Enter your Email Address to subscribe to our newsletters


बृहतां राष्ट्रियहितानां प्राथमिकतां दत्त्वा करनीतिविषये चर्चा भवितव्या : सीतारमणः
आईटीआरएएफतः करसम्बद्धानुसन्धानं नीतिनिर्माणेन सह संयोजयितुम् आह्वानम्
नवदिल्ली बेंगलूरुः च, १६ सितम्बरमासः (हि.स.)। केन्द्रीयवित्तमन्त्री निर्मला सीतारमणः बुधवासरे अवदत् यत् करनीतिविषये चर्चा लघुक्षेत्रस्य विषयान् अतिक्रम्य बृहत्तरस्य राष्ट्रियहितस्य प्राथमिकतां दद्यात्।
सा बेंगलूरुनगरे आयोजिते ‘इण्टरनेशनल् टैक्स् रिसर्च् एण्ड् एनालिसिस् फाउण्डेशन’ (आईटीआरएएफ) द्वारा ‘न्यू एज टैक्सेशन’ इति विषये आयोजिते अष्टमे अन्तर्राष्ट्रीयकरसम्मेलने सम्बोधनं कुर्वती अवदत् यत् प्रस्तावेषु पृथक् पृथक् रेट् कट् अर्थात् छूट् इत्यस्य स्थाने दीर्घकालीनविकासस्य लक्ष्येषु ध्यानं दातव्यम्। मन्त्रिणा शिक्षाविद्भ्यः, शोधकर्तृभ्यः, थिङ्क् ट्याङ्क् इत्येभ्यश्च उक्तं यत् ते स्वतन्त्रकरनीतिशोधनं सार्वजनिकचर्चायाः नियमितभागं कुर्वन्तु, येन तस्य परीक्षणं कर्तुं, प्रश्नान् कर्तुं तत्र सुधारं च कर्तुं शक्येत।
केन्द्रीयमन्त्री अवदत् यत् करनीतिविषये स्वतन्त्रं शोधं सार्वजनिकविमर्शस्य भागः भवितव्यम्। वित्तमन्त्री अवदत् यत् करव्यावसायिकाः क्षेत्रीयहितेभ्यः उपरि उत्थाय राष्ट्रियहितस्य प्राथमिकतां दद्युः। सीतारमणः अवदत् यत् भारते कराधानस्य क्षेत्रे उच्चस्तरीयाः व्यावसायिकाः विशेषज्ञाश्च सन्ति, किन्तु तेषां विशेषज्ञतां एकत्र आनयित्वा नीतिविकल्पेषु योगदानं दातुं सुदृढस्य संस्थागतस्य मञ्चस्य आवश्यकता अस्ति।
सीतारमणः आईटीआरएएफतः स्वतन्त्रकरनीतिशोधनं अधिकप्रमुखतया पुरतः आनेतुं तथा तत् नीतिनिर्माणेन सार्वजनिकविमर्शेन च प्रत्यक्षतया संयोजयितुं आग्रहं कृतवती। सा बलपूर्वकं उक्तवती यत् सर्वकाराय दीयमानेषु करसम्बद्धेषु प्रस्तावेषु प्रतिशतं कर्तनं, शैथिल्यं वा याचितुं स्थाने देशहितं सर्वोपरी स्थापनीयम्।
वित्तमन्त्री स्वस्य मन्त्रालयस्य बजट् पूर्वचर्चानां विषये कथयन्ती अवदत् यत् एताभिः चर्चाभिः एतादृशाः बृहत्प्रश्नाः उद्भवेयुः यत् ‘विकसितभारत २०४७’ इति लक्ष्यं प्रति अग्रे गच्छतः भारतस्य कृते आगामीषु द्विदशकेषु कीदृशी करनीतिः भवितव्या। सा उत्तमकरशोधनस्य विषये बलं दत्त्वती अवदत् यत् तत् सर्वान् पक्षान् विचारयेत्। तत्सह तस्य प्रभावं मापयेत्, ट्रेड् आफ् अर्थात् लाभहान्योः मध्ये सन्तुलनं ज्ञातुं शक्नुयात्, राजकोषे भवतः प्रत्येकस्य राजस्वहानस्य कृते व्यावहारिकविकल्पान् सूचयेत् तथा सर्वकाराय तादृशान् विकल्पान् निर्मातुं साहाय्यं कुर्यात्, येन उत्तमकरनीतिः निर्मातुं शक्येत।
Hindusthan Samachar / Dheeraj Maithani