पञ्चायतसहायकेभ्यः मुख्यमन्त्रिणः योगिनः महत्त्वपूर्णा सौगात्, मानधने पञ्चाशत्प्रतिशतं वृद्धिः
लखनऊ, १६ सितम्बरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः प्रदेशस्य ५७ सहस्राधिकेभ्यः पञ्चायतसहायकेभ्यः महत्त्वपूर्णं उपहारं प्रदत्तवान्। तेषां मानधने त्रिसहस्ररूप्यकाणां वृद्धिः कृता अस्ति। सम्प्रति पञ्चायतसहायकेभ्यः प्रतिमासं षट्सहस्ररूप्यकाणि प
मुख्यमंत्री योगी आदित्यनाथ एवं पंचायती राज मंत्री ओम प्रकाश राजभर।


लखनऊ, १६ सितम्बरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः प्रदेशस्य ५७ सहस्राधिकेभ्यः पञ्चायतसहायकेभ्यः महत्त्वपूर्णं उपहारं प्रदत्तवान्। तेषां मानधने त्रिसहस्ररूप्यकाणां वृद्धिः कृता अस्ति। सम्प्रति पञ्चायतसहायकेभ्यः प्रतिमासं षट्सहस्ररूप्यकाणि प्रदीयन्ते, यानि वर्धयित्वा नवसहस्ररूप्यकाणि करिष्यन्ते। एवं मानधने पञ्चाशत्प्रतिशतं वृद्धिः भविष्यति। एतदतिरिक्तं पञ्चायतसहायकेभ्यः सेवासुरक्षा, नगदरहितचिकित्सा तथा महिला पञ्चायतसहायकेभ्यः मातृत्वावकाशस्य सुविधा अपि प्रदास्यते।

पञ्चायतसहायकानां मागानां विषये मुख्यमन्त्रिणा योगी आदित्यनाथेन सह वार्तायाः अनन्तरं पञ्चायतीराजमन्त्री ओमप्रकाशराजभरेण बुधवासरे आन्दोलनस्य नेतृत्वं कुर्वतां पञ्चायतसहायकप्रतिनिधीनाम् आह्वानं कृत्वा तैः सह वार्ता कृता। तदनन्तरं प्रतिनिधीनां उपस्थितौ पत्रकारसम्मेलनं कृत्वा पञ्चायतसहायकानां हिताय स्वीकृतानां निर्णयानां सूचना प्रदत्ता।

सम्प्रति पञ्चायतसहायकानां मानधनं राज्यवित्तायोगस्य धनराश्या प्रदीयते। अधुना मन्त्रिमण्डलस्य स्वीकृतिं प्राप्य प्रत्यक्षलाभान्तरणस्य व्यवस्था कार्यान्विता भविष्यति। ततः नवसहस्ररूप्यकाणां मानधनं पञ्चायतसहायकानां बैंकखातेषु प्रत्यक्षतया प्रेषयिष्यते। अस्य लाभः प्रदेशस्य ५७ सहस्राधिकेभ्यः पञ्चायतसहायकेभ्यः प्राप्स्यति।

प्रधानः सचिवश्च पञ्चायतसहायकं न अपसारयितुं शक्नुतः

पञ्चायतसहायकानां सेवासुरक्षां प्रति अपि महत्त्वपूर्णः निर्णयः कृतः। अधुना ग्रामप्रधानः पंचायतसचिवश्च स्वस्तरेण पञ्चायतसहायकम् अपसारयितुं न शक्नुतः। अस्य कृते जिलाधिकारीस्य अध्यक्षतायां समितिः गठिता भविष्यति। कस्यचित् पञ्चायतसहायकस्य अपसारणस्य निर्णयं केवलं सा समितिः कर्तुं शक्ष्यति।

आन्दोलनकाले पञ्जीकृतानि अभियोगानि प्रत्याह्रियन्ते

आन्दोलनस्य अवधौ येषां पञ्चायतसहायकानां विरुद्धं अभियोगाः पञ्जीकृताः सन्ति, ते प्रत्याह्रियन्ते। अस्मिन् अवधौ कार्यवाहीं कृत्वा ये पञ्चायतसहायकाः पदात् अपसारिताः सन्ति, ते पुनः सेवायां नियुक्ताः करिष्यन्ते।

महिलाभ्यः मातृत्वावकाशः, नगदरहितचिकित्सासुविधा च

महिला पञ्चायतसहायकेभ्यः मातृत्वावकाशस्य सुविधा प्रदास्यते। तदनन्तरं पञ्चायतसहायकेभ्यः चिकित्सोपचाराय नगदरहितचिकित्सासुविधायाः लाभः अपि प्रदास्यते।

वार्तानन्तरं धरना समाप्ता

स्वकीयानां मागानां कृते धरनां कुर्वतां पञ्चायतसहायकानाम् आन्दोलनस्य नेतृत्वं कुर्वतां प्रतिनिधीनां पञ्चायतीराजमन्त्री ओमप्रकाशराजभरेण वार्तायै आह्वानं कृतम् तथा तैः सह चर्चा कृता। ततः पञ्चायतसहायकानां प्रतिनिधयः मन्त्रिणा सह पत्रकारसम्मेलनेऽपि उपस्थिताः आसन्। मुख्यमन्त्रिणः योगी आदित्यनाथस्य स्तरात् स्वीकृतानां निर्णयानां सूचना प्राप्तानन्तरं पञ्चायतसहायकैः स्वीयं धरनाप्रदर्शनम् समाप्तम्।

Hindusthan Samachar / Dheeraj Maithani