Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 16 सितंबरमासः (हि.स.)।
न्यूजीलैण्डस्य संसदः भारतस्य सह मुक्तव्यापारसहमतेः कार्यान्वयनाय विधेयकं पारितवती। अनेन सह उभयोः देशयोः मध्ये शुल्केषु महती न्यूनता व्यापारवृद्धेः च मार्गः प्रशस्तः अभवत्।
न्यूजीलैण्डस्य प्रधानमन्त्री क्रिस्टोफरलक्सनः बुधवासरे ‘एक्स’ इति सामाजिकमाध्यमे प्रकाशिते सन्देशे अवदत् यत् देशस्य संसदः भारतस्य सह कृतस्य ‘ऐतिहासिकस्य’ मुक्तव्यापारसहमतेः अन्तिमानुमोदनं कृतवती। विपक्षीदलस्य लेबरपार्टी इत्यस्य समर्थनात् अनेन विधेयकेन ९३ विरुद्धं २९ मतैः अनुमोदनं प्राप्तम्। एषः सम्झौताः आगामीमासे कार्यान्वितः भविष्यतीति अपेक्षा अस्ति।
प्रधानमन्त्री क्रिस्टोफरलक्सनः लिखितवान्, ‘‘जनैः मम उक्तं यत् भारतस्य सह मुक्तव्यापारसहमतिः सम्भवः नास्ति। किन्तु सः सम्झौताः संसदः मतदानानन्तरम् अद्य अनुमोदितः अस्ति।’’
सः अवदत्, ‘‘अनेन सम्झौतेन न्यूजीलैण्डे अधिकाः रोजगाराः जनानां च आयः वर्धिष्यते। तथा च १.४ अरबभारतीयोपभोक्तृणां कृते विपण्याः उद्घाटनेन न्यूजीलैण्डस्य अधिकानि उत्पादानि भारते विक्रेतुं शक्यन्ते।’’
भारते अन्यैः देशैः समूहैर्वा सह क्रियमाणानां मुक्तव्यापारसहतीनां कृते केन्द्रीयमन्त्रिमण्डलस्य अनुमोदनं प्राप्यते। उभाभ्यां देशाभ्यां स्वकीयां आन्तरिकानुमोदनप्रक्रियां पूर्णां कृत्वा इयं सहमतिः अस्मिन् वर्षस्य अन्ते कार्यान्वितः भविष्यतीति अपेक्षा अस्ति।
भारतं न्यूजीलैण्डश्च २७ एप्रिल् २०२६ दिनाङ्के अस्मिन् व्यापारसम्झौते हस्ताक्षरं कृतवन्तौ। सम्झौतानुसारं न्यूजीलैण्डः भारतस्य शतप्रतिशतनिर्यातानां कृते शुल्कमुक्तप्रवेशं प्रदास्यति। एतेषु वस्त्राणि, परिधानानि, चर्म, पादत्राणानि तथा रत्नाभरणानि इत्यादीनि प्रमुखोत्पादानि सम्मिलितानि सन्ति।
उल्लेखनीयं यत् अस्य सम्झौतस्य कार्यान्वयनेन न्यूजीलैण्डतः भारते आगच्छतां प्रायः पञ्चनवतिप्रतिशतं निर्यातेषु शुल्कं समाप्तं भविष्यति अथवा अत्यल्पं भविष्यति, यदा भारतस्य सर्वेषां वस्तूनां न्यूजीलैण्डस्य विपण्यां शुल्करहितः प्रवेशः भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani