उज्जयिन्यां स्थितहनुमन्मन्दिरस्य कृते समागताः श्रद्धालवः, अवदन्—प्रतिमा न अपसारणीया
उज्जयिनी, १६ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिनीजनपदे सराफा-विपणे स्थितस्य खड़े-हनुमन्मन्दिरस्य मार्गविस्तारीकरणस्य अवधौ तत्रैव संरक्षणस्य आग्रहं कृत्वा बुधवासरे सकलहिन्दुसमाजेन शक्तिप्रदर्शनं कृतम्। मन्दिरात् कण्ठाल-चतुष्पथपर्यन्तं प्रा
उज्जैन में खड़े हनुमान जी को अपने स्थान से नहीं हटाने के लिए जुटे हजारों श्रद्धालु


उज्जैन में भक्तों ने किया हनुमान चालीसा का पाठ


उज्जयिनी, १६ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिनीजनपदे सराफा-विपणे स्थितस्य खड़े-हनुमन्मन्दिरस्य मार्गविस्तारीकरणस्य अवधौ तत्रैव संरक्षणस्य आग्रहं कृत्वा बुधवासरे सकलहिन्दुसमाजेन शक्तिप्रदर्शनं कृतम्। मन्दिरात् कण्ठाल-चतुष्पथपर्यन्तं प्रायः एककिलोमीटरमिते मार्गे श्रद्धालूनां विशालः जनसमूहः समागतः। साधुसन्तैः प्रतिमां न अपसारयितुं आग्रहं कुर्वद्भिः भव्यं मन्दिरनिर्माणस्य सङ्कल्पश्च कारितः।

बुधवासरे खड़े-हनुमन्मन्दिरस्य समर्थनार्थं पञ्चसहस्राधिकाः श्रद्धालवः समागताः। मन्दिरात् कण्ठालचतुष्पथपर्यन्तं प्रायः एककिलोमीटरमिते मार्गे पादस्थापनाय अपि स्थानं नासीत्। आयोजने साधुसन्तैः सह महिलाः बालकाश्च अपि सम्मिलिताः। श्रद्धालुभिः हनुमानचालीसापाठः कृतः तथा ‘जय श्रीराम’ इति घोषाः कृताः। स्थले पुलिस-प्रशासनस्य दलमपि तैनातम् आसीत्।

अस्मिन् अवसरे साधुसन्तैः श्रद्धालुभ्यः खड़े-हनुमानसर्वकारस्य प्रतिमां तस्मिन्नेव स्थाने स्थापयितुं सङ्कल्पः कारितः। मञ्चात् साधुसन्तैः उक्तं यत् अस्य कृते ते प्राणान् त्यक्तुमपि सिद्धाः सन्ति तथा आवश्यकता भवति चेत् स्वेदेन सह रक्तमपि स्रक्ष्यन्ति। प्रशासनं प्रति संचेतनां दत्त्वा ते अवदन् यत् यदि प्रतिमां अपसारयितुम् इच्छति, तर्हि दिवसे एव अपसारयित्वा दर्शयतु। ते अवदन् यत् वक्षसि गुटिकां सोढुमपि ते सिद्धाः सन्ति। साधुसन्तैः इदमपि उक्तं यत् यदि मागः न स्वीक्रियते, तर्हि अग्रिमवारं पञ्चसहस्राणां स्थाने पञ्चाशत्सहस्रं भक्ताः समागमिष्यन्ति।

साधुसन्तानां सान्निध्ये श्रद्धालुभिः समाजजनैश्च खड़े-हनुमन्मन्दिरं तस्मिन्नेव स्थाने स्थापयित्वा तत्र भव्यं मन्दिरं निर्मातुं सङ्कल्पः कृतः। सर्वसमाजस्य पक्षतः एसडीएम् एलेन-गर्ग-महोदयाय बाबामहाकालेश्वरस्य नाम्ना ज्ञापनपत्रं समर्पितम्। तस्मिन् खड़े-हनुमानस्य प्रतिमां वर्तमानस्थानात् न अपसारयितुम् आग्रहः कृतः। ज्ञापनपत्रे उक्तं यत् मार्गविस्तारीकरणस्य अवधौ मन्दिरं अन्यत्र स्थानान्तरितं न क्रियताम् तथा प्रतिमा यथास्थाने एव विराजिता स्थाप्यताम्। समाजेन श्रद्धालूनाम् आस्थाम् उल्लिख्य अस्मिन्नेव स्थाने भव्यं मन्दिरं निर्मातुमपि आग्रहः कृतः।

विश्वहिन्दुपरिषदः महेश-आञ्जनः अवदत् यत् गत १५–१७ दिनेभ्यः खड़े-हनुमान्तम् अपसारयितुं योजनानां सूचना प्रकाशे आगच्छति। समाजस्य आग्रहः अस्ति यत् प्रतिमा अन्यत्र स्थानान्तरिता न क्रियताम्। सः अवदत् यत् बुधवासरे सहस्रशः जनाः श्रद्धायाः कारणेन अत्र समागताः। यदि मागः न स्वीक्रियते, तर्हि साधुसन्तानां नेतृत्वे विश्वहिन्दुपरिषद् बजरङ्गदलश्च आन्दोलनस्य अग्रिमां रणनीतिं निर्धारयिष्यतः। सः अवदत् यत् अग्रिमवारं पञ्चाशत्सहस्रं जनाः समागमिष्यन्ति।

महाकालमन्दिरस्य पुजारी महेशगुरुः अवदत् यत् खड़े-हनुमानस्य विषये सम्पूर्णहिन्दुसमाजस्य भावना प्रशासनं प्रति प्रेषिता अस्ति। तेन प्रतिमां यथास्थाने स्थापयित्वा मन्दिरस्य सम्मानं संरक्षितुं आग्रहः कृतः। तेन प्रशासनम् उक्तं यत् यदि प्रतिमाम् अपसारयितुं निर्णयः क्रियते, तर्हि कार्यवाही रात्रौ न, अपि तु दिवसे एव क्रियताम्। सः अवदत्—“तदा हिन्दूनां वक्षांसि भवतां पुरतः भविष्यन्ति, ये गुटिकाप्रहारं सोढुं स्वयम् अग्रे करिष्यन्ति।”

समाजस्य पक्षतः समर्पिते ज्ञापनपत्रे उक्तं यत् मार्गविस्तारीकरणाय खड़े-हनुमन्मन्दिरस्य पार्श्वस्थाः संरचनाः अपसारिताः सन्ति। तथापि प्रतिमाम् अपसारयितुं कृताः प्रयासाः सफलाः न अभवन्। समाजस्य मतम् अस्ति यत् प्रतिमां तस्मिन्नेव स्थाने स्थापयित्वा मन्दिरस्य भव्यं स्वरूपं विकसितव्यम्।

ज्ञापनपत्रं स्वीकृत्य एसडीएम् एलेनगर्गः अवदत् यत् बाबामहाकालेश्वरस्य नाम्ना ज्ञापनपत्रं प्राप्तम् अस्ति। प्रशासनं जनानां मागं समुचितमाध्यमेन मुख्यमन्त्रिणे सम्बद्धमञ्चं च प्रेषयिष्यति। अस्मिन् विषये यः कश्चित् निर्णयः भविष्यति, तस्य सूचना जनानां कृते प्रदास्यते। प्रदर्शनस्य अवधौ साधुसन्तैः श्रद्धालुभ्यः समाजजनाभ्यश्च खड़े-हनुमन्मन्दिरस्य भव्यनिर्माणस्य सङ्कल्पः अपि कारितः। आयोजनं शान्तिपूर्णम् आसीत् तथा आरक्षक-प्रशासनस्य दलं सम्पूर्णसमयं स्थले उपस्थितम् आसीत्।

सिंहस्थ-२०२८स्य सिद्धतायाः अन्तर्गतम् उज्जयिन्यां कण्ठाल-छत्रीचतुष्पथस्य मार्गे सतीद्वारस्य समीपे स्थितं खड़े-हनुमन्मन्दिरं मार्गविस्तारीकरणाय याता+यातस्य सुगमीकरणाय च अपसार्यते। प्रशासनेन मन्दिरस्य संरचना अपसारिता, किन्तु प्राचीनहनुमत्प्रतिमां भारीयन्त्रैः क्रेनयन्त्रस्य च साहाय्येन अपि अपसारयितुं कृताः प्रयासाः सफलाः न अभवन्। ततः परम् अयं विषयः चर्चायाम् आगतः। भक्ताः एतत् आस्थायाः चमत्कारस्य च रूपेण पश्यन्ति। ते प्रशासनात् आग्रहं कृतवन्तः यत् प्रतिमा अन्यत्र स्थानान्तरिता न क्रियताम्, अपि तु तस्मिन्नेव स्थाने स्थापिता भवेत्।

Hindusthan Samachar / Divya Ranjan