आईसीए-ग्लोबल-बोर्ड इत्यस्य निदेशकः निर्वाचितः इफ्को-अध्यक्षः दिलीपसङ्घाणी
नवदिल्ली, १६ सेप्टेम्बरमासः (हि.स.)। भारतीयकृषक-उर्वरक-सहकारी-समित्या: अध्यक्षः दिलीपसङ्घाणी अन्ताराष्ट्रिय-सहकारिता-सङ्घस्य ग्लोबल-बोर्ड इत्यस्मिन् एट-लार्ज-निदेशकत्वेन निर्वाचितः। पनामा-नगरे आयोजितायां आईसीए-महासभायाम् एतत् निर्वाचनम् अभवत्। इफ्
आईसीए-ग्लोबल-बोर्ड इत्यस्य निदेशकः निर्वाचितः इफ्को-अध्यक्षः दिलीपसङ्घाणी


नवदिल्ली, १६ सेप्टेम्बरमासः (हि.स.)। भारतीयकृषक-उर्वरक-सहकारी-समित्या: अध्यक्षः दिलीपसङ्घाणी अन्ताराष्ट्रिय-सहकारिता-सङ्घस्य ग्लोबल-बोर्ड इत्यस्मिन् एट-लार्ज-निदेशकत्वेन निर्वाचितः। पनामा-नगरे आयोजितायां आईसीए-महासभायाम् एतत् निर्वाचनम् अभवत्।

इफ्को-संस्थया प्रदत्तविवरणानुसारं अस्मिन् निर्वाचने दिलीपसङ्घाणिना तृतीयं स्थानं प्राप्तं तथा च सः ग्लोबल-बोर्ड इत्यस्मिन् स्थानं प्राप्तवान्। तस्य विजयः भारतीय-सहकारिता-आन्दोलनस्य वैश्विकस्तरे महत्त्वपूर्णा उपलब्धिः मन्यते।

सङ्घाणेः निर्वाचनस्य घोषणा यथैव अभवत्, पनामायां उपस्थितैः भारतीय-सहकारिता-प्रतिनिधिभिः “भारत-माता की जय” तथा “वन्दे मातरम्” इति घोषाः कृताः। इफ्को-संस्थया उक्तं यत् एतत् भारतीय-सहकारिता-आन्दोलनस्य वर्धमानस्य वैश्विकस्वीकारस्य प्रभावस्य च प्रतीकम् अस्ति।

दिलीपसङ्घाणी बहूनि दशकानि यावत् सहकारिता-क्षेत्रे सम्बद्धः अस्ति तथा च कृषकाणां, ग्रामीण-अर्थव्यवस्थायाः, सहकारी-संस्थानां च सशक्तीकरणाय कार्यं कुर्वन् अस्ति। सः सम्प्रति इफ्को-संस्थायाः तथा गुजरात-राज्य-सहकारी-विपणन-महासङ्घस्य अध्यक्षः अस्ति। सः राष्ट्रियेषु अन्ताराष्ट्रियेषु च सहकारी-संस्थासु विविधानि दायित्वानि निर्वहन् अपि अस्ति।

अन्तर्राष्ट्रीय-सहकारिता-सङ्घः विश्वस्य प्रमुखं वैश्विक-सहकारी-सङ्घटनम् अस्ति, यः विभिन्नदेशानां सहकारी-संस्थानां प्रतिनिधित्वं करोति। इफ्को-संस्थानुसारं आईसीए-ग्लोबल-बोर्डे भारतस्य सह-भागितया अन्ताराष्ट्रियस्तरे भारतीय-सहकारिता-आन्दोलनस्य स्वरः अधिकं सुदृढः भविष्यति।

दिलीपसङ्घाणिना स्वविजये आईसीए-सदस्यदेशेभ्यः, प्रतिनिधिभ्यः, वैश्विक-सहकारी-समुदायाय च कृतज्ञता प्रकटिता। तेन उक्तं यत् सः वैश्विकमञ्चे भारतस्य सहकारिता-आन्दोलनस्य अनुभवस्य दृष्टिकोणस्य च प्रभावीरूपेण प्रस्तुतीकरणाय तथा अन्ताराष्ट्रिय-सहयोगस्य सुदृढीकरणाय कार्यं करिष्यति।

Hindusthan Samachar / Divya Ranjan