Enter your Email Address to subscribe to our newsletters

कानपुरम्, 16 सितंबरमासः (हि.स.)।
सेवायाः भावनां समाजस्य प्रत्येकवर्गपर्यन्तं प्रापयितुं जनसेवाकार्याणां च व्यापकं स्वरूपं प्रदातुम् उद्दिश्य सितम्बरमासस्य सप्तदशदिनाङ्कात् अक्टूबरमासस्य सप्तदशदिनाङ्कपर्यन्तं सेवासङ्कल्पाभियानं सञ्चालयिष्यते। अभियानस्य सर्वान् कार्यक्रमान् मतदानकेन्द्रस्तरपर्यन्तं प्रभाविरूपेण प्रापयित्वा अधिकाधिकजनसहभागिता सुनिश्चितं क्रियताम्। इति भाजपा-कानपुरबुन्देलखण्डक्षेत्रस्य अध्यक्षः रामकिशोरसाहू बुधवासरे क्षेत्रीयमुख्यालये अभियानस्य सज्जतां प्रति आयोजितायां सभायां उक्तवान्।
सः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः जन्मदिवसात् सितम्बरमासस्य सप्तदशदिनाङ्कात् क्षेत्रस्य सर्वेषु सप्तदशसु जनपदेषु अभियानस्य प्रारम्भः भविष्यति। अस्य अन्तर्गतं सेवा, जनसम्पर्कः, जनसहभागिता च सम्बद्धाः त्रयोदश प्रमुखकार्यक्रमाः आयोजयिष्यन्ते। प्रधानमन्त्रिणः सार्वजनिकजीवने पञ्चविंशतिवर्षाणि पूर्णानि इत्यस्य अवसरे सम्पूर्णदेशे अभियानम् आयोज्यते।
रामकिशोरसाहूः अवदत् यत् सितम्बरमासस्य सप्तदशदिनाङ्के सायं षड्वादनात् सप्तवादनपर्यन्तं क्षेत्रस्य सर्वेषु सप्तदशसु जनपदेषु प्रत्येकस्मिन् मतदानकेन्द्रे ‘आशीर्वादस्य दीपः’ प्रज्वालयिष्यते। कार्यकर्तारः प्रधानमन्त्रिणः दीर्घायुः स्वस्थजीवनं च कामयित्वा सेवायाः राष्ट्रनिर्माणस्य च सङ्कल्पं जनजनपर्यन्तं प्रापयिष्यन्ति।
तेन क्षेत्रीयपदाधिकारिभ्यः स्वस्वप्रवासिजनपदेषु प्रवासं कृत्वा कार्यक्रमाणां निरीक्षणं कर्तुं तथा मण्डलस्तरात् शक्तिकेन्द्रस्तरं मतदानकेन्द्रस्तरं च यावत् अभियानं प्रभाविरूपेण सञ्चालयितुं निर्देशाः प्रदत्ताः। अभियाने सांसदाः, विधायकाः, महापौराः, जिलापञ्चायताध्यक्षाः, खण्डप्रमुखाः, नगरपालिकाध्यक्षाः, नगरपञ्चायताध्यक्षाः, पार्षदः, दलस्य पदाधिकारिणश्च सक्रियभूमिकां निर्वक्ष्यन्ति।
सभायां अभियानस्य रूपरेखा, मतदानकेन्द्रस्तरे सङ्गठनस्य सहभागिता, जनसम्पर्कस्य कार्ययोजना च विषये चर्चा अभवत्। क्षेत्रीयाध्यक्षः अवदत् यत् अभियानस्य उद्देश्यं केवलं कार्यक्रमानाम् आयोजनं नास्ति, अपितु सेवाभावनां समाजस्य अन्तिमजनपर्यन्तं प्रापयितुम् अस्ति।
सभायाः सञ्चालनं क्षेत्रीयमहामन्त्री आनन्दसिंहेन कृतम्। अस्मिन् अवसरे क्षेत्रीयमहामन्त्रिणौ शिवसिंहभारती, राजेशपटेलः, आदित्यत्रिवेदी, भुवनप्रकाशगुप्तः, पवनप्रतापसिंहः, अमितसमाधिया, वीरेन्द्रतिवारी, हर्षद्विवेदी, मयङ्कभट्टः इत्यादयः सेवासङ्कल्पाभियानस्य क्षेत्रीयदलस्य सदस्याः पदाधिकारिणश्च उपस्थिताः आसन्। एतत् वृत्तं क्षेत्रीयमीडियाप्रभारी अनूपअवस्थी इत्यनेन प्रदत्तम्।
Hindusthan Samachar / Dheeraj Maithani