नेट्-जीरो तथा जलवायुमिशन इत्यस्य निरीक्षणाय द्वे अङ्कीयमञ्चे प्रारब्धे
नवदिल्ली, 16 सितंबरमासः (हि.स.)। विश्व-ओजोन-दिवसस्य अवसरे बुधवासरे केन्द्रीयपर्यावरणवनजलवायुपरिवर्तनराज्यमन्त्री कीर्तिवर्धनसिंहेन नेट्-जीरो पोर्टल् तथा राष्ट्रियजलवायुपरिवर्तनकार्ययोजनायाः (एनएपीसीसी) डैशबोर्ड् इत्येतौ प्रारब्धौ। उभयोः अङ्कीयमञ्
नेट जीरो पोर्टल


नवदिल्ली, 16 सितंबरमासः (हि.स.)।

विश्व-ओजोन-दिवसस्य अवसरे बुधवासरे केन्द्रीयपर्यावरणवनजलवायुपरिवर्तनराज्यमन्त्री कीर्तिवर्धनसिंहेन नेट्-जीरो पोर्टल् तथा राष्ट्रियजलवायुपरिवर्तनकार्ययोजनायाः (एनएपीसीसी) डैशबोर्ड् इत्येतौ प्रारब्धौ। उभयोः अङ्कीयमञ्चयोः उद्देश्यम् स्वैच्छिक-नेट्-जीरो-प्रयासानां प्रोत्साहनं तथा देशे प्रचलितानां जलवायुमिशनानां प्रगतेः निरीक्षणं सुदृढं कर्तुम् अस्ति।

नेट्-जीरोपटलं विभिन्नेषु क्षेत्रेषु कार्यं कुर्वतीभ्यः भारतीयसंस्थाभ्यः स्वैच्छिक-नेट्-जीरो-लक्ष्याणि पञ्जीकर्तुं तेषां प्रगतिं च सार्वजनिकं कर्तुं साझा-अङ्कीयमञ्चं प्रदास्यति। अस्मिन् संस्थाः स्वकीयानां हरितगृहवायूनाम् उत्सर्जनस्य, नेट्-जीरो-लक्ष्यस्य तथा प्रतिवर्षस्य प्रगतेः विवरणं दातुं शक्नुवन्ति। पोर्टले स्कोप्-१ तथा स्कोप्-२ उत्सर्जनस्य विवरणं दातुं संस्थाः प्रोत्साह्यन्ते, यदा तु स्कोप्-३ उत्सर्जनस्य प्रतिवेदनं स्वैच्छिकं निर्धारितम् अस्ति।

संस्थाः नेट्-जीरो-लक्ष्यं प्राप्तुं स्वकीयां रणनीतिमपि साझा कर्तुं शक्नुवन्ति। अस्यां स्वच्छशक्तेः स्वीकरणम्, ऊर्जादक्षतायाः वर्धनम्, प्राविधिकोपायाः तथा कार्बन-अपनयनम् इत्यादयः क्रियाकलापाः समाविष्टाः सन्ति। नेट्-जीरो-लक्ष्यं घोषितवतीभ्यः पात्रसंस्थाभ्यः पर्यावरणमन्त्रालयस्य पक्षतः तस्य पुष्टिसम्बन्धिनी स्वीकृतिः प्रदास्यते।

अपरतः डैशबोर्ड् राष्ट्रियजलवायुपरिवर्तनकार्ययोजनायाः अन्तर्गतं प्रचलितानां विभिन्नानां राष्ट्रियमिशनानां प्रगतिं एकस्मिन् एव अङ्कीयमञ्चे प्रदर्शयिष्यति। अनेन सम्बद्धेभ्यः मन्त्रालयेभ्यः विभागेभ्यश्च योजनानां निरीक्षणे, क्षेत्रानुसारं प्रगतेः मूल्याङ्कने तथा कार्यान्वयने विद्यमानानां न्यूनतानां पहिचाने च सहायता भविष्यति।

मन्त्रालयस्य अनुसारं उभौ अङ्कीयमञ्चौ जलवायुसम्बद्धेषु कार्येषु पारदर्शितां, उत्तमं समन्वयं तथा तथ्याधारितां निर्णयप्रक्रियां च सुदृढं करिष्यतः। साथमेव, एताभ्यां भारतस्य आन्तरिकजलवायुप्रयासानां अन्तरराष्ट्रीयजलवायुप्रतिबद्धताभिश्च सह उत्तमं सामञ्जस्यं स्थापयितुमपि सहायता भविष्यति।

------------

Hindusthan Samachar / Dheeraj Maithani