Enter your Email Address to subscribe to our newsletters

अभियानस्य कार्यक्रमान् सामाजिक-माध्यमानां माध्यमेन अधिकाधिक-जनानां यावत् प्रापयितुं बलम्
प्रयागराजम्, १६ सेप्टेम्बरमासः (हि.स.)। सेवासङ्कल्पाभियानस्य कार्यक्रमान् अधिकाधिकजनानां यावत् प्रापयितुं सामाजिकमाध्यमसंयोजकानां प्रभावकाणां च महत्त्वपूर्णा भूमिका अस्ति। सर्वकारस्य योजनानां अभियानसम्बद्ध-कार्यक्रमाणां च सूचना जनसामान्यं यावत् प्रापयितुं सामाजिकमाध्यमम् प्रभावी माध्यमं जातम् अस्ति। एतद् उक्तवान् भारतीय-जनतापक्षस्य महानगराध्यक्षः सञ्जयगुप्तः बुधवासरे सिविललाइन्स-स्थिते भारतीय-जनतापक्षस्य कार्यालये आयोजितायां सभायाम्।
प्रधानमन्त्री नरेन्द्रमोदिनः सार्वजनिक-जीवनस्य २५ वर्षाणां पूर्तेः तस्य जन्मदिवसस्य च अवसरे १७ सेप्टेम्बरतः १७ अक्तूबरमासपर्यन्तं सेवासङ्कल्पाभियानं संचाल्यते। अभियानस्य सिद्धतायाः प्रभाविसञ्चालनस्य च विषये सामाजिक-माध्यमप्रभावकानां, सङ्घटनस्य सामाजिक-माध्यम-संयोजकानां, मण्डलाध्यक्षाणां तथा अभियान-सम्बद्धसंयोजकानां सभा आयोजिता।
सञ्जयगुप्तः अवदत् यत् प्रयागराज-महानगरे बहुसङ्ख्यकाः सामाजिक-माध्यमप्रभावकाः सक्रियाः सन्ति। सङ्गठनस्य सामाजिकमाध्यम-संयोजकाः अपि निरन्तरं कार्यं कुर्वन्ति। सः अवदत् यत् अभियानस्य अन्तर्गतं भविष्यमाणानां सर्वेषां कार्यक्रमाणां सामाजिकमाध्यमानां माध्यमेन व्यापकप्रचारः प्रसारश्च सुनिश्चितः करणीयः।
सः अवदत् यत् अभियानस्य आरम्भः ‘आशीर्वादस्य दीपः’ इति कार्यक्रमेण भविष्यति। अस्य अन्तर्गतं जनपदस्तरे, मण्डलस्तरे, मतदानकेन्द्रस्तरे च लाभार्थिभिः सह सम्पर्कः करिष्यते। तेषां गृहेषु प्रमुखेषु मन्दिरेषु स्थानेषु च कार्यक्रमाः आयोजयिष्यन्ते। अभियानस्य अवधौ ‘स्वप्नानां भारतम्’, ‘नमो गाथा’, ‘आङ्गणोत्सवः’, ‘परिवर्तनस्य कथा’, ‘विकसितभारतसङ्कल्पयात्रा’, ‘सेवा-ज्योतियात्रा’, ‘बडनगरतः वाराणसीम्’, ‘सेवा मम योगदानम्’ तथा ‘सेवायै अभियानम्’ इत्यादयः विविधाः कार्यक्रमाः आयो-जयिष्यन्ते। अभियानस्य प्रदेशस्तरीय-कार्यक्रमानाम् अपि १७ सेप्टेम्बरतः १७ अक्तूबरमासपर्यन्तं रूपरेखा निर्धारिता अस्ति।
सभायां काशीक्षेत्रस्य उपाध्यक्षः अवधेश-चन्द्रगुप्तः, अभियानसंयोजकः डॉ. शैलेशपाण्डेयः, सहसंयोजकः विजय-श्रीवास्तवः, विक्रमजीतसिंहभदौरिया, श्यामप्रकाशपाण्डेयः, अनुजकुशवाहः, शुभमसिंहः, आनन्ददुबे, प्रियङ्का पराशरः, चन्द्रा अहलुवालिया, विवेकमिश्रः, पवनश्रीवास्तवः, कल्पनाशर्मा, मञ्जेश-श्रीवास्तवः इत्यादयः अन्ये पदाधिकारिणश्च उपस्थिताः आसन्। सञ्चालनं दीपद्विवेदी कृतवान्। धन्यवादज्ञापनं सामाजिक-माध्यमस्य जनपदसंयोजकः सुजीत-कुशवाहः कृतवान्।
Hindusthan Samachar / Divya Ranjan