Enter your Email Address to subscribe to our newsletters

लखनऊ, १६ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशे अग्रिमे २०२७ तमस्य विधानसभानिर्वाचनस्य सिद्धतायै धारां दातुं राष्ट्रीयस्वयंसेवकसङ्घेन भारतीय-जनतापक्षेण च समन्वयसभाः प्रारब्धाः। बुधवासरे राजधानीलखनऊ इत्यस्य बन्थरास्थिते एकस्मिन् विश्रामगृहे भाजपा-सङ्घयोः समन्वयसभा सम्पन्ना।
अस्यां सभायां राष्ट्रीयस्वयंसेवकसङ्घस्य सहसरकार्यवाहः अरुणकुमारः, भाजपायाः राष्ट्रियमहामन्त्री बी.एल.सन्तोषः तथा प्रदेशभाजपायाः प्रभारी विनोदतावडे च प्रमुखतया उपस्थिताः आसन्। शीर्षनेतृभिः स्पष्टं सन्देशं दत्तं यत् अग्रिमं निर्वाचनं केवलं सत्तासङ्घर्षः नास्ति, अपितु लोकतन्त्रस्य रक्षणाय वैचारिकः सङ्घर्षः अपि अस्ति।
सभायाम् आगाहनं कृतं यत् विपक्षः निरन्तरं समाजं विभाजयितुं जातीनां मध्ये विखण्डनं जनयितुं च प्रयतते। एतदर्थं सङ्घेन ‘लोकमतपरिष्कारस्य’ सङ्कल्पः कृतः। नेतृभिः कार्यकर्तृभ्यः भूमिस्तरे अत्यन्तं संयमेन, धैर्येण विषयस्य स्पष्टतया च कार्यं कर्तुं परामर्शः दत्तः।
खण्डस्तरपर्यन्तं कार्यकर्तृभिः सह संवादः
सङ्घसम्बद्धानां विभिन्नानाम् आनुषङ्गिकसङ्गठनानां पदाधिकारिणः अधुना प्रत्यक्षं खण्डस्तरपर्यन्तं गत्वा सामान्यकार्यकर्तृभिः जनैश्च सह प्रत्यक्षं संवादं स्थापयिष्यन्ति। अधुना परस्पर-समन्वयस्य सुदृढीकरणे, आन्तरिक-मतभेदानां समाप्तौ तथा खण्ड-बूथस्तरे जनानां मध्ये गत्वा ‘लोकमतपरिष्कारं’ कर्तुं च बलं दीयते। अस्याः सभायाः मुख्योद्देश्यं परस्पर-मतभेदान् पूर्णतया विस्मृत्य एकतया निर्वाचनक्षेत्रे अवतरणं तथा विपक्षस्य आख्यानं निराकर्तुम् आसीत्।
सभायां निश्चितं यत् सामाजिकसमरसतां वर्धयितुं कार्यकर्तारः समाजस्य मध्ये सन्तरविदासस्य, भगवत: बिरसामुण्डायाः तथा वन्देमातरमस्य गौरवपूर्णेतिहासस्य विषयान् जनानां समक्षं स्थापयिष्यन्ति। भाजपायाः ‘सेवासङ्कल्पाभियानस्य’ अन-न्तरमेव सम्पूर्णे उत्तरप्रदेशे बृहद्रूपेण सन्तरविदासजयन्ती आयोजयिष्यते। अस्य माध्यमेन दलित-वञ्चितसमाजयोः मध्ये सङ्गठनस्य सम्पर्कं सुदृढं कर्तुं प्रयत्नः भविष्यति।
अवध-कानपुरयोः प्रान्तीयपदाधिकारिणः उपस्थिताः
समन्वयसभायाः अवधौ सङ्गठनदृष्ट्या अत्यन्तमहत्त्वपूर्णयोः अवध-कानपुर-प्रान्तयोः विशेषसभा अपि अभवत्। अस्यां सभायां उभयोः प्रान्तयोः भूमिस्तरीय-प्रतिपुष्टिविषये चर्चा कृता।
सङ्घस्य पक्षतः पूर्वी-उत्तरप्रदेशस्य क्षेत्रप्रचारकः अनिलः, अवधप्रान्तस्य प्रान्तप्रचारकः कौशलः, सहप्रान्तप्रचारकः सञ्जयः, कानपुरप्रान्तस्य प्रान्तप्रचारकः श्रीरामः इत्येतेषां सहितं उभयोः प्रान्तयोः प्रान्तटोलीतः चयनिताः पदाधिकारिणः तथा सर्वे विभागप्रचारकाः उपस्थिताः आसन्।
भाजपायाः पक्षतः प्रदेशाध्यक्षः पङ्कज-चौधरी, प्रदेशमहामन्त्री (सङ्गठनम्) धर्मपालसिंहः, अवधक्षेत्रस्य भाजपाप्रभारी दिलीपपटेलः तथा कानपुरस्य प्रभारी एवं प्रदेशमहामन्त्री शङ्करलाललोधी इत्यादयः विभिन्नसङ्गठनानां प्रान्तीय-पदाधिकारिणः च सभायां भागं गृहीतवन्तः।
Hindusthan Samachar / Divya Ranjan