सेवासङ्कल्पाभियानम् २०२६ - मध्यप्रदेशस्य विद्यार्थिभ्यः रचनात्मकप्रतिभाप्रदर्शनस्य मञ्चः प्राप्स्यते
विद्यालयशिक्षाविभागेन एकमासपर्यन्तं चलिष्यमाणस्य अभियानस्य अन्तर्गतं विविधाः गतिविधयः आयोजयिष्यन्ते। भोपालम्, १६ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशसर्वकारेण १७ सेप्टेम्बरतः १७ अक्तूबरमासपर्यन्तं ‘सेवासङ्कल्पा-भियानम्’ चाल्यते। एकमासपर्यन्तं चलिष्य
मप्र राज्य शिक्षा केन्द्र (फाइल)


विद्यालयशिक्षाविभागेन एकमासपर्यन्तं चलिष्यमाणस्य अभियानस्य अन्तर्गतं विविधाः गतिविधयः आयोजयिष्यन्ते।

भोपालम्, १६ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशसर्वकारेण १७ सेप्टेम्बरतः १७ अक्तूबरमासपर्यन्तं ‘सेवासङ्कल्पा-भियानम्’ चाल्यते। एकमासपर्यन्तं चलिष्यमाणे अस्मिन् अभियाने विद्यालय-शिक्षाविभागेन षष्ठीकक्षातः द्वादशी-कक्षापर्यन्तं सर्वकारीयेषु अशासकीयेषु च विद्यालयेषु विविधाः गतिविधयः आयोजयिष्यन्ते। अस्य माध्यमेन विद्यार्थिनः सेवा-सामाजिकदायित्व-जनसहभागिताभिः सह संयोजयन्तः तेषां रचनात्मकप्रतिभायै मञ्चः प्रदास्यते।

‘मम स्वप्नानां भारतम्–सेवाचित्रम्’ विषये चित्रकला-भाषणस्पर्धा

अभियानस्य अन्तर्गतं १९ सेप्टेम्बरे ‘मम स्वप्नानां भारतम्–सेवाचित्रम्’ इति विषये विद्यालयस्तरे जनपदस्तरे च चित्रकला-भाषणप्रतियोगिताः आयोजयिष्यन्ते। विद्यार्थिनः चित्राणां स्वकीयविचाराणां च माध्यमेन भारतस्य भविष्यं, सेवां जनसहभागितां च प्रति स्वकल्पनां व्यक्तं करिष्यन्ति। जनपदस्तरे चयनितानां श्रेष्ठप्रतिभागिनां प्रविष्टयः राज्यस्तरीय-स्पर्धायै प्रेषयिष्यन्ते। राज्यस्तरीया चित्रकला-भाषणप्रतियोगिता ४ तथा ५ अक्तूबरमासयोः भविष्यति।

२१ सेप्टेम्बरे विद्यालयेषु प्रदर्शनी पालक-शिक्षकसभा च

जनसम्पर्काधिकारी सुनीलवर्मा बुधवासरे अवदत् यत् २१ सेप्टेम्बरे विद्यालयस्तरे विद्यार्थिनां श्रेष्ठचित्रकलानां भाषणगति-विधीनां च प्रदर्शिनी आयोजयिष्यते। विद्यालयस्य उपयुक्ते कक्षे, सभागारे अथवा अन्यस्मिन् स्थाने विद्यार्थिनां रचनात्मक-प्रस्तुतयः प्रदर्शयिष्यन्ते। अस्मिन् दिने पालक-शिक्षकसङ्घस्य सभामपि आयोजयिष्यते।

२६ सेप्टेम्बरमासे जनपदस्तरे चित्रकला-प्रदर्शिनी च

सः अवदत् यत् ‘मम स्वप्नानां भारतम्–सेवाचित्रम्’ गतिविधेः अन्तर्गतं २६ सेप्टेम्बरमासे जनपदस्तरे चित्रकला-प्रदर्शिनी आयोजयिष्यते। विभिन्नेषु स्तरेषु उत्कृष्टं प्रदर्शनं कृतवद्भ्यः विद्यार्थिभ्यः चयनिताः प्रतिभागिनः अग्रिमप्रतियोगितायै प्रेषयिष्यन्ते। उत्कृष्टप्रदर्शनं कृतवद्भ्यः विद्यार्थिभ्यः पुरस्काराः प्रमाणपत्राणि च प्रदास्यन्ते।

‘माय भारत’ पटले विद्यालयानां पञ्जीकरणम्

जनसम्पर्काधिकारिणः अनुसारं ‘माय भारत’ पटले विद्यालयानां पञ्जीकरणं कारयिष्यते। जनपदस्तरे नियमित-निरीक्षणमपि भविष्यति। अभियानस्य अन्तर्गतं षष्ठीकक्षातः द्वादशमीकक्षापर्यन्तं सर्वेषां सर्वकारीय-अशासकीय-सीबी-एसई-नवोदय-अन्यबोर्डसम्बद्ध-विद्यालयानां सहभागिता सुनिश्चितं कर्तुं निर्देशाः दत्ताः सन्ति।

२ अक्तूबरतः १० अक्तूबरपर्यन्तं ‘सेवा मम योगदानम्’

सः अवदत् यत् २ अक्तूबरतः १० अक्तूबरपर्यन्तं ‘सेवा मम योगदानम्’ इति गतिविधिः आयोजयिष्यते। अस्याः अन्तर्गतं विद्यालयेषु विविधाः सेवागतिविधयः सञ्चालयिष्यन्ते। एतासां गतिविधीनां चित्राणि चलच्चित्राणि च ‘माय भारत’ पटले तथा ‘ईको क्लब फॉर मिशन लाइफ’ पटले उपारोपयिष्यन्ते।

एतासु गतिविधिषु पादपारोपणम्, स्वच्छताभियानम्, योग-ध्यानम्, प्लास्टिकमुक्तताजागरूकता, जीविका-मार्गपरामर्शः, नशामुक्तभारत-जागरूकता, पोषण-अल्परक्तता-जागरूकता, मार्ग-सुरक्षा, अपशिष्ट-पृथक्करणं कम्पोस्ट-निर्माणं च, साइबरसुरक्षा, फिट्-इण्डिया तथा सर्वकारीययोजनान् प्रति जागरूकता इत्यादयः समाविष्टाः सन्ति। विद्यालय-शिक्षाविभागेन सर्वेषां जनपदानां विद्यालयानां च अभियानस्य गतिविधिषु विद्यार्थिनां, पालकानां, शिक्षकाणां स्थानीयसमुदायस्य च सक्रियसहभागितां सुनिश्चितं कर्तुं निर्देशाः दत्ताः सन्ति।

Hindusthan Samachar / Divya Ranjan