Enter your Email Address to subscribe to our newsletters



– प्रदेशे ७५ जनपदा:, चिकित्सा-महाविद्यालयानां संख्या ८५ अभवत् : मुख्यमन्त्री– प्रदेशस्य सर्वेषु जनपदचिकित्सालयेषु दश-दश-शय्यायुताः डायलिसिस-एककाः प्रारभ्यन्ते : मुख्यमन्त्री योगी
गोरखपुरम्, १६ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् सार्धनववर्षेभ्यः पूर्वं पूर्वोत्तरप्रदेशे इन्सेफेलाइटिस-रोगेण पीड्यमानान् बालकान् तथा मृत्युमुपगच्छन्तं बाल्यं दृष्ट्वा प्रत्येकं जागरूकः माता-पिता चिन्तितः भवति स्म। परन्तु अधुना सा चिन्ता समाप्ता अभवत्। सः अवदत् यत् दस्यूवत् मशकवत् च इन्सेफेलाइटिस-रोगोऽपि समाप्तः अभवत्। अधुना वयं नूतने युगे नूतनस्य गोरखपुरस्य नूतनस्य च उत्तरप्रदेशस्य दर्शनं कुर्मः। मुख्यमन्त्री अवदत् यत् सर्वकारः प्रदेशस्य सर्वेषु जनपदचिकित्सालयेषु दश-दश-शय्यायुक्तानां डायलिसिस-एककानां सुविधा प्रारभते।
मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे पूर्वाह्ने भारतीय-चिकित्सक-सङ्घस्य गोरखपुरस्य पक्षतः सञ्चालितस्य परोपकारी-रक्तकेन्द्रस्य उद्घाटनसमारोहे सम्बोधनं कुर्वन् आसीत्। मुख्यमन्त्रिणा सूत्रं कर्तयित्त्वा परोपकारी-रक्तकेन्द्रस्य उद्घाटनं कृतम्। ततः सः केन्द्रस्य भ्रमणं कृत्वा तत्र उपलब्धानां सुविधानाम्, उपकरणानां व्यवस्थायाश्च विषये सूचनां प्राप्तवान्।
उद्घाटनसमारोहमञ्चात् पूर्वोत्तरप्रदेशस्य स्वास्थ्यसेवासु आगतानां सकारात्मक-परिवर्तनानाम् उल्लेखं कुर्वन् मुख्यमन्त्री अवदत् यत् सार्धनववर्षेभ्यः पूर्वं गोरखपुरस्य बीआरडी-चिकित्सा-महा-विद्यालयमेव अस्मिन् क्षेत्रे स्वास्थ्यसुविधानां प्रमुखं केन्द्रमासीत्। स्थितिः एतादृशी आसीत् यत् एकस्याम् एव शय्यायां चत्वारः चत्वारः रोगिणः प्रवेशिताः भवन्ति स्म। तृतीये तले इन्सेफेलाइटिस-रोगिणां विभाग: आसीत्, तत्र व्यजनानां, शौचालयानां तथा अन्यानां आवश्यक-सुविधानां च अभावः आसीत्। सः अवदत् यत् पूर्वं यत् बीआरडी-चिकित्सा-महाविद्यालयः स्वयमेव अस्वस्थः आसीत्, स एव अधुना सुपर-स्पेशियलिटी-केन्द्रस्य तथा इन्सेफेलाइटिस-सहितानां विविध-रोगाणां चिकित्सायाः प्रमुखं केन्द्रम् अभवत्।
मुख्यमन्त्री अवदत् यत् गोरखपुरे एम्स् अपि स्थापितम् अस्ति। महाराजगञ्ज, कुशीनगर, देवरिया, सिद्धार्थनगर, बस्ती, बलरामपुर, बहराइच, गोण्डा, अयोध्या तथा अम्बेडकरनगरम् इत्यादिषु विभिन्नेषु जनपदेषु चिकित्सामहाविद्यालयाः प्रारब्धाः सन्ति। प्रदेशे ७५ जनपदानि सन्ति, यदा तु चिकित्सामहाविद्यालयानां संख्या ८५ अभवत्। द्वे एम्स-संस्थे अपि सञ्चाल्यमाने स्तः। एमबीबीएस-आसनानां संख्या ४६०० तः वर्धित्वा १३,५०० तः अधिका अभवत् तथा पीजी-आसनानां संख्या द्विगुणिता अभवत्। परिचर्या-पराचिकित्सा-शिक्षायाः अपि विस्तारः क्रियते।
कदाचित् दुर्दान्तदस्यव: आसन् जनपदानां परिचयः, चिकित्सकाः भवन्ति स्म तेषां लक्ष्याः
मुख्यमन्त्री योगी अवदत् यत् एकस्मिन् काले प्रदेशस्य प्रत्येकं जनपदस्य परिचयः केनचित् दुर्दान्तदस्यूना सह सम्बद्धः अभवत्। चिकित्सकाः तेषां लक्ष्याः भवन्ति स्म। गोरखपुरे चिकित्सकानां अपहरणं क्रियते स्म, तेभ्यः धनदण्डः याच्यते स्म, भयपूर्णाः दूरभाषाः आगच्छन्ति स्म तथा तेषां चिकित्साकक्षेषु प्रविश्य ताडनं क्रियते स्म। एतासाम् घटनानां विरुद्धं चिकित्सकैः सह तेन वीथिषु आन्दोलनम् अपि कर्तव्यं भवति स्म। सः अवदत् यत् अधुना गोरखपुरे एव न, अपि तु सम्पूर्णे प्रदेशे चिकित्सकाः, व्यापारिणः नागरिकाश्च स्वयम् सुरक्षिताः अनुभवन्ति। अधुना प्रदेशस्य परिचयः दस्यूभिः न, अपि तु ‘एकः जनपदः, एकः चिकित्सामहाविद्यालयः’ इति लक्ष्येण भवति।
मुख्यमन्त्रिणा आईएमए-सङ्घस्य सामाजिकदायित्वानां प्रशंसा कृता
मुख्यमन्त्रिणा आईएमए-सङ्घस्य सामाजिकदायित्वानां मुक्तकण्ठेन प्रशंसा कृता। सः अवदत् यत् आईएमए केवलं चिकित्साव्यवसायं कुर्वतां चिकित्सकानां संस्था एव नास्ति। सः अवदत् यत् २०१७-१८ तमे वर्षे गोरखपुरस्य सीतापुर-नेत्र-चिकित्सालये आईएमए-सङ्घेन निःशुल्का बहिरोगी-चिकित्सासेवा प्रारब्धा आसीत्। ततः आईएमए-सङ्घेन स्वकार्यालयाय भूमिः याचिता। गोरखपुर-विकास-प्राधिकरणस्य माध्यमेन भूखण्डम् उपलब्धं कर्तुं सहायता कृता। आईएमए-सङ्घेन अस्य भूखण्डस्य समुचितोपयोगं कृत्वा परोपकारी-रक्तकेन्द्रं स्थापितम्, यत् पूर्वोत्तरप्रदेशस्य आवश्यकताग्रस्तेभ्यः रोगिभ्यः रक्तं प्रदातुं योगदानं करिष्यति।
गुरुगोरखनाथ-चिकित्सालयस्य उल्लेखं कृत्वा परोपकारस्य आदर्शं प्रस्तुतवान्
मुख्यमन्त्री स्वगुरुदेवस्य ब्रह्मलीनस्य महन्त-अवेद्यनाथस्य सान्निध्ये गुरुगोरखनाथ-चिकित्सालयस्य प्रारम्भस्य उल्लेखं कृत्वा अवदत् यत् पूर्वं दश-शय्याभिः चिकित्सालयस्य प्रारम्भस्य चर्चा अभवत्, परन्तु गोरखपुरस्य चिकित्सकानां सहयोगेन प्रारम्भे एव अयं चिकित्सालयः १००-शय्यायुक्तः कृतः। अस्य चिकित्सालयेन प्रदर्शितं यत् परोपकारक्षेत्रेऽपि चिकित्सालयः, रक्तपेटिका तथा गहनचिकित्साकेन्द्रं सफलतया सञ्चालयितुं शक्यन्ते। अत्र रक्तविभाजक-यन्त्रस्य, एफेरेसिस तथा डायलिसिस इत्यादिनां सुविधानाम् विकासः अभवत्। सः अवदत् यत् यस्य डायलिसिस्-चिकित्सायै कदाचित् जनाः लखनऊ बीएचयू वा गन्तुं बाध्याः भवन्ति स्म, तस्याः गुणवत्तापूर्णा सुविधा अधुना गोरखपुरे एव उपलब्धा अस्ति।
परोपकारी-रक्तकेन्द्रस्य उद्घाटनसमारोहे मुख्यमन्त्रिणः अन्येषां च अभ्यागतानां स्वागतं कुर्वन् आईएमए गोरखपुरस्य अध्यक्षः डॉ. आरपी शुक्लः अवदत् यत् मुख्यमन्त्री योगी स्वदृष्टिकोणेन गोरखपुरस्य प्रदेशस्य च स्वास्थ्यसेवानां नूतनाम् ऊर्ध्वतां प्रापितवान्। मुख्यमन्त्रिणः नेतृत्वे गोरखपुरं चिकित्साकेन्द्रस्य चिकित्सापर्यटनस्य च नूतनं केन्द्रं भवति। समारोहे महापौरः डॉ. मङ्गलेशश्रीवास्तवः तथा गोरखपुरग्रामीणस्य विधायकः विपिनसिंहः अपि सम्बोधितवन्तौ। आभारप्रदर्शनं आईएमए गोरखपुरस्य पूर्वाध्यक्षः डॉ. डीके सिंहः कृतवान् तथा सञ्चालनं आईएमए गोरखपुरस्य सचिवः डॉ. वाई सिंहः कृतवान्।
अस्मिन् अवसरे एमएलसी तथा भाजपायाः प्रदेशोपाध्यक्षः डॉ. धर्मेन्द्रसिंहः, विधायकः डॉ. विमलेशपासवानः, प्रदीपशुक्लः, राज्य-महिला-आयोगस्य उपाध्यक्षा चारुचौधरी, भाजपायाः जनपदाध्यक्षः जनार्दनतिवारी, महानगराध्यक्षः रमेशप्रतापगुप्तः, आईएमए गोरखपुरस्य संयुक्तसचिवः डॉ. दिनेशचन्द्रः, गुरुगोरखनाथ-रक्तपेटिकाया: प्रभारी डॉ. अवधेश-अग्रवालः, डॉ. महेन्द्र-अग्रवालः, डॉ. अमरेशसिंहः, डॉ. सीएम सिन्हा, डॉ. शिवशङ्करशाही, डॉ. बबिताशुक्ला इत्यादयः बहवः चिकित्सकाः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan