Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १६ सेप्टेम्बरमासः (हि.स.)। अग्रिमपर्वकाले रेलयात्रिणां सुविधां तथा रेलयानेषु रेलस्थानकेषु च अतिरिक्त-जनसमूहम् अवलोक्य उत्तररेलविभाग: पञ्च युगल-प्रमुखविशेषरेलयानानि चालयिष्यति। तदतिरिक्तं नवदिल्ली-दानापुर-नवदिल्ली सुपरफास्ट्-विशेष-एक्सप्रेस-रेलयानस्य सञ्चालनावधौ पर्यायेषु च विस्तारः कृतः अस्ति।
उत्तररेल्वे-मुख्यजनसम्पर्काधिकारी हिमांशुशेखर-उपाध्यायस्य अनुसारं पर्वकालीनयाचनां दृष्ट्वा नवदिल्ली-हावडा, आनन्दविहार-टर्मिनल-भागलपुर, योगनगरी-ऋषिकेश-कोलकाता, अमृतसर-कोलकाता तथा अमृतसर-बरौनी इत्येतयोः मध्ये विशेषरेलयानसेवाः सञ्चालयिष्यन्ते।
गाडीसङ्ख्या ०४०५२/०४०५१ नवदिल्ली-हावडा-जङ्क्शन-नवदिल्ली आरक्षित-साप्ताहिकविशेषरेलयानं चालयिष्यते। यानसङ्ख्या ०४०५२ नवदिल्लीतः २ अक्तूबरतः २७ नवम्बर २०२६ पर्यन्तं प्रत्येकं शुक्रवासरे सायं १८:१५ वादने प्रस्थाय अग्रिमे दिने रात्रौ २३:४० वादने हावडां प्राप्स्यति। प्रत्यागमने गाडीसङ्ख्या ०४०५१ हावडातः ४ अक्तूबरतः २९ नवम्बरपर्यन्तं प्रत्येकं रविवासरे रात्रौ ०१:४० वादने प्रस्थाय अगले दिने प्रातः ०८:२० वादने नवदिल्ल्यां प्राप्स्यति। उभयोः दिशयोः ९-९ फेराः सञ्चालयिष्यन्ते। एतत् रेलयानं गाजियाबादम्, अलीगढ-जङ्क्शन, टूण्डला, गोविन्दपुरी, सूबेदारगञ्ज, मिर्जापुरम्, पं. दीनदयाल-उपाध्याय-जङ्क्शन्, बक्सरम्, आरा, पाटलिपुत्र-जङ्क्शन्, बख्तियारपुरम्, किउलम्, झाझा, जसीडीह, मधुपुरम्, चित्तरञ्जनम्, आसनसोलम्, दुर्गापुरम्, बर्द्धमानम् तथा बण्डेल् इत्येतेषु रेलस्थानकेषु स्थास्यति।
यानसङ्ख्या ०४०६२/०४०६१ आनन्द-विहार-टर्मिनल-भागलपुर-आनन्दविहार-टर्मिनल आरक्षित-दैनिकविशेषरेलयानं भविष्यति। यानसङ्ख्या ०४०६२ आनन्दविहार-टर्मिनलतः १० अक्तूबरतः २५ नवम्बर २०२६ पर्यन्तं प्रतिदिनं मध्याह्ने १२:०० वादने प्रस्थाय अग्रिमे दिने मध्याह्ने १३:३० वादने भागलपुरं प्राप्स्यति। प्रत्यागमने गाडीसङ्ख्या ०४०६१ भागलपुरतः ११ अक्तूबरतः २६ नवम्बर २०२६ पर्यन्तं प्रतिदिनं सायं १६:३० वादने प्रस्थाय अग्रिमे दिने रात्रौ २०:०० वादने आनन्दविहार-टर्मिनलं प्राप्स्यति। उभयोः दिशयोः एतत् रेलयानं ४७-४७ पर्यायान् करिष्यति। मार्गे अस्य अवरोध: अलीगढे, टूण्डलायाम्, गोविन्दपुर्यां, सूबेदारगञ्जे, मिर्जापुरे, पं. दीनदयाल-उपाध्याय-जङ्क्शने, भभुआरोडे, सासारामे, डेहरी-ऑन्-सोन, अनुग्रह-नारायण-रोड, गयाजङ्क्शन, तिलयायाम्, नवादायाम्, वारिसलीगञ्जे, शेखपुरायाम्, किउले, अभयपुरे, जमालपुरे तथा सुल्तानगञ्जे भविष्यति।
यानसङ्ख्या ०४३१२/०४३११ योगनगरी-ऋषिकेश-कोलकाता-योगनगरी-ऋषिकेश आरक्षित-साप्ताहिकविशेष-रेलयानं भविष्यति। गाडीसङ्ख्या ०४३१२ योगनगरी-ऋषिकेशतः १६ अक्तूबरतः २० नवम्बर २०२६ पर्यन्तं प्रत्येकं शुक्रवासरे रात्रौ २२:२० वादने प्रस्थाय रविवासरे प्रातः ०८:०० वादने कोलकातां प्राप्स्यति। प्रत्यागमने यानसङ्ख्या ०४३११ कोलकातातः १८ अक्तूबरतः २२ नवम्बर २०२६ पर्यन्तं प्रत्येकं रविवासरे मध्याह्ने १३:५५ वादने प्रस्थाय सोमवासरे रात्रौ २३:३० वादने योगनगरी-ऋषिकेशं प्राप्स्यति। उभयोः दिशयोः ६-६ फेराः भविष्यन्ति। एतत् रेलयानं हरिद्वारे, मुरादाबादे, बरेल्याम्, शाहजहाँपुरे, आलमनगरे, ट्रान्सपोर्ट-नगरे, उतरे-टियायाम्, राय-बरेल्याम्, माँ बेल्हा देवी धाम प्रतापगढे, वाराणस्याम्, पं. दीनदयाल-उपाध्याय-जङ्क्शन, भभुआरोड, सासारामे, डेहरी-ऑन-सोने, अनुग्रह-नारायण-रोडे, गयायाम्, कोडरमायाम्, हजारीबाग-रोड, पारसनाथे, नेताजी-सुभाषचन्द्रबोस-जङ्क्शन-गोमो, धनबादे, आसनसोल, दुर्गापुरे, बर्द्धमाने, बण्डेले तथा नैहाटी-जङ्क्शन इत्यत्र स्थास्यति।
यानसङ्ख्या ०४६२४/०४६२३ अमृतसर-कोलकाता-अमृतसर आरक्षित-साप्ताहिकविशेषरेलयानं चालयिष्यते। गाडीसङ्ख्या ०४६२४ अमृतसरतः ७ अक्तूबरतः २५ नवम्बर २०२६ पर्यन्तं प्रत्येकं बुधवासरे रात्रौ २०:१० वादने प्रस्थाय शुक्रवासरे मध्याह्ने १५:०० वादने कोलकातां प्राप्स्यति। प्रत्यागमने गाडीसङ्ख्या ०४६२३ कोलकातातः १० अक्तूबरतः २८ नवम्बर २०२६ पर्यन्तं प्रत्येकं शनिवासरे प्रातः ०४:४५ वादने प्रस्थाय रविवासरे रात्रौ २१:०५ वादने अमृतसरं प्राप्स्यति। उभयोः दिशयोः ८-८ फेराः सञ्चालयिष्यन्ते। एतत् रेलयानं व्यासे, जालन्धर-सिटीनगरे, फगवाडायाम्, ढण्डारीकलायाम्, अम्बाला-कैण्ट्, यमुना-नगर-जगाधरी, सहारनपुरे, मुरादाबादे, बरेल्याम्, शाहजहाँपुरे, सीतापुरे, गोण्डायाम्, गोरखपुरे, कप्तानगञ्जे, बगहायाम्, नरकटियागञ्जे, बेतियायाम्, सगौलौ, बापूधाम-मोतिहारी, मुजफ्फरपुरे, समस्तीपुरे, बरौण्याम्, किउले, झाझायाम्, जसीडीहे, मधुपुरे, चित्तरञ्जने, आसनसोल, दुर्गापुरे तथा बर्द्धमाने स्थास्यति।
गाडीसङ्ख्या ०४६६८/०४६६७ अमृतसर-जङ्क्शन-बरौनी-जङ्क्शन-अमृतसर-जङ्क्शन आरक्षित-साप्ताहिकविशेष-रेलयानं भविष्यति। यानसङ्ख्या ०४६६८ अमृतसरतः ४ अक्तूबरतः २९ नवम्बर २०२६ पर्यन्तं प्रत्येकं रविवासरे रात्रौ २०:१० वादने प्रस्थाय मङ्गलवासरे प्रातः ०२:१० वादने बरौणीं प्राप्स्यति। प्रत्यागमने गाडीसङ्ख्या ०४६६७ बरौणीतः ६ अक्तूबरतः १ दिसम्बर २०२६ पर्यन्तं प्रत्येकं मङ्गलवासरे प्रातः ०५:०५ वादने प्रस्थाय बुधवासरे मध्याह्ने १३:५० वादने अमृतसरं प्राप्स्यति। उभयोः दिशयोः एतत् रेलयानं ९-९ फेरान् करिष्यति। मार्गे एतत् व्यासे, जालन्धर-सिटीनगरे, फगवाडायाम्, ढण्डारी-कलायाम्, अम्बाला-कैण्ट्, यमुनानगर-जगाधरी, सहारनपुरे, मुरादाबादे, बरेल्याम्, शाहजहाँपुरे, हरदोई, आलमनगरे, ट्रान्सपोर्ट-नगरे, रायबरेल्याम्, माँ बेल्हा देवी धाम प्रतापगढे, वाराणस्याम्, औंड़िहारे, गाजीपुर-सिटीनगरे, बलियायाम्, छपरायाम्, सोनपुरे, हाजीपुरे तथा शाहपुर-पटोर्याम् स्थास्यति।
तदतिरिक्तं उत्तररेल्वविभागस्य यान-सङ्ख्या ०४०९०/०४०८९ नवदिल्ली-दानापुर-नवदिल्ली आरक्षित-सुपरफास्ट-विशेष-एक्सप्रेस-रेलयानस्य पर्यायेषु विस्तारं कर्तुं निर्णयं कृतवती अस्ति। यानसङ्ख्या ०४०९० नवदिल्लीतः प्रत्येकं शुक्रवासरे २ अक्तूबरतः २० नवम्बर २०२६ पर्यन्तम् आहत्य ८ पर्यायान् करिष्यति। अपरतः यानसङ्ख्या ०४०८९ दानापुरतः प्रत्येकं शनिवासरे ३ अक्तूबरतः २१ नवम्बर २०२६ पर्यन्तम् आहत्य ८ पर्यायान् करिष्यति।
Hindusthan Samachar / Divya Ranjan