Enter your Email Address to subscribe to our newsletters

रायपुरम्, 16 सितंबरमासः (हि.स.)।
भारतसर्वकारस्य महिलाबालविकासमन्त्रिणी अन्नपूर्णादेवी अद्य बुधवासरात् द्विदिवसीयं छत्तीसगढप्रवासं करिष्यति। अस्मिन् प्रवासे सा राजधानी रायपुरनगरे आयोजितेषु विभिन्नेषु कार्यक्रमेषु सहभागं करिष्यति तथा आङ्गनवाडीकेंद्राणां निरीक्षणं करिष्यति।
निर्धारितकार्यक्रमानुसारं केन्द्रीयमन्त्रिणी षोडशे सितम्बर् दिने रात्रौ रायपुरं प्राप्स्यति तथा तत्र रात्रिविश्रामं करिष्यति।
सप्तदशे सितम्बर् दिने प्रातः एकादशवादने रायपुरस्थे इन्दिरागान्धीकृषिविश्वविद्यालयस्य सभागारे आयोजिते ‘सशक्तनारी समृद्धपरिवार अभियान’ तथा ‘सेवापखवाडा’ इति कार्यक्रमे सहभागं करिष्यति।
तदनन्तरं केन्द्रीयमन्त्रिणी रायपुरस्य विभिन्नानाम् आङ्गनवाडीकेंद्राणां निरीक्षणं कृत्वा तत्रत्यव्यवस्थानां समीक्षणं करिष्यति तथा महिलाबालविकासविभागस्य योजनानां कार्यान्वयनस्य समीक्षा करिष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani