Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 16 सितंबरमासः (हि.स.)।
युवकल्याण, क्रीडा एवं शिक्षा विभागस्य द्वारा मसूरी विधानसभा क्षेत्रे आयोजितायाः विधानसभा स्तरीय विधायक क्रीडाप्रतियोगितायाः शुभारम्भं बुधवासरे प्रदेशस्य कैबिनेटमन्त्री गणेश जोशी अकरोत्। गोरखा मिलिट्री इण्टर कॉलेज, गढ़ी कैण्ट इत्यत्र आयोजितायां प्रतियोगितायां मसूरीनगरस्य विभिन्नक्षेत्रेभ्यः प्रतिभाशालिनः क्रीडकाः प्रतिभागं कृतवन्तः।
अवसरेऽस्मिन् कैबिनेटमन्त्री गणेश जोशी क्रीडकैः सह संवादं कृत्वा तेषाम् उत्साहवर्धनम् अकरोत्। मन्त्री अवदत् यत् क्रीडाः युवानां शारीरिकमानसिकविकासेन सह तेषु अनुशासनस्य, नेतृत्वक्षमतायाः, आत्मविश्वासस्य, दलभावनायाश्च विकासं कुर्वन्ति। राज्यसर्वकारस्य प्रयासः अस्ति यत् प्रदेशस्य युवभ्यः क्रीडाक्षेत्रे उत्तमाः अवसराः आवश्यकाः सुविधाश्च प्रदीयन्ताम्। सः अवदत् यत् उत्तराखण्डस्य युवाः क्रीडाप्रतिभाक्षेत्रे देशस्य प्रदेशस्य च नाम गौरवान्वितं कुर्वन्ति।
ग्रामीणेषु नगरीयेषु च क्षेत्रेषु निहितानां क्रीडाप्रतिभानां कृते उचितं मञ्चं प्रदातुं सर्वकारस्य प्राथमिकतासु अन्तर्भवति। काबीना मन्त्री प्रतियोगितायां प्रतिभागं कुर्वद्भ्यः सर्वेभ्यः क्रीडकेभ्यः शुभकामनाः प्रदाय अवदत् यत् ते क्रीडाभावनया प्रतियोगितायां प्रतिभागं कुर्वन्तु तथा स्वप्रतिभायाः उत्कृष्टं प्रदर्शनं कुर्वन्तु।
मन्त्री जोशी अवदत् यत् राज्यसर्वकारः उत्तराखण्डं क्रीडाप्रतिभानां सुदृढप्रशिक्षणकेन्द्ररूपेण विकसितुं निरन्तरं प्रयत्नशीलः अस्ति। क्रीडानीति २०२१ इत्यस्य माध्यमेन प्रतिभावानां क्रीडकानां परिचयात् आरभ्य तेषां प्रशिक्षणं, प्रतियोगितासु प्रतिभागः, पुरस्काराः, रोजगारस्य अवसराः इत्यादीनां विविधव्यवस्थानां विकासः कृतः अस्ति।
मुख्यमन्त्रिणः उदीयमानक्रीडकउन्नयनछात्रवृत्तियोजनया तथा च चतुर्दशतः त्रयोविंशतिवर्षपर्यन्तानां क्रीडकानां कृते क्रीडकप्रोत्साहनछात्रवृत्तियोजनया युवा क्रीडाप्रतिभाभ्यः आर्थिकप्रोत्साहनं प्रदीयते। राष्ट्रियस्तरे अन्तर्राष्ट्रियस्तरे च उत्कृष्टप्रदर्शनं कुर्वद्भ्यः क्रीडकेभ्यः पुरस्काराणां तथा पात्रेभ्यः पदकविजेतृक्रीडकेभ्यः कार्यवयस्य पूर्वमेव सेवायोजनस्य व्यवस्थापि कृता अस्ति। तदतिरिक्तं प्रदेशे क्रीडाभौतिकसंरचनासुविधानां विकासे, प्रशिक्षणशिबिरेषु, क्रीडासामग्रीप्रदाने तथा राष्ट्रियप्रतियोगितासु प्रतिभागाय आवश्यकसहायताप्रदाने च सर्वकारेण कार्यं क्रियते।
अस्मिन् कार्यक्रमे पूनम नौटियाल, किरन, जगदीश रेगमी, युवकल्याण, क्रीडा एवं शिक्षा विभागस्य अधिकारिणः, जनप्रतिनिधयः, प्रशिक्षकाः, क्रीडकाः इत्यादयः उपस्थिताः आसन्।
----
Hindusthan Samachar / Dheeraj Maithani