पोखरण-प्रक्षेपणक्षेत्रे वायुसेनायाः ‘ड्रोनथॉन’-कार्यक्रमेण प्रदर्शिता स्वदेशीय-सञ्चालनक्षमता
– वायुसेनायै भारतदेशे विकसितानां नवीनप्रौद्योगिकीनां समाधानानां च उत्तमं ज्ञानं प्राप्तम् नवदिल्ली, १६ सेप्टेम्बरमासः (हि.स.)। स्वदेशीयोद्योगस्य अनियन्त्रित-विमान-प्रणालीषु प्रतिरोधक-अनियन्त्रित-विमान-प्रणालीषु च स्वक्षमतां प्रगतिं च प्रदर्शयितुं
जैसलमेर के पोखरण रेंज में वायु सेना का 'ड्रोनथॉन'


– वायुसेनायै भारतदेशे विकसितानां नवीनप्रौद्योगिकीनां समाधानानां च उत्तमं ज्ञानं प्राप्तम्

नवदिल्ली, १६ सेप्टेम्बरमासः (हि.स.)। स्वदेशीयोद्योगस्य अनियन्त्रित-विमान-प्रणालीषु प्रतिरोधक-अनियन्त्रित-विमान-प्रणालीषु च स्वक्षमतां प्रगतिं च प्रदर्शयितुं भारतीयवायुसेनायाः ‘आईएएफ ड्रोनथॉन’ इति कार्यक्रमः बुधवासरे जैसलमेरस्य पोखरण-प्रक्षेपणक्षेत्रे सम्पन्नः। नवीनानां ड्रोन-प्रतिरोधक-ड्रोन-प्रौद्योगिकीनां तासां च सञ्चालनक्षमतायाः अवलोकनाय तथा परस्पर-अधिगमं प्रोत्साहयितुं आयोजितेन अस्य कार्यक्रमेण प्रौद्योगिकीनां सञ्चालनक्षमतायां परिवर्तनं कथं कर्तुं शक्यते इति प्रदर्शितम्।

अस्मिन् कार्यक्रमे स्थिरप्रदर्शनानि प्रत्यक्षप्रदर्शनानि च समाविष्टानि आसन्, येन वर्तमानसमाधानानां परिचयं तथा युद्धक्षेत्रे तेषां प्रभावकारितायाः मूल्याङ्कनं कर्तुं सहायता भविष्यति। अस्मिन् निगराणी-पुनरवलोकनयोः, स्वायत्त-सञ्चालनस्य, समूह-प्रौद्योगिक्याः तथा विद्युतीययुद्धस्य क्षेत्रेषु विशेषं ध्यानं दत्तम्। ‘आत्मनिर्भरभारत’ इति राष्ट्रियदृष्टेः अनुरूपं ‘ड्रोनथॉन-२०२६’ कार्यक्रमस्य उद्देश्यं उद्योगविशेषज्ञैः, नवोद्यामैः नवोन्मेषकैश्च सहकार्यं स्थापयित्वा स्वदेशीय-रक्षापारिस्थितिकीतन्त्रं सुदृढं कर्तुम् आसीत्, येन वायुसेना प्रौद्योगिकीदृष्ट्या उन्नतां, स्वदेशीयां भविष्यत्सज्जां च सेनां निर्मातुं विद्यमानानां समस्यानां समक्षं कर्तुं शक्नुयात्।

भारतीयवायुसेना शीघ्रं परिवर्तमानस्य सञ्चालनपरिवेशस्य सुरक्षा-समस्यानां सम्मुखीभवति। अतः ‘ड्रोनथॉन’ भविष्ये उद्योगान्, नवोद्यामान्, प्रौद्योगिकी-विकासकांश्च एकत्र आनयिष्यति, येन ते अनियन्त्रितेषु प्रतिरोधक-अनियन्त्रितेषु च प्रणालिषु स्वक्षमतां प्रदर्शयितुं शक्नुयुः। त्रिदिवसीये अस्मिन् कार्यक्रमे वायुसेनया निरीक्षण-पुनरवलोकनयोः, स्वायत्तसञ्चालनस्य, समूह-प्रौद्योगिक्याः तथा विद्युतीययुद्धस्य प्रयोगेषु प्रदर्शनस्य मूल्याङ्कनं कृतम्। ‘ड्रोनथॉन’ कार्यक्रमः अनियन्त्रित-प्रणालीषु क्षमताविकासं त्वरितुं वायु-सेनायाः उद्योगसहभागितायां वर्धमानां निर्भरतां दर्शयति।

महानिदेशकः (शस्त्रप्रणाल्यः) एयर मार्शल प्रेमकुमारः कृष्णस्वामी अवदत् यत् ‘ड्रोनथॉन-२०२६’ केवलं प्रौद्योगिकीप्रदर्शनं नास्ति, अपितु भारतीयवायुसेनायाः उद्योगैः, नवोद्यामैः नवोन्मेषकैश्च प्रत्यक्षसम्पर्क-स्थापनस्य प्रयासः अस्ति, येन ज्ञातुं शक्यते यत् ते किं विकसितवन्तः। सर्वाधिकं महत्त्वपूर्णं तु एतत् ज्ञातुं यत् एते मञ्चाः वास्तविकेषु सञ्चालनपरिस्थितिषु कथं कार्यं कुर्वन्ति। सः अवदत् यत् अस्मिन् कार्यक्रमे प्रसिद्धाः रक्षानिर्माण्य:, लघूद्योगाः, नवोद्यामाः नवोन्मेषकाश्च एकत्र आगताः, येन ते वास्तविकेषु सञ्चालनपरिस्थितिषु स्व-प्रणालीनां क्षमतां प्रदर्शयितुं अवसरं प्राप्तवन्तः।

सः अवदत् यत् ‘ड्रोनथॉन’ माध्यमेन उद्योगाय सञ्चालनचुनौतीनां विषये अधिकं स्पष्टं ज्ञानं प्राप्तम्, वायुसेनायै च भारतदेशे विकसितानां नवीनप्रौद्योगिकीनां समा-धानानां च उत्तमं ज्ञानं प्राप्तम्। अनेन स्पष्टं जातं यत् अस्माभिः अधिकं नवोन्मेषपूर्णं, आत्मनिर्भरं, प्रौद्योगिकीदृष्ट्या उन्नतं तथा भारतस्य सञ्चालनावश्यकतानाम् अनुरूपं प्रभावशालि अनियन्त्रित-विमान-पारिस्थितिकीतन्त्रम् आवश्यकम् अस्ति। भारतीयवायुसेना उद्योगैः, नवोद्यामैः नवोन्मेषकैश्च सह मिलित्वा कार्यं कर्तुं उत्सुका अस्ति, येन उत्तमविचारान् भारतीयसशस्त्रबलानां कृते विश्वसनीयासु सञ्चालनक्षमतासु परिणमयितुं शक्यते।

Hindusthan Samachar / Divya Ranjan