Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 16 सितंबरमासः (हि.स.)।
मुख्यमन्त्रिणः पुष्करसिंहधामिनः जन्मदिवसस्य अवसरे सन्तसमाजेन शुभकामनाः प्रदत्ताः। अखिलभारतीयअखाडापरिषदः मनसादेवीमन्दिरन्यासस्य च अध्यक्षस्य श्रीमन्तस्य डॉ. रविन्द्रपुरीमहाराजस्य नेतृत्वे सन्ताः देहरादूनस्थितं मुख्यमन्त्रिणः आवासं गत्वा तेन सह मिलित्वा तस्य उत्तमस्वास्थ्यस्य दीर्घायुषश्च कामनां कृतवन्तः।
श्रीमन्तः रविन्द्रपुरी अवदत् यत् मुख्यमन्त्रिणः धामिनः नेतृत्वे उत्तराखण्डः विकासस्य नूतनान् आयामान् रचयति। सनातनस्य मानबिन्दूनां संरक्षणाय गतिः प्राप्ता अस्ति तथा च प्रदेशस्य आर्थिकस्थितिः सुदृढा अभवत्। सर्वकारस्य कल्याणकारीयोजनाभिः जनानां जीवनस्तरः उत्तमः अभवत्। अस्मिन् अवसरे महामण्डलेश्वरः स्वामी हरिचेतनानन्दः, महामण्डलेश्वरः स्वामी ललितानन्दगिरिः महन्तः दर्शनभारती च मुख्यमन्त्रिणे शुभकामनाः प्रदत्तवन्तः।
तत्रैव मुख्यमन्त्रिणः जन्मदिवसस्य अवसरे श्रीवैश्यबन्धुसमाजः मध्यक्षेत्रं हरिद्वारम् इत्यनेन भल्ला-अन्तरमहाविद्यालयस्य छात्रेभ्यः छात्राभ्यश्च ज्ञानविज्ञानसम्बद्धानि पुस्तकानि वितीर्णानि। समाजस्य संस्थापकाध्यक्षः अशोककुमारअग्रवालः डॉ. अजयअग्रवालश्च अवदतां यत् पुस्तकानि छात्राणां जीवनस्य चरित्रस्य च निर्माणे महत्त्वपूर्णां भूमिकां निर्वहन्ति। शिक्षितसमाज एव राष्ट्रनिर्माणे योगदानं ददाति। महावीरमित्तलः विनीतअग्रवालश्च अवदतां यत् युवानः उत्तमशिक्षां प्राप्य वैज्ञानिकाः, चिकित्सकाः अभियन्तारश्च भूत्वा देशसेवां कुर्वन्तु। प्रधानाचार्यः त्रिलोकचन्दः आभारं प्रकटितवान्।
Hindusthan Samachar / Dheeraj Maithani