Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १६ सेप्टेम्बरमासः (हि.स.)। दिल्लीसर्वकारस्य ऊर्जामन्त्री आशीषसूदः बुधवासरे सौर-विक्रेतॄन् सम्बन्धितहित-धारकांश्च आहूतवान् यत् ते दिल्ली-सर्वकारेण सह मिलित्वा राष्ट्रराजधानीं देशस्य ‘सौरराजधानीं’ कर्तुं निर्धारिते लक्ष्ये सहभागीभवन्तु। सः ‘प्रधानमन्त्री-सूर्यगृह-मुफ्तविद्युत्-योजना’ इत्यस्य सम्बन्धे आयोजितायां सौर-विक्रेतॄणां सभायां सम्बोधनं कुर्वन् दिल्लीप्रदेशे सौरशक्तेः द्रुतप्रोत्साहनाय व्यापकस्य कार्यमार्गस्य रूपरेखां प्रस्तुतवान्।
मन्त्री सूदः अवदत् यत् वयं दिल्लीं भारतस्य ‘सौरराजधानीं’ कर्तुम् इच्छामः। प्रधानमन्त्री नरेन्द्रमोदी येन परिमाणेन वेगेन च कार्यं करोति, वयमपि तस्य अनुयायिनः स्मः तथा तेनैव वेगेन कार्यं कर्तुं प्रयतिष्यामहे। वयं एतां परियोजनां अधिकेन वेगेन बृहत्तरपरिमाणेन च अग्रे नेष्यामः।
ऊर्जामन्त्री सौर-विक्रेतॄन् उपभोक्तॄंश्च आश्वासितवान् यत् सौरशक्तेः स्वीकरण-प्रक्रियायां आगच्छन्तीनां पारम्परिकाणां बाधानां निवारणाय तथा उपभोक्तृभ्यः व्यवसायेभ्यश्च प्रक्रियां अधिकं सरलं सुगमं च कर्तुं दिल्लीसर्वकारः प्रतिबद्धः अस्ति। सः अवदत् यत् उपभोक्तारः अपि अग्रिमधनराशेः भुक्तौ संकोचं कुर्वन्ति। अतः सर्वकारेण भवतां उपभोक्तॄणां च मध्ये विद्यमाना एषा बाधा दूरीकृता अस्ति। वयं सम्पूर्णां धनराशिं दास्यामः। सर्वकारः अस्य दायित्वं स्वीकरोति।
सूदः अवदत् यत् योजनायाः पारदर्शिनः प्रभाविणश्च कार्यान्वयनाय दिल्ली-सर्वकारस्य ऊर्जाविभागेन समर्पितं पञ्जीकरण-पटलं प्रारब्धम् अस्ति। सः सौर-विक्रेतृभ्यः आह्वानं कृतवान् यत् ते योजनायाः कार्यान्वयनं अधिकं पारदर्शि, सुगमं द्रुततरं च कर्तुं स्वविचारान् रचनात्मकान् प्रतिपुष्टिं च सर्वकारेण सह साझां कुर्वन्तु। सः अवदत् यत् यदि भवतां समीपे अस्याः परियोजनायाः उत्तमतया, अधिकसुगमतया अधिकवेगेन च कार्यान्वयनाय कश्चित् विचारः अस्ति, तर्हि तस्य स्वागतं भवति।
सौरशक्तेः विस्तारस्य लक्ष्यं रेखाङ्कयन् सूदः अवदत् यत् दिल्लीसर्वकारः अग्रिमेषु मासेषु प्रायः २.३० लक्षं सौ-रपटलस्थापनानि सुगमानि कर्तुं दिशि कार्यं कुर्वन् अस्ति। सः अवदत् यत् अग्रिमेषु षट्सु मासेषु अस्याः योजनायाः अन्तर्गतं प्रायः २,६०० तः २,७०० कोटिरूप्यकाणां निवेशस्य व्ययस्य वा अनुमानम् अस्ति। सः अवदत् यत् दिल्लीप्रदेशे सौरशक्तेः बृहद्परिमाणेन विस्तारात् न केवलं स्वच्छायाः हरितायाश्च ऊर्जायाः प्रोत्साहनं भविष्यति, अपि तु दिल्लीस्य अर्थ-व्यवस्थायाः गतिः वर्धिष्यते, स्थानीयस्तरे रोजगारस्य अवसराः सृजिष्यन्ते, सततविकासश्च प्रोत्साह्यते।
Hindusthan Samachar / Divya Ranjan