शिक्षायाः उद्देश्यं केवलं जीविकानिर्माणं नास्ति - डॉ. भागवतः
नवदिल्ली, १६ सेप्टेम्बरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसङ्घस्य सरसङ्घ-चालकः डॉ. मोहनभागवतः मङ्गलवासरे अवदत् यत् शिक्षायाः उद्देश्यः केवलं जीविकानिर्माणं नास्ति। शिक्षायाः वास्तविकम् उद्देश्यं मनुष्यनिर्माणम् अस्ति। मनुष्यनिर्माणेन एव राष्ट्रनिर्माण
डॉ. भागवत आई.आई.एल.एम. विश्वविद्यालय एवं बेनयान ट्री विद्यालय के संयुक्त तत्वाधान में आयोजित संवाद कार्यक्रम में


नवदिल्ली, १६ सेप्टेम्बरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसङ्घस्य सरसङ्घ-चालकः डॉ. मोहनभागवतः मङ्गलवासरे अवदत् यत् शिक्षायाः उद्देश्यः केवलं जीविकानिर्माणं नास्ति। शिक्षायाः वास्तविकम् उद्देश्यं मनुष्यनिर्माणम् अस्ति। मनुष्यनिर्माणेन एव राष्ट्रनिर्माणं सम्भवति। भारतस्य बहवः सन्तः नियमितशिक्षां न प्राप्तवन्तः, तथापि ते समाजस्य नेतृत्वं कृतवन्तः। तेषां मानवीयता अत्युच्चस्तरीया आसीत्। अतः आधुनिकशिक्षया सह मानवतायाः गुणानां वर्धनं कुर्वत्याः शिक्षायाः अपि आवश्यकता अस्ति।

डॉ. भागवतः आई.आई.एल.एम.-विश्वविद्यालयस्य बेनयान-ट्री-विद्यालयस्य च संयुक्ततत्त्वावधाने आयोजिते संवाद-कार्यक्रमे दशमकक्षातः स्नातकोत्तरपर्यन्तं विद्यार्थिभिः सह संवादं कृत्वा तेषां प्रश्नानाम् उत्तराणि दत्तवान्। उदाहरणं प्रददन् सः अवदत् यत् अधुना एव ‘हनुमान-अंशः’ इति चलचित्रम् आगतम्। अस्मिन् चलचित्रे ‘नीबकरौरीबाबा’ इत्यस्य उल्लेखः अस्ति। ‘स्टीव जॉब्स्’ अपि तेन सह मिलितुम् आगतवान् आसीत्। स्वामीविवेकानन्दस्य गुरोः रामकृष्ण-परमहंसस्य अपि विद्यालयीयशिक्षा न अभवत्।

शिक्षकान् विद्यार्थिनश्च सम्बोधयन् सरसङ्घचालकः अवदत् यत् तस्य व्यक्तिगतः अनुभवः अस्ति यत् नूतनवंश: पुरातनवंशस्य अपेक्षया अधिका सत्यता अस्ति तथा तेषु स्वाभाविकरूपेण अधिकं साहसम् अस्ति। प्रतिभापलायनस्य विषये विद्यार्थिनः आह्वयन् सः अवदत् यत् विदेशेषु भवद्भ्यः सर्वं प्राप्स्यते, किन्तु भवतां परिचयः स्वदेशेन सह सम्बद्धः अस्ति। भवद्भ्यः स्वदेशात् बहु किमपि प्राप्तम् अस्ति। भारतस्य अन्नजलेन अस्माकं शरीरं निर्मितम् अस्ति। शरीरस्य यावती आवश्यकता अस्ति तावदेव स्वार्थाय धारयन्तु, शेषं समाजाय देशाय च समर्पयन्तु।

सः अवदत् यत् भारतस्य उद्देश्यं विश्वस्य सैन्यशक्तिसम्पन्ना आर्थिकशक्तिसम्पन्ना वा महाशक्तिः भवितुं नास्ति। भारतं विश्वगुरोः सिंहासने पुनः प्रतिष्ठापनीयम् अस्ति। भारतस्य परिचयः ‘मनुष्यता-ज्ञानम्’ इत्यनेन अस्ति।

कार्यक्रमस्य प्रस्तावनाम् आई.आई.-एल.एम.-विश्वविद्यालयस्य अध्यक्षः अनिलरायः प्रस्तुतवान्।

Hindusthan Samachar / Divya Ranjan