Enter your Email Address to subscribe to our newsletters

कानपुरम्, १६ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्म-दिवसस्य जनसेवायाः च २५ वर्षाणि पूर्णतायाः अवसरे कानपुरे ७६ सहस्रदीपाः प्रज्वाल्य तस्मै शुभकामनाः प्रदास्यन्ते। अस्य सम्बन्धे बुधवासरे सूचनां दत्त्वा सांसदः रमेश अवस्थी अवदत् यत् मोतीझीले आयोज्यमानः दीपोत्सव-कार्यक्रमः नगरवासिभिः प्रधानमन्त्रिणे प्रदीयमानस्य सम्मानस्य, शुभकामनानां, आशीर्वादस्य च प्रतीकः भविष्यति।
सांसदः रमेश अवस्थी अवदत् यत् १७ सेप्टेम्बरे मोतीझीलमैदाने आयोज्यमानस्य कार्यक्रमस्य शुभारम्भः अपराह्णे द्विवादने निःशुल्क-स्वास्थ्यशिबिरेण भविष्यति। शिबिरम् सायं षड्वादनपर्यन्तं चलिष्यति। तत्र जनानां स्वास्थ्यपरीक्षणेन सह चिकित्सकीयपरामर्शस्य सुविधा अपि उपलब्धा भविष्यति। सायं सप्तवादने प्रांगणे ७६ सहस्रदीपाः एकस्मिन् समये प्रज्वालयिष्यन्ते। आयोजकानुसारं दीपानां प्रकाशेन सम्पूर्णं मोतीझील-परिसरं प्रकाशमयं भविष्यति।
दीपप्रज्वलनानन्तरं रात्रौ अष्टवादने ड्रोन-प्रदर्शनम् आयोजितं भविष्यति। ड्रोन-माध्यमेन आकाशे विविधाः आकर्षकाः आकृतयः प्रदर्शयिष्यन्ते। कार्यक्रमस्थले जनानां कृते स्वचित्रग्रहणकेन्द्राणि अपि निर्मास्यन्ते। तदतिरिक्तं प्रधानमन्त्रिणः नरेन्द्रमोदिनः जीवनस्य, नेतृत्वस्य, राष्ट्रसेवायाः यात्रायाश्च आधारेण सांस्कृतिकप्रस्तुतयः आयोजिताः भविष्यन्ति।
सांसदः रमेश अवस्थी स्वनिवासे ‘एकः दीपः आशीर्वादस्य’ इति दीपं प्रज्वालयिष्यति। अयं दीपः एकमासपर्यन्तं ‘सेवाज्योतिः’ इति रूपेण प्रज्वलितः स्थास्यति। आयोज-कानुसारम् एषः सेवायाः, समर्पणस्य, राष्ट्रनिर्माणस्य च सङ्कल्पस्य प्रतीकरूपेण स्थापितः भविष्यति।
सांसदः अवदत् यत् प्रधानमन्त्रिणः जन्मदिवसस्य अवसरे आयोजितः अयं दीपोत्सवः तस्य सेवायाः राष्ट्रनिर्माणस्य च सङ्कल्पाय नमनस्य प्रयासः अस्ति। मोतीझीले प्रज्वल्यमानाः ७६ सहस्रदीपाः कानपुरवासिनां पक्षतः प्रधानमन्त्रिणे सम्मानं शुभकामनाश्च प्रकटयिष्यन्ति। आयोजने स्वास्थ्यशिबिरं, दीपप्रज्वलनं, सांस्कृतिककार्यक्रमाः, ड्रोन-प्रदर्शनं च प्रमुखानि आकर्षणानि भविष्यन्ति।
Hindusthan Samachar / Divya Ranjan