Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 16 सितंबरमासः (हि.स.)।
प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिवसस्य १७ सितम्बर दिनाङ्कस्य अवसरे नवदिल्लीनगरपालिकापरिषदः (एनडीएमसी) पक्षतः ‘सेवामासस्य’ अन्तर्गतं ‘आशीर्वादस्य दीपः’ इति कार्यक्रमः आयोजयिष्यते। कार्यक्रमस्य समये कर्तव्यपथात् सेवातीर्थपर्यन्तं एकलक्षाधिकाः मृण्मयदीपाः प्रज्वालयिष्यन्ते।
एनडीएमसी-संस्थायाः उपाध्यक्षः कुलजीतसिंहचहलः बुधवासरे पत्रकारेभ्यः सूचनां दत्त्वा अवदत् यत् अस्मिन् आयोजने प्रायः पञ्चसहस्रं लाभार्थिनः, एनडीएमसी-कर्मचारिणः, छात्राः शिक्षकाः च भागं ग्रहीष्यन्ति। सायं सप्तवादने एकस्मिन् समये एकलक्षाधिकाः दीपाः प्रज्वालयिष्यन्ते।
चहलः अवदत् यत् दीपप्रज्वलनस्य माध्यमेन सेवा, समर्पणं, जनसहभागिता, राष्ट्रनिर्माणस्य भावना च अभिव्यक्तुं कार्यक्रमस्य उद्देश्यं वर्तते। कार्यक्रमे आयुष्मानभारतस्य, सुकन्यासमृद्धियोजनायाः, पीएम-स्वनिधियोजनायाः च सहितं विविधजनकल्याणकारीयोजनानां लाभार्थिनः अपि भागं ग्रहीष्यन्ति। दीपानां माध्यमेन एताभिः योजनाभिः सम्बद्धाः सन्देशाः आकृतयश्च अपि प्रदर्शयिष्यन्ते।
तेन उक्तं यत् १७ सितम्बर दिनाङ्के प्रधानमन्त्रिणः जन्मदिवसः ‘सेवादिवसः’ इति रूपेण आचर्यते। अस्मिन् वर्षे सार्वजनिकजीवने प्रधानमन्त्रिणः पञ्चविंशतिवर्षाणि पूर्णानि इति उल्लेखं कुर्वन् सः अवदत् यत् सेवा, समर्पणं, राष्ट्रनिर्माणं च तस्य सार्वजनिकजीवनयात्रायाः प्रमुखविषयाः अभवन्।
कार्यक्रमं ‘विकसितभारत@२०४७’ इति संकल्पनया सम्बध्नन् चहलः अवदत् यत् नवदिल्लीनगरक्षेत्रे आधुनिकनगरीयाधारभूतसंरचनायाः, उत्तमसार्वजनिकसुविधानां, हरितक्षेत्राणां, स्वच्छतायाः, स्मार्टसेवानां च प्रोत्साहनाय निरन्तरं कार्यं क्रियते। तेन कर्तव्यपथस्य, नूतनसंसद्भवनस्य, भारतमण्डपस्य, राष्ट्रिययुद्धस्मारकस्य, सेवातीर्थस्य, कर्तव्यभवनस्य च प्रमुखविकासकार्याणाम् अपि उल्लेखः कृतः।
एनडीएमसी-संस्थायाः उपाध्यक्षः अवदत् यत् परिषद् स्वक्षेत्रे स्वच्छतायाः, हरितक्षेत्राणां, सार्वजनिकसुविधानां, स्मार्टसेवानां, नगरीयाधारभूतसंरचनायाः च उन्नयनाय विविधकार्याणि करोति। कर्मचारिणां हिताय कृतानां कार्याणां उल्लेखं कुर्वन् तेन प्रायः चतुःसहस्रपञ्चशतं कर्मचारिणां नियमितीकरणं प्रमुखोपलब्धिरूपेण निर्दिष्टम्।
चहलः नागरिकेभ्यः अपि १७ सितम्बर दिनाङ्कस्य सायं सप्तवादने स्वेषु गृहेषु एकं दीपं प्रज्वाल्य ‘आशीर्वादस्य दीपः’ इति जनसहभागिताभियाने सम्मिलितुं आह्वानं कृतवान्। सः अवदत्—‘एकः दीपः सेवायै, एकः दीपः सङ्कल्पाय, एकः दीपः राष्ट्रनिर्माणाय।’
---------------
Hindusthan Samachar / Dheeraj Maithani