Enter your Email Address to subscribe to our newsletters

बीकानेरम्, १६ सेप्टेम्बरमासः (हि.स.)। भारत-अमेरिकयोः संयुक्तसैन्याभ्यासस्य ‘युद्धाभ्यासस्य’ द्वाविंशतितमस्य संस्क-रणस्य उद्घाटनसमारोहः उत्तरा-खण्डस्य औली-विदेशीयप्रशिक्षणकेन्द्रे तथा महाजनक्षेत्रीयगुटिकाप्रहार-प्रशिक्षणक्षेत्रे च एकस्मिन् एव समये आयोज्यते। औली इत्यत्र सेनायाः चतुर्दश-पदातिविभागस्य सेनापतिः मेजरजनरल अमरेशगुञ्जनः तथा अमेरिकासेनायाः एकादश-आकाश-वाहिनीविभागस्य प्रथम-पदातिब्रिगेड्-युद्धदलस्य सेनापतिः कर्नल बेञ्जामिन-जैकमैनः उभयोः पक्षयोः षट्शतं षट्शतं सैनिकैः युक्तानां प्रतिभागिदलानां सम्बोधनं कृतवन्तौ।
अस्याभ्यासस्य उद्देश्यं पर्वतीयेषु अर्धपर्वतीयेषु च क्षेत्रेषु एकीकृतयुद्ध-समूहानां प्रयोगाय उभयोः सेनयोः संयुक्तसैन्यक्षमतायाः वर्धनम् अस्ति। अस्मिन् पदातिप्रधानसैन्याभियानेषु विशेषं बलं प्रदास्यते। अनेन परस्पर-सञ्चालनक्षमता सुदृढा भविष्यति, श्रेष्ठानाम् अभियानपद्धतीनां आदान-प्रदानं सुकरं भविष्यति तथा संयुक्तयोजनां कार्यान्वयनञ्च सुदृढं कर्तुं शक्यते।
अस्मिन् अभ्यासे प्रौद्योगिक्याः समावेशे प्रमुखतया ध्यानं प्रदास्यते। प्रशिक्षणस्य अवधौ निगराणी-अन्वेषणकार्ययोः कृते ड्रोन-यन्त्राणां स्वायत्तप्रणालीनां च प्रयोगः भविष्यति। तदनन्तरं महाजनक्षेत्रीय-गुटिकाप्रहारप्रशिक्षणक्षेत्रे आधुनिकशस्त्र-प्रणालीनां प्रदर्शनमपि करिष्यते। उभयोः सेनयोः विषयविशेषज्ञाः उद्भवमान-प्रौद्योगिकीनां बहुक्षेत्रीययुद्धे भवद्भिः परिवर्तनैश्च सम्बद्धान् विषयान् प्रति स्वकीयाः विचाराः अपि परस्परं संविभाजयिष्यन्ति।
अयं अभ्यासः उभयोः सेनयोः रणनीतीनां, तकनीकानां प्रक्रियाणां च आदान-प्रदानस्य अवसरं प्रदास्यति। विभिन्नेषु भूभागेषु परिचालनसम्बद्धेषु वातावरणेषु च समन्वितसैन्यकार्याणि कर्तुं तयोः क्षमतां वर्धयिष्यति।
Hindusthan Samachar / Divya Ranjan