गान्धीजयन्त्याः आरभ्य प्रदेशे सर्वत्र ‘मद्यनिषेधसप्ताहः’ आचरिष्यते
२ तः ८ अक्तूबरपर्यन्तं जन-जागरूकतागतिविधयः भविष्यन्ति, नशामुक्त्यै अन्तर्जाल-शपथः दापयिष्यते। विद्यालयेभ्यः, महाविद्यालयेभ्यः, ग्राम-सभाभ्यः आरभ्य महिला-स्वसहायता-समूहेषु पर्यन्तं सहभागिता भविष्यति। भोपालम्, १६ सेप्टेम्बरमासः (हि.स.)। राष्ट्रपितु
प्रतीकात्मक फोटो


२ तः ८ अक्तूबरपर्यन्तं जन-जागरूकतागतिविधयः भविष्यन्ति, नशामुक्त्यै अन्तर्जाल-शपथः दापयिष्यते।

विद्यालयेभ्यः, महाविद्यालयेभ्यः, ग्राम-सभाभ्यः आरभ्य महिला-स्वसहायता-समूहेषु पर्यन्तं सहभागिता भविष्यति।

भोपालम्, १६ सेप्टेम्बरमासः (हि.स.)। राष्ट्रपितुः महात्मगान्धिनः १५७तम्याः जयन्त्याः अवसरे मध्यप्रदेशे २ तः ८ अक्तूबर २०२६ पर्यन्तं “मद्यनिषेधसप्ताहः” आचरिष्यते। सप्ताहस्य अवधौ प्रदेशस्य सर्वेषु जनपदेषु नशामुक्तिशोभायात्रा:, वीथीनाट्यप्रदर्शनानि, प्रदर्शिन्यः, प्रतियोगिताः, स्वास्थ्यपरीक्षणशिबिराणि, ग्रामसभाः, सांस्कृतिककार्यक्रमाः, अन्तर्जाल-शपथश्च इत्यादयः विविधाः जनजागरूकतागतिविधयः आयोजिताः भविष्यन्ति।

जनसम्पर्काधिकारी अनिलवशिष्ठः बुधवासरे अवदत् यत् सामाजिकन्याय-दिव्याङ्गजनसशक्तीकरणविभागस्य आयुक्तेन के.जी.तिवारिणा सर्वेभ्यः जनपदाधिकारिभ्यः, जनपद-पञ्चायतानां मुख्यकार्यपालनाधिकारिभ्यः, विभागीयेभ्यः संयुक्त-सञ्चालकेभ्यः उप-सञ्चालकेभ्यश्च सप्ताहस्य आयोजन-सम्बन्धे विस्तृतनिर्देशाः प्रदत्ताः। कार्यक्रमेषु विभागेन मान्यताप्राप्तानाम् अशासकीय-संस्थानां, सामाजिकानां स्वयंसेवी-सङ्घटनानाम्, आध्यात्मिक-संस्थानां तथा नशामुक्तिक्षेत्रे कार्यं कुर्वतां सङ्घटनानां सहयोगः स्वीकरिष्यते।

मद्यनिषेधसप्ताहस्य प्रमुखम् उद्देश्यम् अस्ति यत् समाजे वर्धमानायाः मद्यपानप्रवृत्तेः तथा मादकद्रव्यै: औषधिभिः मादकपदार्थैश्च सेवनात् जायमानानां गम्भीरव्याधीनां दुष्परिणामानां च विषये युवानः, विद्यार्थिनः, नागरिकाश्च जागरूकाः भवन्तु। सप्ताहस्य अवधौ विद्यालयानां महाविद्यालयानां च विद्यार्थिभिः सह विभिन्नवर्गेभ्यः “नशां न करिष्यामः, न च कर्तुं दास्यामः” इति शपथः अपि दापयिष्यते।

२ अक्तूबरमास: : नशामुक्तिशोभायात्रा: प्रदर्शिनी च

सप्ताहस्य प्रथमदिने महात्मगान्धि-जयन्त्याः अवसरे नशामुक्त्यर्थं जनजागरूकताशोभायात्रा: आयोजयिष्यन्ते तथा वीथीनाट्यानां प्रदर्शनं करिष्यते। नशासेवनस्य दुष्परिणामानां विषये सूचनां दातुं नशामुक्तिविषयकाः भित्तिचित्राणि, छायाचित्राणि चित्रप्रदर्शिन्यश्च आयोजिताः भविष्यन्ति। कार्यक्रमेषु सम्मिलितेभ्यः नागरिकेभ्यः नशासेवनं न कर्तुं अन्तर्जाल-शपथः दापयिष्यते।

३ अक्तूबरमास: : शैक्षणिकप्रतियोगिताः स्वास्थ्यपरीक्षणशिबिराणि च

द्वितीयदिने स्थानीयविद्यालयेषु महा-विद्यालयेषु च नशामुक्तिविषये विविधाः प्रतियोगिताः, संवादाः, सङ्गोष्ठ्यश्च आयोजिताः भविष्यन्ति। स्वास्थ्यविभागस्य सहयोगेन सामुदायिकस्वास्थ्यकेन्द्रेषु आवासीयनशामुक्तिकेन्द्रेषु च नशापीडितव्यक्तिनां कृते विशेषस्वास्थ्य-परीक्षण-परामर्शशिबिराणि आयोजितानि भविष्यन्ति।

शिबिरेषु नशापीडितानां एचआईवी-एड्स, क्षयरोगः, हेपेटाइटिस इत्यादीनां व्याधीनां परीक्षणं करिष्यते। परीक्षणे रोगग्रस्ताः इति ज्ञातानां व्यक्तीनां समुचितचिकित्सायाः व्यवस्था अपि सुनिश्चितां करिष्यते।

४ अक्तूबरमास: : ग्रामसभासु नशामुक्त-ग्रामस्य सङ्कल्पः

तृतीयदिने ग्रामसभासु ग्रामान् नशामुक्तान् कर्तुं सम्बन्धे प्रस्तावाः पारिताः भविष्यन्ति। पारितप्रस्तावानां पालनं सुनिश्चितं कृत्वा ग्रामीणक्षेत्रेषु नशामुक्तिसम्बद्धं साहित्यं, भित्तिपत्राणि, पत्रिकाः, अन्याः प्रचारसामग्रीश्च वितरिष्यन्ते। ग्रामसभासु उपस्थितेभ्यः ग्रामीणेभ्यः नशामुक्तेः अन्तर्जाल-शपथः अपि दापयिष्यते।

५ अक्तूबरमास: : सामाजिकमाध्यमैः जागरूकता

चतुर्थदिने ग्रामस्तरे नगरीयस्तरे च स्थानीयाः व्हाट्सऐप-समूहाः निर्मास्यन्ते। एतेषां समूहानां माध्यमेन नशामुक्ति-सन्देशाः, जागरूकतासामग्री, लघुचल-च्चित्राणि च नागरिकेभ्यः प्रेषयिष्यन्ते। सामाजिकमाध्यमानां माध्यमेन विशेषरूपेण यूनां विद्यार्थिनां च अभियानेन सह संयोजनस्य प्रयासः करिष्यते।

६ अक्तूबरमास: : महिला-स्वसहायता-समूहानां सहभागिता

पञ्चमदिने महिला-स्वसहायतासमूहैः शौर्यादलैश्च स्थानीयस्तरे नशामुक्ति-सन्देशस्य प्रचारप्रसाराय अभियानं चालिष्यते। महिलाभ्यः परिवारे समाजे च नशासेवनस्य कारणेन जायमानानां आर्थिकानां सामाजिकानां स्वास्थ्य-सम्बद्धानां च दुष्परिणामानां विषये सूचना प्रदास्यते। महिला-समूहाः समुदायस्य जनान् नशासेवनात् दूरं स्थातुं प्रेरयिष्यन्ति।

७ अक्तूबरमास: : विद्यालयेषु महाविद्यालयेषु च अन्तर्जाल-शपथः

षष्ठदिने ग्रामेषु नगरीयक्षेत्रेषु च नशामुक्ति-अभियानाय सज्जीकृताः स्थानीय-मास्टर-स्वयंसेवकाः तथा “नशामुक्तिमित्राणि” विद्यालयेषु महा-विद्यालयेषु च विद्यार्थिभ्यः अनिवार्य-रूपेण ऑनलाइन-नशामुक्तिशपथं दापयि-ष्यन्ति। युवानः नशासेवनात् दूरं स्थातुं तथा स्वपरिवारजनान् परिचितजनांश्च तदर्थं प्रेरयितुं सङ्कल्पं करिष्यन्ति।

८ अक्तूबरमास: : जनपदमुख्यालयेषु समापनसमारोहः

मद्यनिषेधसप्ताहस्य अन्तिमदिने सर्वेषु जनपदमुख्यालयेषु जनपदस्तरीयाः समापनसमारोहाः आयोजिताः भविष्यन्ति। तेषु नशामुक्तिविषयकानि नाटकानि, नृत्यानि, सङ्गीतप्रस्तुतयः अन्याः कलात्मकप्रस्तुतयश्च भविष्यन्ति। सप्ताहस्य अवधौ आयोजितासु विविध-प्रतियोगितासु प्रथम-द्वितीय-तृतीयस्थानं प्राप्तेभ्यः प्रतिभागिभ्यः पुरस्काराः प्रदास्यन्ते। सर्वेभ्यः प्रतिभागिभ्यः सहभागिताप्रमाणपत्राणि अपि प्रदास्यन्ते।

अन्तर्जाल-पटले शपथः दापयिष्यते

सप्ताहस्य प्रत्येकस्मिन् दिने आयोजितेषु कार्यक्रमेषु सम्मिलितेभ्यः विद्यार्थिभ्यः, युवभ्यः, महिलाभ्यः, नागरिकेभ्यश्च भारत-सर्वकारस्य नशामुक्तभारत-अभियानस्य अन्तर्जाल-पटले ई-प्लेज-माध्यमेन नशासेवनं न कर्तुं शपथः दापयिष्यते।

जनपदप्रशासनाय निर्देशाः प्रदत्ताः सन्ति यत् कार्यक्रमेषु स्वास्थ्यविभागस्य, विद्यालयशिक्षाविभागस्य, उच्चशिक्षा-विभागस्य, पञ्चायत-ग्रामीणविकास-विभागस्य, नगरीयप्रशासन-विकास-विभागस्य, महिला-बालविकासविभागस्य, आरक्षीविभागस्य तथा जनसम्पर्क-विभागस्य सम्बन्धितसंस्थानां च सहयोगः स्वीक्रियताम्। जनपदेभ्यः आयोजितानां गतिविधीनां प्रतिवेदनं छायाचित्रैः सह सामाजिकन्याय-दिव्याङ्गजन-सशक्तीकरणसञ्चालनालयाय प्रेषयितुम् अपि निर्देशाः प्रदत्ताः सन्ति।

Hindusthan Samachar / Divya Ranjan