Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १६ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः ७६तमस्य जन्मदिवसस्य तथा तस्य सार्वजनिक-जीवनस्य २५ वर्षाणां पूर्तेः अवसरं प्रति भारतीयजनतापक्षस्य पक्षतः ‘सेवा-सङ्कल्पाभियानस्य’ अन्तर्गतं वडनगरतः वाराणसीपर्यन्तं तथा वाराणसीतः वडनगरपर्यन्तं बाइकयात्रयोः आयोजनं क्रियते। उभे यात्रे १७ सेप्टेम्बरमासस्य प्रातः ९:३० वादने एकस्मिन् समये प्रारभेते तथा ७ अक्तूबर-दिने तयोः समापनं प्रस्तावितम् अस्ति।
भारतीयजनतापक्षस्य अनुसारम् अस्य अभियानस्य अन्तर्गतं प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मभूमिरूपेण वडनगरं तथा कर्मभूमिरूपेण वाराणसीं संयोज्य उभयोः दिशयोः यात्रे आयोज्येते। आयोजकानाम् अनुसारम् अस्य उद्देश्यम् युवानः सेवया, सामाजिकदायित्वेन राष्ट्रनिर्माणेन च सह संयोजयितुम् अस्ति।
यात्रया सम्बद्धानां उपलब्धविवरणानाम् अनुसारम् अस्यां यात्रायां प्रायः १,००० युवानः सम्मिलिताः भविष्यन्ति। उभयोः दिशयोः सञ्चरन्त्यौ यात्रे प्रायः १० राज्येषु स्थितानां १९३ जनपदानां १,१५९ ग्रामाणां च मार्गेण गमिष्यतः। अस्मिन् क्रमे बाइकयात्रिकैः प्रायः ४० सहस्रं किलोमीटर-दूरता परिक्रमिष्यते इति सूचना प्राप्ता अस्ति।
यात्रायाः अवधौ सामाजिकसेवासम्बद्धाः कार्यक्रमाः अपि प्रस्ताविताः सन्ति। तेषु वृक्षारोपणम्, स्वच्छता, जलसंरक्षणम्, नशामुक्तिः तथा क्षयरोगमुक्तभारतं च इत्येतेषु विषयेषु जनजागरूकताकार्यक्रमाः सम्मिलिताः सन्ति।
वडनगरतः वाराणसीं प्रति गच्छन्त्याः यात्रायाः शुभारम्भकार्यक्रमे केन्द्रीय-गृहमन्त्री अमितशाहः, गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलः, भाजपायाः प्रदेशाध्यक्षः जगदीशविश्वकर्मा, गुजरातस्य उपमुख्यमन्त्री हर्षसङ्घवी, महाराष्ट्रस्य उपमुख्यमन्त्री एकनाथशिन्दे तथा केन्द्रीयमन्त्री अनुप्रियापटेलः इत्यादयः अनेके वरिष्ठनेतारः उपस्थिताः भविष्यन्ति।
तथैव वाराणसीतः वडनगरं प्रति गच्छन्त्याः यात्रायाः शुभारम्भकार्यक्रमे रक्षामन्त्री राजनाथसिंहः तथा उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः इत्यादयः अन्ये वरिष्ठनेतारः उपस्थिताः भविष्यन्ति।
अस्याः यात्रायाः विशेषता एषा अस्ति यत् उभे यात्रे एकस्मिन् दिने विपरीतदिशाभ्यां प्रारभेते। एका यात्रा वडनगरतः वाराणसीं प्रति, अन्यतमा च वाराणसीतः वडनगरं प्रति गमिष्यति। एवं अभियानस्य माध्यमेन प्रधानमन्त्रिणः मोदिनः सम्बद्धौ प्रमुखौ स्थानौ प्रतीकात्मकरूपेण संयोज्येते।
यात्रायाः अवधौ विभिन्नेषु क्षेत्रेषु सेवया जनसहभागितया च सम्बद्धाः कार्यक्रमाः आयोजयितुं योजना अस्ति। आयोजकानाम् अनुसारम् अभियानस्य माध्यमेन प्रधानमन्त्रिणः मोदिनः सार्वजनिक-जीवनस्य २५ वर्षैः सम्बद्धं सेवा-राष्ट्रनिर्माणयोः सन्देशं युवभ्यः प्रापयितुं प्रयासः क्रियते।
Hindusthan Samachar / Divya Ranjan