एकः दूरभाषः, त्वरितकार्यवाही च रक्षितं जीवनम्
एकः दूरभाषः, त्वरितकार्यवाही च रक्षितं जीवनम् बांदा, १६ सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य बांदा जनपदे परिजनैः सह रुष्टः भूत्वा आत्महत्यायाः प्रयासं कर्तुं गच्छतः युवकस्य कृते एकः दूरभाषः जीवनरक्षकः सिद्धः अभवत्। डायल् यूपी ११२ मध्ये सूचना प्राप्
पुलिस के साथ युवक


एकः दूरभाषः, त्वरितकार्यवाही च रक्षितं जीवनम्

बांदा, १६ सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य बांदा जनपदे परिजनैः सह रुष्टः भूत्वा आत्महत्यायाः प्रयासं कर्तुं गच्छतः युवकस्य कृते एकः दूरभाषः जीवनरक्षकः सिद्धः अभवत्। डायल् यूपी ११२ मध्ये सूचना प्राप्तमात्रेण मटौंधथानायाः तथा यूपी ११२ इत्यस्य संयुक्तेन पुलिसदलनेन त्वरितकार्यवाही कृत्वा केननदीबाईपाससेतुम् उपगम्य युवकः सकुशलं रक्षितः।

भूरागढचौकीप्रभारी अरविन्दकुमारेण बुधवासरे उक्तं यत् तिन्दवारीथानाक्षेत्रस्य अस्करणग्रामनिवासिना एकेन व्यक्ति विशेषेण १५ सितम्बरस्य रात्रौ विलम्बेन यूपी ११२ मध्ये सूचना प्रदत्ता यत् तस्य पुत्रः गृहजनैः सह रुष्टः भूत्वा मोटरसाइकिलयानेन गृहतः निर्गतः। दूरभाषेण वार्तालापसमये तेन उक्तं यत् सः केननदीसेतुम् आत्महत्यायाः सङ्कल्पेन प्राप्तवान् अस्ति।

सूचना प्राप्तमात्रेण चौकीप्रभारी भूरागढ अरविन्दकुमारः पुलिसदलस्य सह घटनास्थलं प्राप्तवान्। पुलिसदलेन युवकस्य सह धैर्येण संवेदनशीलतया च वार्तालापः कृतः तथा तं सुरक्षितस्थले आनीय सम्यक् प्रबोधितम्। ततः युवकः भूरागढचौक्याम् आनीतः तथा परिजनान् सूचित्वा तत्र आहूताः।

पुलिसदलेन युवकः सकुशलं परिजनानां सुपुर्दे समर्पितः। ‘ऑपरेशन मुस्कान’ इत्यस्य अन्तर्गतं पुलिसदलेन युवकं जीवनस्य महत्त्वं पारिवारिकदायित्वं च प्रति प्रबोधितम्। परिजनानामपि युवकस्य वचनं धैर्यपूर्वकं श्रुत्वा परस्परसंवादेन समस्यासमाधानं कर्तुं आग्रहः कृतः।

पुलिसस्य त्वरितकार्यवाह्या संवेदनशीलतया च युवकस्य सकुशलरक्षणे सति परिजनैः पुलिसदलस्य प्रति कृतज्ञता व्यक्ता।

Hindusthan Samachar / Dheeraj Maithani