Enter your Email Address to subscribe to our newsletters

रायपुरम्, १६ सितम्बरमासः (हि.स.)। छत्तीसगढस्य मन्त्रिमण्डलस्य मन्त्री वरिष्ठभाजपानेता च केदारकश्यपः बुधवासरे उक्तवान् यत् भारतीयजनतापक्षस्य कृते राजनीतिः केवलं सत्ताप्राप्तेः साधनं न, अपितु समाजस्य राष्ट्रस्य च सेवायाः सङ्कल्पः अस्ति। प्रधानमन्त्री नरेन्द्रमोदिनः जन्मदिवसात् १७ सितम्बरतः १७ अक्टोबरपर्यन्तम् आयोजितं ‘सेवासङ्कल्पाभियानम्’ एतमेव सेवाभावं जनजनं प्रति प्रापयितुं प्रयत्नः अस्ति।
सः उक्तवान् यत् अभियानस्य अवधौ प्रदेशस्य सर्वत्र भाजपाकार्यकर्तारः रक्तदानशिबिराणि, स्वास्थ्यशिबिराणि, स्वच्छताभियानानि, वृक्षारोपणकार्यक्रमान् तथा आवश्यकताग्रस्तजनानां सेवासम्बद्धान् कार्यक्रमांश्च आयोजयिष्यन्ति। एताभिः गतिविधिभिः सेवा, स्वच्छता, पर्यावरणसंरक्षणं जनकल्याणं च व्यापकजनसहभागितया सम्बद्धं करिष्यते।
केदारकश्यपः उक्तवान् यत् बस्तरक्षेत्रे अस्य अभियानस्य विशेषप्राथम्यता भविष्यति। दूरस्थेषु वनक्षेत्रेषु जनजातीयक्षेत्रेषु च स्वास्थ्यस्य, स्वच्छतायाः, पर्यावरणसंरक्षणस्य तथा जनकल्याणस्य सम्बन्धिनः कार्यक्रमाः आयोजिताः भविष्यन्ति। तेषु स्थानीयसमाजस्य सक्रियसहभागितां सुनिश्चितुं प्रयत्नः क्रियते।
सः उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे मुख्यमन्त्रिणः विष्णुदेवसायस्य मार्गदर्शने च बस्तरक्षेत्रं शान्तेः विश्वासस्य विकासस्य च नूतनां दिशाम् अभिमुखं अग्रे गच्छति। मार्गाणां, शिक्षायाः, स्वास्थ्यस्य अन्यासां च आधारभूतसुविधानां विस्तारः अन्तिमग्रामपर्यन्तं क्रियते तथा केन्द्रसर्वकारस्य राज्यसर्वकारस्य च जनकल्याणकारीयोजनानां लाभः पात्रहितग्राहिभ्यः प्रदीयते।
केदारकश्यपः भाजपाकार्यकर्तॄन् सामान्यनागरिकांश्च १७ सितम्बरतः १७ अक्टोबरपर्यन्तं चलिष्यमाणे सेवासङ्कल्पाभियाने अधिकाधिकं सहभागं कर्तुम् आह्वयन् उक्तवान् यत् सेवां, स्वच्छतां सामाजिकदायित्वानि च जनान्दोलनस्य स्वरूपं प्रदातुं विकसितभारतस्य, विकसितछत्तीसगढस्य विकसितबस्तरस्य च दिशि महत्त्वपूर्णं पदं भविष्यति।
Hindusthan Samachar / Dheeraj Maithani