विश्वओजोनदिवसे मुख्यमन्त्रिणा माझिना पर्यावरणसंरक्षणस्य प्रतिबद्धता पुनरुक्ता
भुवनेश्वरम्, 16 सितंबरमासः(हि.स.)। विश्वओजोनदिवसे मुख्यमन्त्रिणा माझिना पर्यावरणसंरक्षणस्य प्रतिबद्धता पुनरुक्ता विश्वओजोनदिवसस्य अवसरे ओडिशायाः मुख्यमन्त्री मोहनचरणमाझी ओजोनस्तरस्य संरक्षणाय पर्यावरणस्य सन्तुलनं संरक्षितुं च सामूहिकप्रयासानाम्
Odisha CM Mohan Majhi (File  Photo)


भुवनेश्वरम्, 16 सितंबरमासः(हि.स.)।

विश्वओजोनदिवसे मुख्यमन्त्रिणा माझिना पर्यावरणसंरक्षणस्य प्रतिबद्धता पुनरुक्ता

विश्वओजोनदिवसस्य अवसरे ओडिशायाः मुख्यमन्त्री मोहनचरणमाझी ओजोनस्तरस्य संरक्षणाय पर्यावरणस्य सन्तुलनं संरक्षितुं च सामूहिकप्रयासानाम् आह्वानं कृतवान्।

मुख्यमन्त्री सामाजिकमाध्यमे प्रकाशिते स्वसन्देशे उक्तवान् यत् विश्वओजोनदिवसः ओजोनस्तरस्य रक्षणाय पर्यावरणस्य सुकुमारं सन्तुलनं संरक्षितुं च स्वप्रतिबद्धतां पुनरुच्चारयितुम् अवसरं प्रददाति।

सः उक्तवान् यत् ओडिशाराज्यं सततविकासस्य प्रोत्साहनाय, पर्यावरणसंरक्षणस्य सुदृढीकरणाय तथा आगामिनां संततीनां कृते हरितं स्वस्थं च भविष्यं निर्मातुं प्रतिबद्धम् अस्ति।

मुख्यमन्त्री जनान् उत्तरदायित्वपूर्णान् विकल्पान् स्वीकर्तुं तथा स्वच्छहरितपर्यावरणस्य निर्माणे योगदानं दातुम् आह्वयत्। सः उक्तवान् यत् सामूहिकप्रयत्नैः स्वच्छस्य, हरितस्य, समृद्धस्य च ओडिशाराज्यस्य लक्ष्यं अग्रे नेतुं शक्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani