Enter your Email Address to subscribe to our newsletters

कोलकाता, 16 सितंबरमासः (हि. स.)।
कोलकातानगरस्य दमदमक्षेत्रे मङ्गलवासरे विलम्बितरात्रौ प्रसिद्धा अधिवक्ता नाजियाइलाहीखानः गणेशपूजोत्सवे सम्मिलिता। सा रात्रौ प्रायः १२.४५ वादने पूजासमारोहस्थलं प्राप्तवती। मुक्तारामबाबू-स्ट्रीट्-सङ्घेन आयोजिते गणेशपूजोत्सवे तया भगवान् गणेशस्य वन्दनं कृत्वा मञ्चात् उपस्थितजनाः सम्बोधिताः।
स्वसम्बोधने नाजियाइलाहीखानेन उक्तं यत् पूजा केवलं स्वादूनां व्यञ्जनानां सेवनपर्यन्तं नूतनवस्त्रधारणपर्यन्तं वा सीमिता न भवेत्। धार्मिकानुष्ठानानां माध्यमेन समाजस्य संस्कृतेश्च सुदृढीकरणमपि भवति। तया उक्तं यत् पूजामञ्चः पवित्रः भवेत् तथा तस्य पवित्रतां संरक्षितुं पूजायोजकानां दायित्वम् अस्ति।
मञ्चात् सम्बोधयन्ती सा पश्चिमबङ्गे ‘जेहादात्’, ‘जेहादीमानसिकतायाः’ तथा ‘जेहादिजनानां’ च दूरीकरणस्य विषये उक्तवती। तया कथितं यत् पश्चिमबङ्गः यावद् एतादृश्याः मानसिकतायाः दूरं तिष्ठति, तावदेव अधिकं समृद्धिं प्राप्स्यति अग्रे च गमिष्यति।
प्रधानमन्त्री नरेन्द्रमोदिनः ‘विकसितभारत’ इति सङ्कल्पस्य उल्लेखं कुर्वती सा उक्तवती यत् राज्यस्य विकासाय एतादृश्याः मानसिकतायाः दूरीकरणम् आवश्यकम् अस्ति। स्वसम्बोधने सा पश्चिमबङ्गस्य परिवर्तमानस्य राजनैतिकसामाजिकवातावरणस्य उल्लेखं कृत्वा उक्तवती यत् राज्यं सम्प्रति ‘भगवतः शिवस्य’, ‘रामनाथस्य’ तथा ‘महादेवस्य स्थानस्य’ स्वरूपं प्राप्तवत् अस्ति।
सम्बोधनसमये नाजियाइलाहीखानेन मञ्चस्थैः उपस्थितजनैः सह ‘जय श्रीराम’ इति घोषोऽपि कृतः। तस्याः सम्बोधनसमये पूजासमारोहे उपस्थितैः जनैरपि घोषाः कृताः।
दमदमे आयोजिते अस्मिन् गणेशपूजोत्सवे स्थानीयजनाः श्रद्धालवश्च बहुसंख्यया उपस्थिताः आसन्। कार्यक्रमस्थले जनानां मध्ये विशेषः उत्साहः दृष्टः।
---------------
Hindusthan Samachar / Dheeraj Maithani