणाय अस्य अवसरस्य उपयोगः कुतः न क्रियते। एक्सेल एण्टरटेन्मेण्ट् इत्यनेन चलचित्रनिर्माणस्य दायित्वं स्वीकृतं तथा मया निर्देशनस्य प्रारम्भः कृतः। सत्यं वदामि चेत् अहं निर्देशनं चित्रकरणस्थले एव अधीतवान्। तथापि चलचित्रनिर्माणे मम रुचिः बाल्यकालादेव आसीत्। षड्वर्षीयवयसा आरभ्य अभिनयमकरवम्, अतः जनानां कार्यं कुर्वतः द्रष्टुं चलचित्रनिर्माणस्य प्रक्रियां च अवगन्तुं मम यात्रायाः भागः अभवत्। भट्टमहोदयेन सह कार्यं कुर्वन् अपि पटकथासभानां, गीतानां ध्वनिमुद्रणस्य चलचित्रनिर्माणस्य च अनेकानां प्रक्रियाणां समीपतः अवलोकनस्य अवसरः प्राप्तः। ‘मडगाँव एक्सप्रेस’ इति चलचित्रं निर्माय मह्यं बहु आनन्दः प्राप्तः तथा यदा दर्शकैः चलचित्रं पसन्दीकृतं तदा पुनः निर्देशनं कर्तुं मनसि इच्छा जाता।
प्रश्नः : ‘मडगाँव एक्सप्रेस’ इत्यस्य अनन्तरं निर्माता, निर्देशकः अभिनेता च इति रूपेण एषा भवतः प्रथमा फिल्म् अस्ति। त्रयाणां दायित्वानां एकस्मिन् समये निर्वहनं कियत् चुनौतीपूर्णम् अभवत्?
कुणालखेमूः : सत्यं वदामि चेत् मह्यं चलचित्रनिर्माणे समयः भवति। ‘मडगाँव एक्सप्रेस’ इत्यस्य अनन्तरमेव अहं अस्याः कथायाः विषये कार्यं प्रारब्धवान् तथा ततः चलचित्रनिर्माणे एव प्रवृत्तः। अस्मिन् काले बह्व्यः समस्याः समागताः, किन्तु ताः समस्याः मत्वा उपवेष्टुं मम समीपे समयः नासीत्। मम पुरतः केवलम् एकमेव लक्ष्यं आसीत् यत् केनापि प्रकारेण चलचित्रं पूर्णं करणीयम्। अतः प्रत्येकस्य समस्यायाः समाधानं कृत्वा अग्रे वर्धमानः अभवम्। अधुना पश्चाद् अवलोकयामि चेत् ताः समस्याः मह्यं बाधारूपेण न, अपितु चलचित्रनिर्माणप्रक्रियायाः भागरूपेण शिक्षारूपेण च दृश्यन्ते। चलचित्रं यादृशं निर्मितम् अस्ति, तेन अहं बहु प्रसन्नः अस्मि। अधुना आशा अस्ति यत् दर्शकाः अपि तत् पसन्दीकुर्वन्ति।
प्रश्नः : भवतः पितामहः साहित्यस्य क्षेत्रे सम्बद्धः आसीत् तथा पद्मश्रीसम्मानेन सम्मानितः आसीत्। किं तस्य साहित्यिकवातावरणस्य विरासतस्य च भवतः लेखने प्रभावः अभवत्?
कुणालखेमूः : अहं स्वयम् अत्यधिकं साहित्यिकं व्यक्तिं न मन्ये। सम्भवति यत् तस्य कश्चित् प्रभावः मम अन्तः कुत्रचित् भवेत्, किन्तु बाल्यकालादेव पुस्तकानां अपेक्षया चलचित्रेषु दृश्यसाधनेषु च मम अधिका रुचिः आसीत्। मम मातापितरौ अपि कदाचित् चिन्तयतः स्म यत् अहं निरन्तरं चलचित्राणि पश्यामि तथा अध्ययनं प्रति कदा ध्यानं दास्यामि। मम पितामहः साहित्यस्य क्षेत्रे एकं महत् नाम आसीत्, अतः साहित्यस्य विरासत् नूनं प्राप्ता अस्ति, किन्तु मम मार्गः किञ्चित् पृथक् आसीत्। चलचित्रेषु व्यावसायिकचलचित्रेषु च मम रुचिः अधिका आसीत्। मम मनसि विचाराः प्रायः आगच्छन्ति स्म, किन्तु तान् सम्यक् प्रकारेण कागदे लेखितुं मया पश्चादेव अधीतम्। अतः यदा मम लेखनाय दर्शकैः सह कार्यं कुर्वद्भिश्च जनैः सकारात्मकप्रतिस्पन्दनं प्राप्तं तदा मह्यं बहु प्रसन्नता अभवत्।
प्रश्नः : चलचित्रनिर्देशनस्य निर्मातुः दायित्वं च स्वीकृत्य कदापि सोहाअलीखान् स्वस्य चलचित्रे ग्रहीतुं विचारः आगतः?
कुणालखेमूः : न, सौभाग्येन कदापि न अभवत्। सोहा अपि अवगच्छति यत् अभिनेतृरूपेण प्रत्येकं भूमिका अस्माकं हस्ते न भवति। सा कदापि मां न उक्तवती यत् मम कृते काचित् भूमिका लिखत अथवा मां स्वस्य चलचित्रे कुतः न गृहीतवान्। अनेन मह्यं स्वकीयरीत्या कार्यं कर्तुं पूर्णस्वतन्त्रता प्राप्ता। यदा अहं कस्मिंश्चित् चलचित्रे व्यस्तः भवामि तदा पूर्णतया तस्मिन्नेव निमग्नो भवामि। तस्मिन् समये बहुवारं गृहे किं प्रचलति इत्यस्य अपि ध्यानं न भवति। एतादृशे समये गृहस्य बालकानां च दायित्वं निर्वोढुं सोहायाः महती भूमिका भवति। अस्माकं मध्ये एषा सहकारिता मह्यं अत्यन्तं महत्त्वपूर्णा अस्ति। यदा सा किमपि नूतनं करोति तदा अहम् अपि तस्याः पूर्णं सहकारं करोमि। सम्प्रति सा पोडकास्ट् इति कार्यक्रमं करोति, अतः अहम् अपि तस्याः कार्यानुसारं स्वसमयस्य ध्यानं ददामि। आवां द्वावपि एवं परस्परस्य कार्याणि दायित्वानि च अवगच्छन्तौ सहकारं कुर्वः।
प्रश्नः : निर्देशनस्य दायित्वं निर्वहन् अभिनयमपि कर्तुं भवतः कृते कियत् चुनौतीपूर्णम् अभवत्?
कुणालखेमूः : शारीरिकरूपेण मानसिकरूपेण भावनात्मकरूपेण च एतत् निश्चयेन श्रमकरम् आसीत्, किन्तु कदापि न अभवत् यत् एतत् सम्भवं नास्ति। अस्माकं सज्जता अत्यन्तं दृढा आसीत्, अतः कार्यं पर्याप्तं व्यवस्थितरीत्या अभवत्। बहुवारं भवति स्म यत् मह्यं दृश्यचित्रणाय सज्जं भवितव्यम् आसीत् तथा तस्मिन्नेव समये मम शृङ्गारकार्यं अपि प्रचलति स्म। अतः चित्रकरणस्य प्रारम्भात् पूर्वमेव वयं प्रत्येकस्य विषयस्य सम्यक् योजनां कृतवन्तः। सर्वेषां विभागानां जनाः जानन्ति स्म यत् मह्यं निर्देशनस्य सह अभिनयमपि कर्तव्यम् अस्ति। पूर्वाभ्यासः, दृश्यव्यवस्था, दृश्यानां विन्यासश्च पूर्वमेव निर्धारिताः आसन्। प्रातः चित्रकरणस्थले प्राप्ते एव सम्पूर्णदलाय ज्ञातं भवति स्म यत् कः दृश्यः प्रथमं चित्रितव्यः ततः किं करणीयम्। अनेन मह्यं अभिनयेष्वपि पूर्णं ध्यानं दातुं सुकरम् अभवत्। तथापि चित्रकरणकाले कश्चित् नूतनः विचारः आगच्छति चेत् तस्य समावेशस्य पूर्णा सम्भावना आसीत्।
प्रश्नः : भवतः चलचित्रं ‘दायरा’ इत्यनेन सह एकस्मिन्नेव दिने प्रदर्शितं भविष्यति। एतादृशे सति बक्स् आफिस् इत्यत्र भवितव्यं स्पर्धां भवान् कथं पश्यति?
कुणालखेमूः : करीनया मम चलचित्रस्य विषये याः वार्ताः उक्ताः, तेन मह्यं बहु प्रसन्नता जाता। अहं तस्यै हृदयतः कृतज्ञः अस्मि। सत्यं वदामि चेत् कश्चिदपि निर्माता न इच्छति यत् तस्य चलचित्रं अन्येन चलचित्रेण सह एकस्मिन्नेव दिने प्रदर्शितं भवेत्, यतः तस्य प्रभावः बक्स् आफिस् इत्यत्र भवितुं शक्नोति। तथापि शुभं यत् अस्माकं चलचित्राय पर्याप्तानि प्रदर्शनानि प्राप्यन्ते। ‘दायरा’ इत्यस्मिन् करीनया पृथ्वीराजेन च सह उत्कृष्टाः कलाकाराः सन्ति तथा मेघनागुलजार् इत्यनया अस्य निर्देशनं कृतम् अस्ति। अस्माकं उभयोः चलचित्रयोः शैली पृथक् अस्ति, अतः अहं मन्ये यत् दर्शकाः उभयोः चलचित्रयोः अवसरं दास्यन्ति। अन्ततः उत्तमानि चलचित्राणि दर्शकानां पर्यन्तं प्राप्नुयुः ते च तानि पसन्दीकुर्युः, एतदेव सर्वाधिकं महत्त्वपूर्णम् अस्ति।
Hindusthan Samachar / Dheeraj Maithani