भारतीयशिक्षाबोर्ड-क्रीडाणां समापनम्, आचार्यकुलम् इत्यस्य श्रेष्ठं प्रदर्शनम्
३५ विद्यालयानां १७५ दलानां ९५० क्रीडकैः सहभागिता हरिद्वारम्, १६ सेप्टेम्बरमासः (हि.स.)। पतञ्जलिस्थिते आचार्यकुले द्विदिवसीय-द्वितीय-भारतीयशिक्षाबोर्ड-क्रीडास्पर्धानां समापनं मङ्गलवासरे सायंकाले अभवत्। क्रीडास्पर्धाः १४ तथा १५ सेप्टेम्बरमासयोः आयोज
आचार्य कुलम की बालिका टीम के साथ स्वामी रामदेव


३५ विद्यालयानां १७५ दलानां ९५० क्रीडकैः सहभागिता

हरिद्वारम्, १६ सेप्टेम्बरमासः (हि.स.)। पतञ्जलिस्थिते आचार्यकुले द्विदिवसीय-द्वितीय-भारतीयशिक्षाबोर्ड-क्रीडास्पर्धानां समापनं मङ्गलवासरे सायंकाले अभवत्। क्रीडास्पर्धाः १४ तथा १५ सेप्टेम्बरमासयोः आयोजिताः आसन्।

पतञ्जलिमाध्यमकेन्द्रेण बुधवासरे सायंकाले निर्गते विज्ञप्त्यनुसारं स्वामिरामदेवेन आचार्यबालकृष्णेन च स्थापिते आवासीय-संस्थाने आचार्यकुले आयोजितासु एतासु क्रीडास्पर्धासु १४, १७ तथा १९ वर्षाणां न्यूनवयस्कवर्गेषु ३५ विद्यालयानां १७५ दलानां ९५० क्रीडकाः भागं गृहीतवन्तः। क्रीडकैः कबड्डी, बैडमिण्टन, पादकन्दुकक्रीडा, बास्केटबॉल तथा मल्लयुद्धे स्वप्रतिभा प्रदर्शिता।

स्पर्धायां सर्वेषु विद्यालयेषु आचार्यकुलस्य प्रदर्शनं श्रेष्ठतमम् अभवत्। बालकवर्गे आचार्यकुलेन कबड्डी-क्रीडायां १९ वर्षाणां न्यूनवयस्कवर्गे, बैडमिण्टन-क्रीडायां १४, १७, १९ वर्षाणां न्यूनवयस्कवर्गेषु एकल-द्वन्द्वयोः, बास्केटबॉल-क्रीडायां १९ वर्षाणां न्यूनवयस्कवर्गे, पादकन्दुकक्रीडायां १४, १७, १९ वर्षाणां न्यूनवयस्कवर्गेषु प्रथमस्थानं प्राप्तम्। कबड्डी-क्रीडायां १४, १७ वर्षाणां न्यूनवयस्कवर्गेषु तथा बास्केट-बॉल-क्रीडायां १४, १७ वर्षाणां न्यूनवयस्कवर्गेषु द्वितीयस्थानं प्राप्तम्।

बालिकावर्गे कबड्डी-क्रीडायां १७, १९ वर्षाणां न्यूनवयस्कवर्गेषु, बैडमिण्टन-क्रीडायां १४, १९ वर्षाणां न्यूनवयस्कवर्गेषु एकल-द्वन्द्वयोः तथा बास्केटबॉल-क्रीडायां १७ वर्षाणां न्यूनवयस्कवर्गे प्रथमस्थानं प्राप्तम्। बैडमिण्टन-क्रीडायां १७ वर्षाणां न्यूनवयस्कवर्गस्य एकल-द्वन्द्वयोः द्वितीयस्थानं प्राप्तम्।

समापनसमारोहे स्वामीरामदेवः विजेतृभ्यः पुरस्कारान् प्रदत्तवान् तथा सर्वेषां क्रीडकानां क्रीडाभावनायाः प्रशंसां कृतवान्। सः अवदत् यत् आचार्यकुलं विश्वस्य विशिष्टं शिक्षणसंस्थानम् अस्ति, यत्र विद्यार्थिषु क्रीडासु नैसर्गिकं कौशलम् अस्ति। आचार्यबालकृष्णः अवदत् यत् भारतीयशिक्षाबोर्डः क्रीडानां माध्यमेन विद्यार्थिनां भविष्यं संवर्धयितुं कृतसंकल्पः अस्ति।

अस्मिन् अवसरे उपाध्यक्षा ऋतंभरा शास्त्री, प्राचार्या स्वाति मुंशी, उपप्राचार्यः तापस-कुमारबेरा, समन्वयिका दीपा, क्रीडाध्यक्षः अमितदानी इत्यादयः अनेके क्रीडाधिकारिणः, निर्णायकाः प्रशिक्षकाश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan