दिव्याङ्गबालकैः सह मुख्यमन्त्रिणा धामिना जन्मदिवसस्य आचरणम्
देहरादूनम्, 16 सितंबरमासः (हि.स.)। उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी बुधवासरे स्वजन्मदिवसस्य अवसरे देहरादूनस्थितं राष्ट्रियदृष्टिदिव्याङ्गजनसशक्तीकरणसंस्थानं प्राप्य तत्र अध्ययनरतैः दिव्याङ्गबालकैः सह जन्मदिवसस्य हर्षं संविभक्तवान्। मुख्यम
राष्ट्रीय दृष्टि दिव्यांगजन सशक्तिकरण संस्थान पहुंचकर अध्ययनरत दिव्यांग बच्चों के साथ जन्मदिन की खुशियां  मनाते मुख्यमंत्री धान औऱ पत्नी गीता धामी।


देहरादूनम्, 16 सितंबरमासः (हि.स.)। उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी बुधवासरे स्वजन्मदिवसस्य अवसरे देहरादूनस्थितं राष्ट्रियदृष्टिदिव्याङ्गजनसशक्तीकरणसंस्थानं प्राप्य तत्र अध्ययनरतैः दिव्याङ्गबालकैः सह जन्मदिवसस्य हर्षं संविभक्तवान्। मुख्यमन्त्रिणा बालकैः सह केक् छेदितः तथा तैः सह आत्मीयतया मिलित्वा संवादः कृतः।

मुख्यमन्त्री बालकानाम् उत्साहवर्धनं कुर्वन् तैः सह समयं व्यतीतवान्। मुख्यमन्त्रिणं स्वमध्ये प्राप्य बालकाः अपि उत्साहिताः प्रसन्नाश्च दृश्यन्ते स्म। अस्मिन् अवसरे संस्थानस्य वातावरणम् आत्मीयतया अपनत्वेन च परिपूर्णम् आसीत्।

धामिना उक्तं यत् बालकैः सह व्यतीतः समयः जीवने नूतनां ऊर्जां प्रेरणां च प्रददाति। प्रत्येकस्मिन् बालके प्रतिभा सम्भावना च भवति। अग्रे गन्तुं तेभ्यः अवसरः, प्रोत्साहनं विश्वासश्च प्राप्तव्यः। सः उक्तवान् यत् दिव्याङ्गजनानां सशक्तीकरणं केवलं सर्वकारीयप्रयत्नेषु सीमितः विषयः नास्ति, अपितु एतत् समाजस्य सामूहिकदायित्वमपि अस्ति। दृढेच्छाशक्त्या, आत्मविश्वासेन निरन्तरप्रयत्नेन च जीवनस्य आव्हानानि अतिक्रान्तुं शक्यन्ते।

मुख्यमन्त्रिणा बालकाः स्वलक्ष्यं प्रति पूर्णविश्वासेन उत्साहेन च अग्रे गन्तुं प्रेरिताः तथा तेषां उज्ज्वलभविष्यस्य कामना कृता। सः उक्तवान् यत् समाजे प्रत्येकस्मै व्यक्तये समानावसरः, सम्मानः तथा अग्रे गन्तुम् अनुकूलं वातावरणं प्रदातुं सर्वेषां दायित्वम् अस्ति। बालकानां स्नेहः तेषां मुखेषु च दृश्यन्ते प्रसन्नतायाः भावाः एव तस्य जन्मदिवसस्य सर्वाधिकं विशेषं स्मरणीयं च उपहारम् इति सः उक्तवान्।

अस्मिन् अवसरे मुख्यमन्त्रिणः पत्नी गीता पुष्करधामी, मन्त्रिमण्डलस्य मन्त्री गणेशजोशी तथा संस्थानस्य शिक्षकाः उपस्थिताः आसन्।--

Hindusthan Samachar / Dheeraj Maithani